०४

रषाभ्यां नो णः समानपदे॥ ८.४.१॥

रेफषकाराभ्यामुत्तस्य नकारस्य णकारादेशो भवति, समानपदस्थौ चेद् निमित्तनिमित्तिनौ भवतः। आस्तीर्णम्। विशीर्णम्। अवगूर्णम्। षकारात्-कुष्णाति। पुष्णाति। मुष्णाति। षग्रहणमुत्तरार्थम्, ष्टुत्वेनैव हि सिद्धमेतत्। समानपद इति किम्? अग्निर्नयति। वायुर्नयति॥ ऋवर्णाच्चेति वक्तव्यम्॥ तिसृणाम्। चतसृणाम्। मातृृणाम्। पितृृणाम्। रश्रुतिसामान्यनिर्देशात् सिद्धम्। ऋवर्णभक्त्या च व्यवधानेऽपि णत्वं भवतीति क्षुभ्नादिषु (८.४.३९) नृनमनतृप्नोतिग्रहणं ज्ञापकम्। अथवा ऋवर्णादपि णत्वं भवतीत्येतदेवानेन ज्ञाप्यते॥

अट्कुप्वाङ्नुम्व्यवायेऽपि॥ ८.४.२॥

अट् कु पु आङ् नुम् इत्येतैर्व्यवायेऽपि रेफषकाराभ्यामुत्तरस्य नकारस्य णकार आदेशो भवति। अड्व्यवाये तावत्-करणम्। हरणम्। किरिणा। गिरिणा। कुरुणा। गुरुणा। कवर्गव्यवाये-अर्केण। मूर्खेण। गर्गेण। अर्घेण। पवर्गव्यवाये-दर्पेण। रेफेण। गर्भेण। चर्मणा। वर्मणा। आङ्व्यवाये-पर्याणद्धम्। निराणद्धम्। अड्व्यवाय इति सिद्ध आङ्ग्रहणं ‘पदव्यवाये०’ (८.४.३८) इत्यस्य प्रतिषेधस्य बाधनार्थम्। नुम्व्यवाये-बृंहणम्। बृंहणीयम्। नुम्ग्रहणमनुस्वारोपलक्षणार्थं द्रष्टव्यम्। तेन तृंहणम्, तृंहणीयमित्यत्रानुस्वारव्यवाये नुमभावेऽपि णत्वं भवति। सत्यपि च नुमि यत्रानुस्वारो न श्रूयते तत्र न भवति-प्रेन्वनम्, पे्रन्वनीयमिति। व्यवायोपलक्षणार्थत्वादडादीनामिह व्यस्तैः समस्तैश्च व्यवायेऽपि णत्वं भवति॥

पूर्वपदात् संज्ञायामगः॥ ८.४.३॥

पूर्वपदस्थाद् निमित्तादुत्तरस्य गकारवर्जिताद् नकारस्य णकार आदेशो भवति संज्ञायां विषये। द्रुणसः। वार्ध्रीणसः। खरणसः। शूर्पणखा। संज्ञायामिति किम्? चर्मनासिकः। अग इति किम्? ऋगयनम्। केचिदेतद् नियमार्थं वर्णयन्ति-पूर्वपदात् संज्ञायामेव णत्वं नान्यत्रेति। समासेऽपि हि समानपदे निमित्तनिमित्तिनोर्भावादस्ति पूर्वेण प्राप्तिरिति। स च नियमः पूर्वपदसंबन्धादुत्तरपदस्थस्यैव णत्वं निवर्तयति चर्मनासिक इति, न तद्धितपूर्वपदस्थस्य-खारपायणः, मातृभोगीणः, करणप्रिय इति। अग इति योगविभागेन णत्वप्रतिषेधः, न नियमप्रतिषेध इति। अपरे तु पूर्वसूत्रे समानमेव यद् नित्यं पदं तत् समानपदमित्याश्रयन्ति, समानग्रहणात्। तेषामप्राप्तमेव णत्वमनेन विधीयते। समासे हि पूर्वपदोत्तरपदविभागादसमानपदत्वमप्यस्तीति॥

वनं पुरगामिश्रकासिध्रकाशारिकाकोटराग्रेभ्यः॥ ८.४.४॥

पूर्वपदात् संज्ञायामिति वर्तते। पुरगा मिश्रका सिध्रका शारिका कोटरा अग्र इत्येतेभ्यः पूर्वपदेभ्य उत्तरस्य वननकारस्य णकारादेशो भवति संज्ञायां विषये। पुरगावणम्। मिश्रकावणम्। सिध्रकावणम्। शारिकावणम्। कोटरावणम्। अग्रेवणम्। सिद्धे सत्यारम्भो नियमार्थः-एतेभ्य एव परस्य वननकारस्य णकारादेशो भवति, नान्येभ्य इति। कुबेरवनम्। शतधारवनम्। असिपत्रवनम्॥

प्रनिरन्तः शरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योऽसंज्ञायामपि॥ ८.४.५॥

प्र निर् अन्तर् शर इक्षु प्लक्ष आम्र कार्ष्य खदिर पीयूक्षा इत्येतेभ्य उत्तरस्य वननकारस्य संज्ञायामसंज्ञायामपि णकारादेशो भवति। प्र-प्रवणे यष्टव्यम्। निर्-निर्वणे प्रतिधीयते। अन्तर्-अन्तर्वणे। शर-शरवणम्। इक्षु-इक्षुवणम्। प्लक्ष-प्लक्षवणम्। आम्र-आम्रवणम्। कार्ष्य-कार्ष्यवणम्। खदिर-खदिरवणम्। पीयूक्षा-पीयूक्षावणम्॥

