२०२ पर्यव (परि+अव)

  • {पर्यवे}
  • इ (इण् गतौ)।
  • ‘तद्यथेह चेह चापथेन चरित्वा पन्थानं पर्यवेयात्’ (ऐ० ब्रा० ४।४)। पर्यवेयात् प्रतिनिवर्तेते।
  • ‘तं ततो नानीजानमपरा फाल्गुनी पर्यवेयात्’ (आप० श्रौ० ८।६।२१।४)। पर्यवेयात् अतिक्रामेत्।
  • ‘तेषां यदा तत् पर्यवैति’ (बृह० उ० ६।२।१६)। तत् (सुकृतं) पर्यवैति क्षीयते।
  • ‘तेषां पञ्च शतानि संवत्सराणां पर्यवेतान्यासुः’ (श० ब्रा० १२।३।३।१)। पर्यवेतान्यतीतानि।
  • ‘संवत्सरे पर्यवेते’ (श० ब्रा० १३।४।४।१)। उक्तोऽर्थः।

ईक्ष्

  • {पर्यवेक्ष्}
  • ईक्ष् (ईक्ष दर्शने)।
  • ‘ततो वाचस्पति जज्ञे तं मनः पर्यवेक्षते’ (भा० आश्व० २१।९)। पर्यवेक्षते परितः पश्यति।

कॄ

  • {पर्यवकॄ}
  • कॄ (कॄ विक्षेपे)।
  • ‘दिव्यैश्च पुष्पैस्तं देवाः समन्तात् पर्यवाकिरन्’ (भा० वन० १३५९६)। आकीर्णमभिवृष्टमकुर्वन् इत्यर्थः।

छिद्

  • {पर्यवच्छिद्}
  • छिद् (छिदिर् द्वैधीकरणे)।
  • ‘यः कामयेतोभयत एनं विशः पर्यवच्छिनदानीति’ (ऐ० ब्रा० ३।१९)। उभयतः पूर्वाश्च पराश्च विशः प्रजास्तासामवच्छेदनं प्रच्यावनं करवाणीत्यर्थः।

दो

  • {पर्यवदो}
  • दो (दो अवखण्डने)।
  • ‘पुरोडाशं समन्तं पर्यवद्यति’ (तै० सं० २।३।२।४)। परितोऽवद्यति अवदानं करोतीत्याह।

धा

  • {पर्यवधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘आर्याय वा पर्यवदध्यात्’ (आप० ध० १।१।३।४०)। सर्वमेकत्र पात्रेऽवधाय तत्समीपे भूमौ स्थापयेदित्यर्थ इति हरदत्तः।
  • ‘अश्राद्धेन तु पर्यवदध्यात्’ (आप० ध० १।३।१०।३०)। प्रेतसंक्लृप्ते ऽन्ने भुक्ते) तस्योपरि अश्राद्धमन्नं भुञ्जीतेत्यर्थः।

नुद्

  • {पर्यवनुद्}
  • नुद् (णुद प्रेरणे)।
  • ‘बलिं ह्रियमाणं पन्थानं पर्यवनुदति’ (पञ्च० ब्रा० १५।७।४)।

पद्

  • {पर्यवपद्}
  • पद् (पद गतौ)।
  • ‘राजभ्राजोः पदान्तार्थं ग्रहणं झलादिराभ्यामिटा पर्यवपञ्चते’ (व्रश्चभ्रस्जेति सूत्रे ८।२।३६ वृत्तौ)। पर्यवपद्यते व्यवधीयते। इह लुप्ते प्रत्यये सर्वाणि प्रत्ययलक्षणानि कार्याणि पर्यवपन्नानि भवन्ति।
  • ‘प्रत्ययलोपे प्रत्ययलक्षणम्’ (१।१।६२) इति सूत्रे तुग्दीर्घत्वयोश्चेत्यस्मिन्वार्तिके भाष्ये)। पर्यवपन्नानि मृतानि पर्यवसन्नानि।
  • ‘अनेनैतत्पर्यवपन्नम्’ (पा० ५।१।४८ सूत्रे भाष्ये)। पर्यवपन्नं व्यवहितम्।
  • ‘पर्यवपादो रूपान्तरापत्तिः’ (टित आत्मनेपदानां टेरे इति सूत्रे कैयटः)। निगदव्याख्यातम्।

