वाक्यभेदप्रबन्धः

वन्दनम् प्रतिज्ञा च

मणौ रत्नायमानेऽस्मिन् द्राविडार्याब्धिसम्भवे।
पदवाक्यप्रमाणज्ञे मणिकारोऽस्मि सन्नतः॥
+++(मणिकारः = आभरणकृत्)+++

जम्मलमडक-प्रख्यौ विद्या-धेनु-दुहाव् उभौ।
मीमांसा-ज्ञान-सत्त्रे ऽस्मिन् वत्सीभूतौ नमाम्यथ॥

मेघ-निर्घोष-संसक्त-विद्युद्-विद्योतितारिहा।
रक्षोहा दस्युहा भूयाच् छर्मणे मघवान् महान्॥

गुरुप्रेक्षानुरोधेन पाठचक्रानुवर्तनैः।
लिख्यते प्रश्नपङ्केऽस्मिन् बाललेखा मुदान्विताः॥

परिचयः

विधिवाक्यं हि मूर्धन्यं वेद-मीमांसकैर् मतम्।
तत्र वै स्पष्टता-प्राप्त्यै वाक्य-भेदादिकम् भवेत्॥

“उद्देश्यं च विधेयञ्चैवैकम् एकम् पृथक् पृथक्।
वाक्ये वाक्ये भवेच् चेन् नः प्रीतिर् बोधे भवेत् परा॥”
इति ध्यात्वा हि प्रायेण वाक्यभेदो विचार्यते।

प्रभेदाः

वाक्यभेदे प्रभेदाः स्युर् नाना देशिकसम्मताः।
तेषु केषाञ्चनैवात्र स्वभावः स्तूयते ऽधुना॥

आवृत्तिलक्षणो भेदो पदं यत्राऽनुवर्त्यते
भिन्नवाक्यार्थ-पूर्त्यर्थं लक्ष्यते लौकिकैर् अपि॥
“रामो याति तथा कृष्ण” इत्युदाहरणे यथा।
“याति"शब्दानुवृत्तिः स्यात् तथान्यत्र विचार्यताम्॥

गौरव-च्छेदि-भेदस् तु वर्तते यत्र नैकता
विधेयोद्देश्ययोर् वाप्य् एकतरे दृश्यते पुनः॥
“विश्वासोहं न शास्त्रज्ञ” इति वाक्यं हि गृह्यताम्।
नाम शास्त्राज्ञता चैव विधेयांशगते ह्युभे॥

विध्यावृत्तिप्रकारेण वाक्यभेदान्तरं यतः।
प्राचार्यैर् हि पुरा प्रोक्ता कारिका दर्श्यते ऽनुगा -
“प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः।
अप्राप्ते तु विधीयन्ते बहवो ऽप्येकयत्नतः॥”
“आज्येनाहवनीयेऽच्छ जुहुयाद्” इति दृश्यताम्।
“जुहुयाद्” इति कॢप्तेऽथ भेदेऽनुवर्तितम् भवेत्॥

परिहाराः

“सम्भवत्येकवाक्यत्वे वाक्यभेदस्तु नेष्यते।”
इति बुधाङ्कुशेनास्मद्-युक्ति-द्विपो ऽनुशास्यताम्॥

उपायास् तत्र केचित्तु प्रयुज्यन्ते पुनः पुनः।
तेषु केषाञ्चनैवात्र प्रस्तुतिः क्रियते ऽधुना॥

लक्षणाश्रयणेनापि क्वचिद् भेदोऽस्ति वारितः।
“सोमेन च यजेते"ति तत्रोदाहरणं सुखम्॥
“सोमावच्छिन्न-यागेने–ष्टं भावये"ति गम्यते।

क्वचिद् अर्थान्तरस्यापि ग्रहणम् भेदवारकम्।
“पशुकामोद्भिदा यजे–ते"त्यत्र दृश्यतां कथम्॥
उद्भिद् द्रव्यम् इति त्यक्त्वा यागनामाथ गृह्यते।

लक्षणां च विहायापि क्वचिद् विशिष्टभावनम्
वारयत्येव भेदं यत् तत्रोदाहृतिर् ईदृशी -
“यद् आग्नेयो ऽष्टाकपालो ऽमावास्यायाञ् च पौर्णमास्याञ् चाच्युतो भवति।” → “अग्नि-दैवत्य-पुरोडाश-द्रव्यकामावास्यादि-काल-कर्तव्य-यागेनेष्टं फल्म् भावयेत्।”

बुद्ध्वा वाक्यं न भिद्येत विशिष्टभावनान्तरम्
तत्रोदाहरणं सौम्य दद्मो यथैव पाठितम्॥
“यावज्जीवाग्निहोत्रेण स्वेष्टं भावयते"ति यत्।
प्रोक्तं तत्र विशिष्टं स्यात् नित्यकर्मविधिः पृथक्।
अग्निहोत्रविधिश्चान्यः काम्यकर्मविधायकः

भरतवाक्यम्

वाक्यभेदास्त्रविद् भूयात् प्रहारे निग्रहे क्षमः।
मीमांसा-समरे जेता न्याय-सारथि-सङ्गतः॥