विभाषौषधिवनस्पतिभ्यः॥ ८.४.६॥

वनमित्येव। ओषधिवाचि यत् पूर्वपदं वनस्पतिवाचि च तत्स्थाद् निमित्तादुत्तरस्य वननकारस्य णकार आदेशो भवति विभाषा। ओषधिवाचिभ्यस्तावत्-दूर्वावणम्, दूर्वावनम्। मूर्वावणम्, मूर्वावनम्। वनस्पतिभ्यः- शिरीषवणम्, शिरीषवनम्। बदरीवणम्, बदरीवनम्॥ द्व्यक्षरत्र्यक्षरेभ्य इति वक्तव्यम्॥ इह मा भूत्-देवदारुवनम्। भद्रदारुवनम् ॥ इरिकादिभ्यः प्रतिषेधो वक्तव्यः॥ इरिकावनम्। तिमिरवनम्।

	फली वनस्पतिर्ज्ञेयो वृक्षाः पुष्पफलोपगाः।

	ओषध्यः फलपाकान्ता लता गुल्माश्च वीरुधः॥ इति॥

सत्यपि भेदे वृक्षवनस्पत्योरिहाभेदेन ग्रहणं द्रष्टव्यम्॥

अह्नोऽदन्तात्॥ ८.४.७॥

अदन्तं यत् पूर्वपदं तत्स्थाद् निमित्तादुत्तरस्याह्नो नकारस्य णकार आदेशो भवति। पूर्वाह्णः। अपराह्णः। अदन्तादिति किम्? निरह्नः। दुरह्नः। ‘अह्नोऽह्न एतेभ्यः’ (५.४.८८) इत्यह्नादेशः। अह्न इत्यकारान्तग्रहणाद् दीर्घाह्नी शरदित्यत्र न भवति॥

वाहनमाहितात्॥ ८.४.८॥

आहितवाचि यत् पूर्वपदं तत्स्थाद् निमित्तादुत्तरस्य वाहननकारस्य णकार आदेशो भवति। इक्षुवाहणम्। शरवाहणम्। दर्भवाहणम्। वाहने यद् आरोपितमुह्यते तदाहितमुच्यते। आहितादिति किम्? दाक्षिवाहनम्। दाक्षिस्वामिकं वाहनमित्यर्थः॥

पानं देशे॥ ८.४.९॥

पाननकारस्य पूर्वपदस्थाद् निमित्तादुत्तरस्य देशाभिधाने णकार आदेशो भवति। पीयत इति पानम्। ‘कृत्यल्युटो बहुलम्’ (३.३.११३) इति कर्मणि ल्युट्। क्षीरं पानं येषां ते क्षीरपाणा उशीनराः। मनुष्याभिधानेऽपि देशाभिधानं गम्यते। सुरापाणाः प्राच्याः। सौवीरपाणा बाह्लीकाः। कषायपाणा गान्धाराः। देश इति किम्? दाक्षीणां पानं दाक्षिपानम्॥

वा भावकरणयोः॥ ८.४.१०॥

भावे करणे च यः पानशब्दस्तदीयस्य नकारस्य णकार आदेशो भवति वा पूर्वपदस्थाद् निमित्तादुत्तरस्य। क्षीरपाणं वर्तते, क्षीरपानम्। कषायपाणम्, कषायपानम्। सुरापाणम्, सुरापानम्। करणे-क्षीरपाणः कंसः, क्षीरपानः॥ वाप्रकरणे गिरिनद्यादीनामुपसंख्यानम्॥ गिरिणदी, गिरिनदी। चक्रणदी, चक्रनदी। चक्रणितम्बा, चक्रनितम्बा॥

प्रातिपदिकान्तनुम्विभक्तिषु च॥ ८.४.११॥

वेति वर्तते। प्रातिपदिकान्ते नुमि विभक्तौ च यो नकारस्तस्य पूर्वपदस्थाद् निमित्तादुत्तरस्य वा णकार आदेशो भवति। प्रातिपदिकान्ते तावत्-माषवापिणौ, माषवापिनौ। नुमि-माषवापाणि, माषवापानि। व्रीहिवापाणि, व्रीहिवापानि। विभक्तौ-माषवापेण, माषवापेन। व्रीहिवापेण, व्रीहिवापेन। पूर्वपदाधिकारादुत्तरपदस्य प्रातिपदिकस्थो योऽन्त्यो नकारस्तस्येदं णत्वमिष्यते। इह हि न भवति- गर्गाणां भगिनी गर्गभगिनी। यदा त्वेवं भवति- गर्गाणां भगो गर्गभगः। गर्गभगोऽस्या अस्तीति गर्गभगिणीति। तदा मातृभोगीणवद् नित्यमेव णत्वेन भवितव्यम्। माषवापिणी, माषवापिनीत्यत्र तु ‘गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः ’इति कृदन्तेनैव समासे सति प्रातिपदिकस्योत्तरपदस्यैव सतो नकारो भवति। तथा चात्र नुम्ग्रहणं कृतम्। स हि समुदायभक्तत्वादुत्तरपदस्यान्तो न भवति॥ युवादीनां प्रतिषेधो वक्तव्यः॥ आर्ययूना॥ क्षत्रिययूना। प्रपक्वानि। दीर्घाह्नी शरत्॥

एकाजुत्तरपदे णः॥ ८.४.१२॥

एकाजुत्तरपदं यस्य स एकाजुत्तरपदः, तस्मिन्नेकाजुत्तरपदसमासे प्रातिपदिकान्तनुम्विभक्तिषु पूर्वपदस्थाद् निमित्तादुत्तरस्य नकारस्य णकार आदेशो भवति। वृत्रहणौ, वृत्रहणः। नुमि-क्षीरपाणि। सुरापाणि। विभक्तौ-क्षीरपेण। सुरापेण। ण इति वर्तमाने पुनर्णग्रहणं विकल्पाधिकारनिवृत्तेर्विस्पष्टीकरणार्थम्॥

कुमति च॥ ८.४.१३॥

कवर्गवति चोत्तरपदे प्रातिपदिकान्तनुम्विभक्तिषु पूर्वपदस्थाद् निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति। वस्त्रयुगिणौ, वस्त्रयुगिणः। स्वर्गकामिणौ। वृषगामिणौ। नुमि-वस्त्रयुगाणि। खरयुगाणि। विभक्तौ-वस्त्रयुगेण। खरयुगेण॥

