उद्देश्य-विधेय-भावः

परिचयः

  • वाक्यार्थविवरणे अप्राप्तार्थस्य विधेयत्वम्, प्राप्तांशस्य उद्देश्यत्वमिति सिद्धान्तः।
  • वाक्यानुपूर्वी कदाचित् समाना भवति चेदपि उद्देश्यविधेयभावः भिद्यते। यथा-
    • अनेकेषां पुरुषाणां मध्ये कंचित् निर्दिश्य कश्चित् पृच्छति– ‘अयं कः?’ इति। ‘अयं रामः’- इति तस्य प्रश्नस्य उत्तरं भवति।
      • उत्तरवाक्ये ‘अयम्’ इति उद्देश्यम् , ज्ञातत्वात् , ‘रामः’ इति तु विधेयम् , अज्ञातत्वात्।
    • कदाचित् तत्रैव ‘अत्र रामः कः?’ इति प्रश्नो भवति। तदापि अङ्गुलिनिर्देशपुरस्सरं वक्ता ‘अयं रामः’ - इति तस्य प्रश्नस्य उत्तरं वदति।
      • उत्तरवाक्ये ‘रामः’ इति उद्देश्यम् , ‘अयम्’ इति विधेयम्।
  • अधिकांशः/ अविवक्षितांशः
    • गृहं सम्मार्ष्टि। इत्यस्मिन् एकत्वम् “अविवक्षितम्”।
    • दन्तं सम्मार्जय। इत्यस्मिन् एकत्वम् “अविवक्षितम्”।
  • अभिज्ञानप्रक्रिया
    • ज्ञातांश+अज्ञातांश-कलनेन बहुदा निश्चयो भवति।
    • (आर्थी/शाब्दी)भावनाकलनेन स्पष्टतरम् भवति - साध्यस्योद्देश्यप्रायतादि-नियमा अन्यत्रोक्ताः।
    • न्यायप्रयोगः।

कृत्यङ्गैः सम्बन्धः

  • कृतिः = आर्थी/शाब्दी-भावना ऽन्यत्रोक्ता।
  • अग्निहोत्रं जुहोति।
    • अग्निहोत्रहोमेन +इष्टम्+++(√इष्+क्त →साध्यम्)+++ भावयेत्।
    • विधेयम् - अग्निहोत्रहोमः = सकलविशेषणविशिष्टा ऽऽर्थीभावना। इष्टम् उद्देश्यम्।
    • “सर्वत्रावस्थितो न्यायो - भावनांशद्वये विधिः।” अत्र साध्यम् न भवति विधेयम्। साधनम् इतिकर्तव्यता चैव विधीयते।
  • [अग्निहोत्रं जुहोति।] दध्ना जुहोति।
    • दध्यात्मकद्रव्येण प्रकृतं होमम्+++(→साध्यम्)+++ भावयेत्।
    • कृतिः पूर्ववाक्येनोक्ता उद्देश्यकोटौ। दध्नेति तद्विशेषण विधेयम्।
  • [पद्मनाभः संस्कृताध्यापकः।] “पद्मनाभस्तु प्राचार्यः ।” इत्यस्यार्थविवरणम् - “पद्मनाभं प्राध्यापकत्वेन भावयेत्”।

विधेय-निश्चय-न्यायाः

  • “वाक्यार्थविधिर् अन्याय्यः श्रुत्यर्थ-विधि-सम्भवे” इति वेदमीमांसान्यायः।
  • श्रुत्यर्थविधिर् विधिनबोधकशब्दापेक्षया समानपदोपात्तः।
    • “अग्निहोत्रं जुहुयात्” इत्यत्र श्रुत्यर्थविधानम्। होमो विधीयते, स च “जुहुयात्” इति विधिबोधकपदेनैव विधीयते।
    • “सोमेन यजेत” इत्यत्र सोमविशिष्टयागो विधीयते, न तु सोमद्रव्यम्।
  • वाक्यार्थविधिर् विधिनबोधकशब्दापेक्षया समानपदोपात्तः।
    • “दध्ना जुहोति” इत्यत्र दधि विधीयते।