०६० अनुनिस् (अनु निर्)

क्रम्

  • {अनुनिष्क्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘निष्क्रम्य पश्चाद्गमनेऽर्थेऽनुनिष्क्रामतेः प्रयोगः’ (मै० सं० १।६।१०)।

दिश्

  • {अनुनिर्दिश्}
  • दिश् (दिश अतिसर्जने)।
  • ‘भूयसामुपदिष्टानामर्थानामसधर्मणाम्। क्रमशो योऽनुनिर्देशो यथासंख्यं तदुच्यते’ (भामह० २।८९)॥

हा

  • {अनुनिर्हा}
  • हा (ओहाङ् गतौ)
  • ‘स्तम्भस्य मध्यादनुनिर्जिहानम्’ (भा० पु० ७।८।१९)। क्रमेण निष्क्रामन्तम् इत्यर्थः।