उपसर्गादसमासेऽपि णोपदेशस्य॥ ८.४.१४॥

ण उपदेशे यस्यासौ णोपदेशः। णोपदेशस्य धातोर्यो नकारः तस्य उपसर्गस्थाद् निमित्तादुत्तरस्य णकारादेशो भवत्यसमासेऽपि समासेऽपि। प्रणमति। परिणमति। प्रणायकः। परिणायकः। उपसर्गादिति किम्? प्रगता नायका अस्माद् देशात् प्रनायको देशः। असमासेऽपीति किम् ? पूर्वपदाधिकारात् समास एव स्यादिति तदधिकारनिवृत्तिद्योतनार्थम्। णोपदेशस्येति किम्? प्रनर्दति। प्रनर्दकः॥

हिनुमीना॥ ८.४.१५॥

हिनु मीना इत्येतयोरुपसर्गस्थाद् निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति। प्रहिणोति, प्रहिणुतः। प्रमीणाति, प्रमीणीतः। हिनुमीनाग्रहणे विकृतस्यापि भवति, अजादेशस्य स्थानिवत्त्वात्॥

आनि लोट्॥ ८.४.१६॥

आनीत्येतस्य लोडादेशस्योपसर्गस्थाद् निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति। प्रवपाणि। परिवपाणि। प्रयाणि। परियाणि। लोडिति किम्? प्रवपानि मांसानि॥

नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहति-शाम्यतिचिनोतिदेग्धिषु च॥ ८.४.१७॥

नि इत्येतस्योपसर्गस्थाद् निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति गद नद पत पद घु मा स्यति हन्ति याति वाति द्राति प्साति वपति वहति शाम्यति चिनोति देग्धि इत्येतेषु परतः। गद-प्रणिगदति। परिणिगदति। नद-प्रणिनदति। परिणिनदति। पत-प्रणिपतति। परिणिपतति। पद-प्रणिपद्यते। परिणिपद्यते। घु-प्रणिददाति। परिणिददाति। प्रणिदधाति। परिणिदधाति। माङ्-प्रणिमिमीते। परिणिमिमीते। मेङ्-प्रणिमयते। परिणिमयते। मा इति माङ्मेङोर्ग्रहणमिष्यते। स्यति-प्रणिष्यति। परिणिष्यति। हन्ति-प्रणिहन्ति। परिणिहन्ति। याति-प्रणियाति। परिणियाति। वाति-प्रणिवाति। परिणिवाति। द्राति-प्रणिद्राति। परिणिद्राति। प्साति-प्रणिप्साति। परिणिप्साति। वपति-प्रणिवपति। परिणिवपति। वहति-प्रणिवहति। परिणिवहति। शाम्यति-प्रणिशाम्यति। परिणिशाम्यति। चिनोति-प्रणिचिनोति। परिणिचिनोति। देग्धि-प्रणिदेग्धि। परिणिदेग्धि। अड्व्यवायेऽपि नेर्गदादिषु णत्वमिष्यते। प्रण्यगदत्। परिण्यगदत्॥

शेषे विभाषाकखादावषान्त उपदेशे॥ ८.४.१८॥

नेरिति वर्तते, उपसर्गादिति च। अककारादिरखकारादिरषान्त उपदेशे यो धातुः शेषस्तस्मिन् परत उपसर्गस्थाद् निमित्तादुत्तरस्य नेर्नकारस्य विभाषा णकार आदेशो भवति। प्रणिपचति, प्रनिपचति। प्रणिभिनत्ति, प्रनिभिनत्ति। अकखादाविति किम्? प्रनिकरोति। प्रनिखादति। अषान्त इति किम् ? प्रनिपिनष्टि। उपदेशग्रहणं किम्? इह च प्रतिषेधो यथा स्यात्-प्रनिचकार, प्रनिचखाद, प्रनिपेक्ष्यतीति। इह च मा भूत्-विशेः-प्रणिवेष्टा॥

अनितेः॥ ८.४.१९॥

अनितेर्नकारस्योपसर्गस्थाद् निमित्तादुत्तरस्य णकारादेशो भवति। प्राणिति। पराणिति॥

अन्तः॥ ८.४.२०॥

अनितेरिति वर्तते। उपसर्गस्थाद् निमित्तादुत्तरस्यानितिनकारस्य पदान्ते वर्तमानस्य णकारादेशो भवति। हे प्राण्। हे पराण्। ‘पदान्तस्य’ (८.४.३७) इति प्रतिषेधस्यापवादोऽयम्। अन्तश्च पदापेक्षो गृह्यते। केचित् तु पूर्वसूत्र एवैतदन्तग्रहणं सामीप्यार्थमभिसंबध्नन्ति। निमित्तसमीपभूतस्य एकवर्णव्यवहितस्यानितिनकारस्य पदान्ते वर्तमानस्य णकारादेशो यथा स्यात्। इह मा भूत्-पर्यनितीति। तैर्द्वितीयमपि पदान्तस्य णत्वार्थमन्तग्रहणमाश्रयितव्यमेव। येषां तु पर्यणितीति भवितव्यमिति दर्शनम्, तेषां पूर्वसूत्रे नार्थोऽन्तग्रहणेन॥

उभौ साभ्यासस्य॥ ८.४.२१॥

साभ्यासस्यानितेरुपसर्गस्थाद् निमित्तादुत्तरस्योभयोर्नकारयोर्णकार आदेशो भवति। प्राणिणिषति। प्राणिणत्। पराणिणिषति। पराणिणत्। ‘पूर्वत्रासिद्धीयमद्विर्वचने’ इत्येतस्मिन् सति पूर्वणैव कृतणत्वस्य द्विर्वचने कृते सिद्धमेतदन्तरेणापि वचनम्? एतत् तु नाश्रयितव्यमिति सूत्रमिदमारभ्यते। तेन औजढदिति सिद्धं भवति॥

