+कृत्

अर्थविभागः

कृत्-प्रत्ययाः धातुभ्यः त्रिषु अर्थेषु भवन्ति —

  • क्रियायाः कारकम् । यथा, पचति इति पाचकः । क्रियते इति कार्यम् । लिख्यते अनया इति लेखनी ।
  • क्रियायाः भावः । यथा, गम्-धातोः भावः गमनम् । दृश्-धातोः भावः दृष्टिः ।
  • द्वयोः क्रिययोः परस्परसम्बन्धः । यथा, पठितुम् गच्छति । गत्वा दृश्यति ।

विधान-विभागः

कृत्-प्रत्ययाः विशिष्टेषु सन्दर्भेषु विधीयन्ते —

  • केचन कृत्-प्रत्ययाः विशिष्टस्य उपपदस्य उपस्थितौ एव भवन्ति । यथा, कुम्भं करोति इति कुम्भकारः ।
  • केचन कृत्-प्रत्ययाः विशिष्टम् कालं दर्शयन्ति । यथा, पङ्के अजायत इति पङ्कजम् ।
  • केचन कृत्-प्रत्ययाः विशिष्टे अर्थे गम्यमाने एव भवन्ति । यथा, तुन्दपरिमृजः = अलसः ।
  • केचन कृत्-प्रत्ययाः विशिष्टपदवाचिभ्यः धातुभ्यः एव भवन्ति । यथा, पठन्, लभमानः ।

प्रकीर्ण-सूत्राणि