न न

द्विवारं नकारस्य उच्चारणम् मूलविषयं दृढीकरोति ।+++(5)+++ “रामः न न गतः” = रामः अवश्यम् एव गतः इत्याशयः ।

सम्भाव्य-निषेध-निवर्तने द्वौ प्रतिषेधौ (५.१.९) । सम्भाव्यस्य निषेधस्य निवर्तने द्वौ प्रतिषेधौ प्रयोक्तव्यौ । यथा‌— “समरमूर्धनि येन तरस्विना न न जितो विजयी त्रिदशेश्वरः …”
— इति वामनः काव्यालङ्कारसूत्रे ।

निषेधदृढीकरणे वाक्यद्वयम्

कुत्रचित् “न न” इति प्रयोगेण निषेधस्य दृढीभवनम् अपि कृतं दृश्यते । तत्र वस्तुतः “न । न ।” इति वाक्यद्वयं स्वीक्रियते । यथा‌— रामः उक्तवान्, न, न गच्छामि अहं तत्र । अस्मिन् वाक्ये “न” तथा “न गच्छामि अहं तत्र” इति द्वे भिन्ने वाक्ये स्तः ।