हन्तेरत्पूर्वस्य॥ ८.४.२२॥

अकारपूर्वस्य हन्तिनकारस्य उपसर्गस्थाद् निमित्तादुत्तरस्य णकार आदेशो भवति। प्रहण्यते। परिहण्यते। प्रहणनम्। परिहणनम्। अत्पूर्वस्येति किम्? प्रघ्नन्ति। परिघ्नन्ति। तपरकरणं किम्? चिणि-प्राघानि। पर्यघानि॥

वमोर्वा॥ ८.४.२३॥

हन्तेरिति वर्तते। वकारमकारयोः परतो हन्तिनकारस्योपसर्गस्थाद् निमित्तादुत्तरस्य वा णकारादेशो भवति। प्रहण्वः, प्रहन्वः। परिहण्वः, परिहन्वः। प्रहण्मः, प्रहन्मः। परिहण्मः, परिहन्मः॥

अन्तरदेशे॥ ८.४.२४॥

अन्तः शब्दादुत्तरस्य हन्तिनकारस्यात्पूर्वस्य णकारादेशो भवति अदेशाभिधाने। अन्तर्हण्यते। अन्तर्हणनं वर्तते। आदेश इति किम ? अन्तर्हननो देशः। अत्पूर्वस्येत्येव-अन्तर्घ्नन्ति । तपरकरणम् इत्येव-अन्तरघानि॥

अयनं च॥ ८.४.२५॥

अन्तरदेश इति वर्तते। अयननकारस्य चान्तःशब्दादुत्तरस्य णकारादेशो भवत्यदेशाभिधाने। अन्तरयणं वर्तते। अन्तरयणं शोभनम्। अदेश इत्येव-अन्तरयनो देशः॥

छन्दस्यृदवग्रहात्॥ ८.४.२६॥

पूर्वपदादिति वर्तते। ऋकारान्तादवग्रहात् पूर्वपदादुत्तरस्य णकारादेशो भवति । छन्दसि विषये। नृ॒मणाः॑ (ऋ० १.१६७.५)। पि॑तृ॒याण॑म् (ऋ० १०.२.७)। अत्र हि नृऽमनाः॑, पिृ॒तृृ॒ऽयान॑म् इति ऋकारोऽवगृह्यते। अवग्रहग्रहणं किमर्थमुच्यते, यावता संहिताधिकार आध्यायपरिसमाप्तेः (८.२.१०८) इत्युक्तम्? विषयोपलक्षणार्थमवग्रहग्रहणम्- अवगृह्यमाणाद् यथा स्यात्, अनवगृह्यमाणाद् मा भूत्। अपदान्ते चावग्रहो नास्ति॥

नश्च धातुस्थोरुषुभ्यः॥ ८.४.२७॥

नस् इत्येतस्य नकारस्य णकारादेशो भवति, धातुस्थाद् निमित्तादुत्तरस्योरुशब्दात् षुशब्दात् च छन्दसि विषये। धातुस्थात् तावत्-अग्ने॒ रक्षा॑ णः॒ (ऋ० ७.१५.१३)। शिक्षा॑ णो अ॒स्मिन् (ऋ० ७.३२.२६)। उरुशब्दात्-उ॒रु ण॑स्कृधि (ऋ० ८.७५.११)। षुशब्दात्-अ॒भी षु णः॒ सखी॑नाम् (ऋ० ४.३१.३)। ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ (ऋ० १.३६.१३)। अस्मदादेशोऽयं नस्शब्दो ‘बहुवचनस्य वस्नसौ’ (८.१.२१) इति॥

उपसर्गाद् बहुलम्॥ ८.४.२८॥

उपसर्गस्थाद् निमित्तादुत्तरस्य नसो नकारस्य णकारादेशो भवति बहुलम्। प्रणः शूद्रः प्रणसः। प्रणो राजा। न च भवति-प्र नो॑ मुञ्चत॒म् (ऋ० ६.७४.४)। बहुलग्रहणाद् भाषायामपि भवति। प्रणसं मुखम्। ‘उपसर्गाच्च’ (५.४.११९) इति नासिकाया नसादेशः॥

कृत्यचः॥ ८.४.२९॥

कृत्स्थो यो नकारोऽच उत्तरस्तस्योपसर्गस्थात् निमित्तादुत्तरस्य णकारादेशो भवति। अन, मान, अनीय, अनि, इनि, निष्ठादेश एते णत्वं प्रयोजयन्ति। अन-प्रयाणम्। परियाणम्। प्रमाणम्। परिमाणम्। मान-प्रयायमाणम्। परियायमाणम्। अनीय-प्रयाणीयम्। परियाणीयम्। अनि-अप्रयाणिः। अपरियाणिः। इनि-प्रयायिणौ। परियायिणौ। निष्ठादेशः-प्रहीणः। परिहीणः। प्रहीणवान्। परिहीणवान्। अच इति किम्? प्रमग्नः। परिभुग्नः। ‘भुजो कौटिल्ये’, अस्य निष्ठाप्रत्ययः। ‘ओदितश्च’ (८.२.४५) इति निष्ठानत्वम्, ‘चोः कुः’ (८.२.३०) इति कुत्वे सिद्धं परिभुग्न इति ॥ कृत्स्थस्य णत्वे निर्विण्णस्योपसंख्यानं कर्तव्यम्॥ निर्विण्णोऽस्मि खलसङ्गेन। निर्विण्णोऽहमत्र वासेन॥

णेर्विभाषा॥ ८.४.३०॥

ण्यन्ताद् यो विहितः कृत्प्रत्ययः तत्स्थस्य नकारस्योपसर्गस्थाद् निमित्तादुत्तरस्य विभाषा णकारादेशो भवति। प्रयापणम्, प्रयापनम्। परियापणम्। परियापनम्। प्रयाप्यमाणम्, प्रयाप्यमानम्। प्रयापणीयम्, प्रयापनीयम्। अप्रयापणिः, अप्रयापनिः। प्रयापिणौ, प्रयापिनौ, विहितविशेषणं किम्? प्रयाप्यमाणमित्यत्र यका व्यवधानेऽपि यथा स्यादिति॥