सो

  • {पर्यवसो}
  • सो (षो अन्तकर्मणि)।
  • ‘महासेतुः म घटितो राज्ञा नौभिः स्वसिद्धये। पर्यवस्यदविधिवशाच्छत्रूणां सिद्धये पुनः’ (राज० ७।१५४९)॥ पर्यणमतेत्यर्थः। पर्यवास्यदिति तूचितम्।
  • ‘एष एव समुच्चयः सद्योगेऽसद्योगे सदसद्योगे च पर्यवस्यतीति न पृथग् लक्ष्यते’ (क,० प्र० १०)। समाप्नोति, अन्तः प्रविशति।
  • ‘हा दण्डकारण्य वासप्रियसखि ! लोकान्तरं पर्यवसितासि’ (उत्तर० ७)। गतासीत्यर्थः।

स्कन्द्

  • {पर्यवस्कन्द्}
  • स्कन्द् (स्कन्दिर् गतिशोषणयोः)।
  • ‘आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते’ (भा० भीष्म० ७६।८)। पर्यवस्कन्दः प्लुत्या हस्त्यादिभ्योऽवतरणम्।

स्तम्भ्

  • {पर्यवष्टम्भ्}
  • स्तम्भ् (स्तन्भु धारणे, सौत्रो धातुः)।
  • ‘पर्यवष्टभ्यतामेतत् करालायतनम्’ (मालती० ५)। पर्यवष्टभ्यतां परिक्षिप्यताम्, रुध्यताम्।

स्था

  • {पर्यवस्था}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘प्रसन्नचेतसो ह्यस्य बुद्धिः पर्यवतिष्ठते’ (गीता २।६५)। पर्यवतिष्ठते ऽ चला भवति।
  • ‘न पर्यवस्थितः कश्चिद् देवो वा मानुषोऽपि वा’ (भा० वन० १४२।४९)। पर्यवस्थितोऽनाकुलं स्थितः, शान्तः, समाहितः।
  • ‘हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम्’ (भा० वि० ४८।२२)। पर्यवस्थितं समवस्थितम्, तत्परम्।
  • ‘हन्तारं सर्वसैन्यानां पौरुषे पर्यवस्थितम्’ (रा० ३।२८।१२)। उक्तोऽर्थः।
  • ‘प्रणवाद्यास्तथा वेदाः प्रणवे पर्यवस्थिताः’ (बौ० ध० ४।१।२७)। पर्यवस्थिताः परिसमाप्ता अन्तः स्थिताः।
  • ‘भरतो राज्यमासाद्य कैकेय्यां पर्यवस्थितः’ (रा० २।३१।१४)। पर्यवस्थितो ऽ नुरक्तः। कैकेय्या प्रतिष्ठावानिति वा।
  • ‘तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम्। ददृशुः सर्वभूतानि…’ (रा० ३।२८।११)। राक्षसं पर्यवस्थितम्=राक्षसविरोधायावस्थितम्।
  • ‘स राजा महता यत्नेन पर्यवस्थापितोऽ मात्यैः’ (स्वप्न० १)। पर्यवस्थापितः सान्त्वितः, उपशमितः।
  • ‘तं तु पर्यवस्थापयितुं न कश्चिद् यत्नवानमात्यः’ (स्वप्न० १)। पर्यवस्थापयितुं शमयितुं सान्त्वयितुं समाधातुम्।
  • ‘छन्दसि परिपन्थि-परिपरिणौ पर्यवस्थातरि’ (पा० ५।२।८९)। पर्यवस्थाता विरोधकः।
  • ‘अजितः पर्यवस्थाता कोत्र यो न मया जितः’ (भा० सभा० २२।२७)। उक्तोऽर्थः। पर्यवस्था विरोधनमित्यमरः।