२ ३ २ अल्पप्रगतस्तरः

अस्मिन् स्तरे पूर्वोक्ताः (परमप्राथमिकस्तरे उक्ताः) सर्वे नियमाः अन्विताः भवन्ति एव । तान् अतिरिच्य स्थिताः केचन बिन्दवः यथा - विधिलिङ्लकारः – सम्भावनायां विध्यर्थे, लुङर्थे चेति बहुषु अवसरेषु अस्य लकारस्य प्रयोगः भवितुम् अर्हति । एतस्य रूपमपि नातिकठिनम् । (सार्वधातुकत्वात्) अतः एतस्मिन् स्तरे अस्य प्रयोगः भवितुम् अर्हति।

  • अजन्तेषु - ऋकारान्तः पुंलिङ्गः, ऋकारान्तः स्त्रीलिङ्गः, इकारान्त-उकारान्तौ पुंसि स्त्रियां च
  • हलन्तेषु - तकारान्तस्य प्रयोगः भवितुम् अर्हति । अन्तभेदे सत्यपि हलन्तेषु रूपसाम्यं भवति बहुधा । अतः एकस्य शब्दस्य सादृश्येन अन्येषां रूपाणाम् अभ्यूहनं न क्लेशाय ।
  • शत्रन्त-शानजन्तयोः प्रथमाविभक्तौ प्रयोगः (पुं. स्त्री.नपु) - प्रथमे, चतुर्थे, षष्ठे, दशमे च गणे अन्तर्भूतानां २०-३० धातूनां प्रयोगः ।