हलश्चेजुपधात्॥ ८.४.३१॥

कृत्यच इति वर्तते। हलादिर्यो धातुरिजुपधस्तस्मात् परो यः कृत्प्रत्ययः तत्स्थस्य नकारस्याच उत्तरस्योपसर्गस्थाद् निमित्तादुत्तरस्य विभाषा णकारादेशो भवति। प्रकोपणम् प्रकोपनम्। परिकोपणम्, परिकोपनम्। हल इति किम्? प्रेहणम्। प्रोहणम्। इजुपधादिति किम्? प्रवपणम्। परिवपणम्। कृत्यच इति नित्ये प्राप्ते विकल्पः। अच इत्येवपरिभुग्नः। इजुपधस्य सर्वस्य हलन्तत्वादिह हल्ग्रहणमादिविशेषणम्॥

इजादेः सनुमः॥ ८.४.३२॥

हल इति वर्तते। तेनेह सामर्थ्यात् तदन्तविधिः। इजादेः सनुमो हलन्ताद् धातोर्विहितो यः कृत् तत्स्थस्य नकारस्योपसर्गस्थाद् निमित्तादुत्तरस्य णकारो भवति। प्रेङ्खणम्। परेङ्खणम्। प्रेङ्गणम्। परेङ्गणम्। प्रोम्भणम्। परोम्भणम्। सिद्धे सत्यारम्भो नियमार्थः- इजादेरेव सनुमः नान्यस्मादिति। प्रमङ्गनम्। परिमङ्गनम्। हल इत्यधिकाराद् ण्यन्ते नित्यं विध्यर्थमेतद् न भवति॥

वा निंसनिक्षनिन्दाम्॥ ८.४.३३॥

उपसर्गादिति वर्तते। निंस निक्ष निन्द इत्येतेषां नकारस्योपसर्गस्थाद् निमित्तादुत्तरस्य वा णकारादेशो भवति। प्रणिंसनम्, प्रनिंसनम्। प्रणिक्षणम्, प्रनिक्षणम्। प्रणिन्दनम्, प्रनिन्दनम्। णोपदेशत्वादेतेषां नित्ये प्राप्ते विकल्पः॥

न भाभूपूकमिगमिप्यायीवेपाम्॥ ८.४.३४॥

भा भू पू कमि गमि प्यायी वेप इत्येतेषामुपसर्गस्थाद् निमित्तादुत्तरस्य कृत्स्थस्य नकारस्य णकारादेशो न भवति। भा-प्रभानम्। परिभानम्। भू-प्रभवनम्। परिभवनम्। पू-प्रपवनम्। परिपवनम्। पूग्रहणेन पूञ्ग्रहणं द्रष्टव्यम्। पूङो हि भवत्येव णत्वम्-प्रपवणं सोमस्येति। कमि-प्रकमनम्। परिकमनम्। गमि-प्रगमनम्। परिगमनम्। प्यायी-प्रप्यायनम्। परिप्यायनम्। वेप-प्रवेपनम्। परिवेपनम्॥ ण्यन्तानां भादीनामुपसंख्यानं कर्तव्यम्॥ प्रभापनम्। परिभापनम्॥

षात् पदान्तात्॥ ८.४.३५॥

षकारात् पदान्तादुत्तरस्य नकारस्य णकारादेशो न भवति। निष्पानम्। दुष्पानम्। सर्पिष्पानम्। यजुष्पानम्। षादिति किम्? निर्णयः। पदान्तादिति किम्? कुष्णाति। पुष्णाति। पदे अन्तः पदान्त इति सप्तमीसमासोऽयम्, तेनेह न भवति-सुसर्पिष्केण। सुयजुष्केण। ‘शेषाद् विभाषा’ (५.४.१५४) इति कप्॥

नशेः षान्तस्य॥ ८.४.३६॥

नेति वर्तते। नशेः षकारान्तस्य णकारादेशो न भवति। प्रनष्टः। परिनष्टः। षान्तस्येति किम्? प्रणश्यति। परिणश्यति। अन्तग्रहणं षान्तभूतपूर्वमात्रस्यापि यथा स्यात्-प्रनङ्क्ष्यति। परिनङ्क्ष्यति॥

पदान्तस्य॥ ८.४.३७॥

पदान्तो यो नकारस्तस्य णकारादेशो न भवति। वृक्षान्। प्लक्षान्। अरीन्। गिरीन्॥

पदव्यवायेऽपि॥ ८.४.३८॥

पदेन व्यवायः पदव्यवायः पदव्यवधानम्। पदेन व्यवायेऽपि सति निमित्तनिमित्तिनोर्नकारस्य णकारादेशो न भवति। माषकुम्भवापेन। चतुरङ्गयोगेन। प्रावनद्धम्। पर्यवनद्धम्। प्र गां नयामः। परि गां नयामः॥ पदव्यवायेऽतद्धित इति वक्तव्यम्॥ इह मा भूत्-आर्द्रगोमयेण। शुष्कगोमयेण। ‘गोश्च पुरीषे’ (४.३.१४५) इति मयट्। स्वादौ पूर्वं पदमिति गोशब्दः पूर्वपदम्, तेन व्यवायः॥

क्षुभ्नादिषु च॥ ८.४.३९॥

नेति वर्तते। क्षुभ्ना इत्येवमादिषु शब्देषु नकारस्य णकारादेशो न भवति। क्षुभ्नाति। अजादेशस्य स्थानिवद्भावादिहापि प्रतिषेधो भवति-क्षुभ्नीतः, क्षुभ्नन्ति। नृनमनः। ‘पूर्वपदात् संज्ञायाम्०’(८.४.३) इति प्राप्तिः। ‘छन्दस्यृदवग्रहात्’ (८.४.२६) इति च प्राप्नोति। नन्दिन्, नन्दन, नगर एतान्युत्तरपदानि संज्ञायां प्रयोजयन्ति। हरिनन्दी। हरिनन्दनः। गिरिनगरम्। नृतिर्यङि प्रयोजयति। नरीनृत्यते। तृप्नु-तृप्नोति। नर्तन, गहन, नन्दन, निवेश, निवास, अग्नि, अनूप एतान्युत्तरपदानि प्रयोजयन्ति। परिनर्तनम् परिगहनमिति संज्ञायां ‘पूर्वपदात् संज्ञायाम्०’ (८.४.३) इति प्राप्नोति। परिनन्दनमित्यत्र ‘उपसर्गादसमासेऽपि०’ (८.४.१४) इति प्राप्नोति। शरनिवेशः, शरनिवासः शराग्निः, दर्भानूप इत्येताः संज्ञाः। आचार्यादणत्वं च (ग०सू० १८५)। आचार्यभोगीनः। आचार्यानी। इरिकादिभ्यो वनोत्तरपदेभ्यः संज्ञायाम् (ग० सू० १८३)। इरिका, तिमिर, समीर, कुबेर, हरि, कर्मार इत्युत्तरपदवनशब्दस्थस्य संज्ञायाम्। क्षुभ्नादिराकृतिगणः। अविहितलक्षणो णत्वप्रतिषेधः क्षुभ्नादिषु द्रष्टव्यः॥

स्तोः श्चुना श्चुः॥ ८.४.४०॥

सकारतवर्गयोः शकारचवर्गाभ्यां सन्निपाते शकारचवर्गावादेशौ भवतः। स्तोःश्चुनेति यथासंख्यमत्र नेष्यते। सकारस्य शकारेण चवर्गेण द्वाभ्यामपि संनिपाते शकारो भवति। तवर्गस्यापि च शकारेण चवर्गेण च संनिपाते चवर्गो भवति। आदेशे तु यथासंख्यमिष्यते। सकारस्य शकारः, तवर्गस्य च चवर्ग इति। सकारस्य शकारेण संनिपाते-वृक्षश्शेते। प्लक्षश्शेते तस्यैव चवर्गेण-वृक्षश्चिनोति। प्लक्षश्चिनोति। वृक्षश् छादयति। प्लक्षश्छादयति। तवर्गस्य शकारेण-अग्निचिच्छेते। सोमसुच्छेते। तस्यैव चवर्गेण-अग्निचिच्चिनोति। सोमसुच्चिनोति। अग्निचिच्छादयति। सोमसुच्छादयति। अग्निचिज्जयति। सोमसुज्जयति। अग्निचिज्झकारः। सोमसुज्झकारः। अग्निचिञ्ञकारः। सोमसुञ्ञकारः। मस्जेः-मज्जति। भ्रस्जेः-भृज्जति। व्रस्चेः-वृश्चति। यजेः- यज्ञः। याचेः- याच्ञा। ‘शात्’ (८.४.४४) इति प्रतिषेधो ज्ञापकः संख्यातानुदेशाभावस्य। स्तोः श्चाविति सप्तमीनिर्देशो न कृतः, पूर्वेण परेण च श्चुना संनिपाते श्चुत्वं यथा स्यादिति॥

ष्टुना ष्टुः॥ ८.४.४१॥

स्तोरिति वर्तते। सकारतवर्गयोः षकारटवर्गाभ्यां संनिपाते षकारटवर्गावादेशौ भवतः। अत्रापि तथैव संख्यातानुदेशाभावः। षकारेण सकारस्य-वृक्षष्षण्डे। प्लक्षष्षण्डे। तस्यैव टवर्गेण-वृक्षष्टीकते। प्लक्षष्टीकते। वृक्षष्ठकारः। प्लक्षष्ठकारः। तवर्गस्य षकारेण-पेष्टा। पेष्टुम्। पेष्टव्यम्। कृषीष्ट। कृषीष्ठाः। तस्यैव टवर्गेण-अग्निचिट्टीकते। सोमसुट्टीकते। अग्निचिट्ठकारः। सोमसुट्ठकारः। अग्निचिड्डीनः। सोमसुड्डीनः। अग्निचिड् ढौकते। सोमसुड् ढौकते। अग्निचिण्णकारः। सोमसुण्णकारः। अत्ट-अट्टति। अद्ड-अड्डति॥

न पदान्ताट् टोरनाम्॥ ८.४.४२॥

पदान्ताट् टवर्गादुत्तरस्य स्तोः ष्टुत्वं न भवति नामित्येतद् वर्जयित्वा। श्वलिट् साये। मधुलिट् तरति। पदान्तादिति किम्? ‘ईड स्तुतौ’-ईट्टे। टोरिति किम्? सर्पिष्टमम्। अनामिति किम्? षण्णाम्। अत्यल्पमिदमुच्यते॥ अनाम्नवतिनगरीणामिति वक्तव्यम्॥ षण्णाम्। षण्णवतिः। षण्णगरी॥

तोः षि॥ ८.४.४३॥

नेति वर्तते। तवर्गस्य षकारे यदुक्तं तद् न भवति। अग्निचित् षण्डे। भवान् षण्डे। महान् षण्डे॥

शात्॥ ८.४.४४॥

तोरिति वर्तते। शकारादुत्तरस्य तवर्गस्य यदुक्तं तद् न भवति। प्रश्नः। विश्नः॥

यरोऽनुनासिकेऽनुनासिको वा॥ ८.४.४५॥

पदान्तग्रहणमनुवर्तते। यरः पदान्तस्यानुनासिके परतो वानुनासिक आदेशो भवति। वाङ् नयति, वाग् नयति। श्वलिण् नयति। श्वलिड् नयति। अग्निचिन् नयति, अग्निचिद् नयति। त्रिष्टुम् नयति, त्रिष्टुब् नयति। पदान्तस्येत्येव-वेद्मि। क्षुभ्नाति॥ यरोऽनुनासिके प्रत्यये भाषायां नित्यवचनं कर्तव्यम्॥ वाङ्मयम्। त्वङ्मयम्। व्यवस्थितविभाषाविज्ञानात् सिद्धम्॥

अचो रहाभ्यां द्वे॥ ८.४.४६॥

यर इति वर्तते। अच उत्तरौ यौ रेफहकारौ ताभ्यामुत्तरस्य यरो द्वे भवतः। अर्क्कः। मर्क्कः। ब्रह्म्मा। अपह्न्नुते। अच इति किम्? किन् ह्नुते। किम् ह्मलयति॥

अनचि च॥ ८.४.४७॥

अच इति वर्तते, यर इति च । अनच्परस्य अच उत्तरस्य यरो द्वे भवतः। दद्ध्यत्र। मद्ध्वत्र। अच इत्येव-स्मितम्। ध्मातम्॥ यणो मयो द्वे भवत इति वक्तव्यम्॥ केचिदत्र यण इति पञ्चमी मय इति षष्ठीति व्याचक्षते। तेषामुल्क्का, वल्म्मीक इत्युदाहरणम्। अपरे तु यण इति षष्ठी मय इति पञ्चमीति। तेषां दध्य्यत्र, मध्व्वत्रेत्युदाहरणम्॥ शरः खयो द्वे भवत इति वक्तव्यम्॥ अत्रापि यदि शर इति पञ्चमी खय इति षष्ठी, तदा स्त्थाली स्त्थातेत्युदाहरणम्। अथवा खय उत्तरस्य शरो द्वे भवतः। वत्स्सः। इक्ष्षुः। क्ष्षीरम्। अप्स्सराः॥ अवसाने च यरो द्वे भवत इति वक्तव्यम्॥ वाक्क्, वाक्। त्वक्क्, त्वक्। षट्ट्, षट्। तत्त्, तत्॥

नादिन्याक्रोशे पुत्रस्य॥ ८.४.४८॥

आदिनी परत आक्रोशे गम्यमाने पुत्रशब्दस्य न द्वे भवतः। ‘अनचि च’ (८.४.४७) इति प्राप्तिः प्रतिषिध्यते। पुत्रादिनी त्वमसि पापे। आक्रोश इति किम्? तत्त्वक थने द्विर्वचनं भवत्येव। पुत्रानत्तीति पुत्त्रादिनी शिशुमारी व्याघ्री॥ तत्परे चेति वक्तव्यम् ॥ पुत्रपुत्रादिनी त्वमसि पापे॥ वा हतजग्धपर इति वक्तव्यम्॥ पुत्त्रहती, पुत्रहती। पुत्त्रजग्धी, पुत्रजग्धी॥ चयो द्वितीयाः शरि पौष्करसादेः॥ चयो द्वितीया भवन्ति शरि परतः पौष्करसादेराचार्यस्य मतेन। तकारस्य थकारः-वथ्सः। ककारस्य खकारः-ख्षीरम्। पकारस्य फकारः-अफ्सराः॥

शरोऽचि॥ ८.४.४९॥

नेति वर्तते। शरोऽचि परतो न द्वे भवतः। ‘अचो रहाभ्याम्०’ (८.४.४६) इति प्राप्तिः प्रतिषिध्यते। कर्षति। वर्षति। आदर्शः। अक्षदर्शः। अचीति किम्? दर्श्श्यते॥

त्रिप्रभृतिषु शाकटायनस्य॥ ८.४.५०॥

त्रिप्रभृतिषु वर्णेषु संयुक्तेषु शाकटायनस्याचार्यस्य मतेन द्वित्वं न भवति। इन्द्रः। चन्द्रः। मन्द्रः। राष्ट्रम्। भ्राष्ट्रम्॥

सर्वत्र शाकल्यस्य॥ ८.४.५१॥

शाकल्यस्याचार्यस्य मतेन सर्वत्र द्विर्वचनं न भवति। अर्कः। मर्कः। बह्मा। अपह्नुते॥

दीर्घादाचार्याणाम्॥ ८.४.५२॥

दीर्घादुत्तरस्याचार्याणां मतेन न द्वित्वं भवति। दात्रम्। पात्रम्। मूत्रम्। सूत्रम्॥

झलां जश् झशि॥ ८.४.५३॥

झलां स्थाने जशादेशो भवति झशि परतः। लब्धा। लब्धुम्। लब्धव्यम्। दोग्धा। दोग्धुम्। दोग्धव्यम्। बोद्धा। बोद्धुम्। बोद्धव्यम्। झशीति किम्? दत्तः। दत्थः। दध्मः॥

अभ्यासे चर्च॥ ८.४.५४॥

अभ्यासे वर्तमानानां झलां चरादेशो भवति, चकाराद् जश् च। चिखनिषति। चिच्छित्सति। टिठकारयिषति। तिष्ठासति। पिफकारयिषति। बुभूषति। जिघत्सति। डुढौकिषते। प्रकृतिचरां प्रकृतिचरो भवन्ति-चिचीषति। टिटीकिषते। तितनिषति। प्रकृतिजशां प्रकृतिजशो भवन्ति-जिजनिषते। बुबुधे। ददौ। डिड्ये॥

खरि च॥ ८.४.५५॥

खरि च परतो झलां चरादेशो भवति। जश्ग्रहणं नानुवर्तते पूर्वसूत्रे चानुकृष्टत्वात्। भेत्ता। भेत्तुम्। भेत्तव्यम्। युयुत्सते। आरिप्सते। आलिप्सते॥

वावसाने॥ ८.४.५६॥

झलां चरिति वर्तते। अवसाने वर्तमानानां झलां वा चरादेशो भवति। वाक् ,वाग्। त्वक्, त्वग्। श्वलिट्, श्वलिड्। त्रिष्टुप्, त्रिष्टुब्॥

अणोऽप्रगृह्यस्यानुनासिकः॥ ८.४.५७॥

अणोऽप्रगृह्यसंज्ञस्यावसाने वर्तमानस्य वानुनासिकादेशो भवति। दधिँ, दधि। मधुँ, मधु। कुमारीँ, कुमारी। अण इति किम्? कर्तृ। हर्तृ। अप्रगृह्यस्येति किम्? अग्नी। वायू॥

अनुस्वारस्य ययि परसवर्णः॥ ८.४.५८॥

अनुस्वारस्य ययि परतः परसवर्ण आदेशो भवति। शङ्किता। शङ्कितुम्। शङ्कितव्यम्। उञ्छिता। उञ्छितुम्। उञ्छितव्यम्। कुण्डिता। कुण्डितुम्। कुण्डितव्यम्। नन्दिता। नन्दितुम्। नन्दितव्यम्। कम्पिता। कम्पितुम्। कम्पितव्यम्। इह कुर्वन्ति, कृषन्ति इत्यत्र णत्वस्यासिद्धत्वात् पूर्वं नकारस्यानुस्वारः क्रियते। तस्यापि परसवर्णेन पुनर्नकार एव भवति। तस्याप्यसिद्धत्वात् पुनर्णत्वं न भवति। एवमनुस्वारीभूतो णत्वमतिक्रामतीति। ययीति किम्? आक्रंस्यते। आचिक्रंसते॥

वा पदान्तस्य॥ ८.४.५९॥

पदान्तस्यानुस्वारस्य ययि परतो वा परसवर्णादेशो भवति। तङ् कथञ् चित्रपक्षण् डयमानन् नभःस्थम् पुरुषोऽवधीत्, तं कथं चित्रपक्षं डयमानं नभःस्थं पुरुषोऽवधीत्॥

तोर्लि॥ ८.४.६०॥

तवर्गस्य लकारे परतः परसवर्णादिशो भवति। अग्निचिल्लुनाति। सोमसुल्लुनाति। भवाँल्लुनाति। महाँल्लुनाति॥

उदः स्थास्तम्भोः पूर्वस्य॥ ८.४.६१॥

सवर्ण इति वर्तते। उद उत्तरयोः स्था स्तम्भ इत्येतयोः पूर्वसवर्णादेशो भवति। उत्त्थाता। उत्त्थातुम्। उत्त्थातव्यम्। स्तम्भेः खल्वपि-उत्तम्भिता। उत्तम्भितुम्। उत्तम्भितव्यम्। स्थास्तम्भोरिति किम्? उत्स्नाता॥ उदः पूर्वसवर्णत्वे स्कन्देश्छन्दस्युपसंख्यानम्॥ अग्ने दूरमुत्कन्द॥ रोगे चेति वक्तव्यम्॥ उत्कन्दको नाम रोगः। कन्दतेर्वा धात्वन्तरस्यैतद् रूपम्॥

झयो होऽन्यतरस्याम्॥ ८.४.६२॥

झय उत्तरस्य हकारस्य पूर्वसवर्णादेशो भवत्यन्यतरस्याम्। वाग्घसति, वाग् हसति। श्वलिड् ढसति, श्वलिड् हसति। अग्निचिद्धसति, अग्निचिद् हसति। सोमसुद्धसति, सोमसुद् हसति। त्रिष्टुब्भसति, त्रिष्टुब् हसति। झय इति किम्? प्राङ् हसति। भवान् हसति॥

शश्छोऽटि॥ ८.४.६३॥

झय इति वर्तते, अन्यतरस्यामिति च। झय उत्तरस्य शकारस्याटि परतश्छकारादेशो भवत्यन्यतरस्याम्। वाक्छेते, वाक् शेते। अग्निचिच्छेते, अग्निचित् शेते। सोमसुच्छेते, सोमसुत् शेते। श्वलिट् छेते, श्वलिट् शेते। त्रिष्टुप् छेते, त्रिष्टुप् शेते॥ छत्वममीति वक्तव्यम्॥ किं प्रयोजनम्? तत्छ्लोकेन, तच्छ्मश्रुणेत्येवमर्थम्॥

हलो यमां यमि लोपः॥ ८.४.६४॥

अन्यतरस्यामिति वर्तते। हल उत्तरेषां यमां यमि परतो लोपो भवत्यन्यतरस्याम्। शय्या इत्यत्र द्वौ यकारौ, क्रमजस्तृतीयः, तत्र मध्यमस्य वा लोपो भवति। शय्या, शय्य्या। अदितेरपत्यमादित्य इत्यत्र तकारात् पर एको यकारः,‘यणो मयः०’ (८.४.४७ वा०) इति क्रमजो द्वितीयः, तत्र मध्यमस्य वा लोपो भवति-आदित्यः, आदित्य्यः। आदित्यो देवता अस्य स्थालीपाकस्येति आदित्य्यः, आदित्यः, आदित्य्य्य इति। अत्रापि द्वौ यकारौ, क्रमजस्तृतीयः, तत्र मध्यमस्य मध्यमयोर्वा लोपो भवति। हल इति किम्? अन्नम्। यमामिति किम्? अर्घ्यम्। यमीति किम्? शार्ङ्गम्॥

झरो झरि सवर्णे॥ ८.४.६५॥

हल इति वर्तते, अन्यतरस्यामिति च। हल उत्तरस्य झरो झरि सवर्णे परतो लोपो भवत्यन्यतरस्याम्। प्रत्तम् अवत्तमित्यत्र त्रयस्तकाराः, क्रमजश्चतुर्थः। तत्र मध्यमस्य मध्यमयोर्वा लोपो भवति। मरुत्त्त्त इत्यत्र चत्वारस्तकाराः, क्रमजः पञ्चमः। तत्र मध्यमस्य मध्यमयोर्मध्यमानां वा लोपो भवति। मरुच्छब्दस्य ह्युपसंख्यानसामर्थ्यात् (१.४.५९ वा०) ‘अच उपसर्गात् तः’ (७.४.४७) इति तत्वं भवति। झर इति किम्? शार्ङ्गम्। झरीति किम्? प्रियपञ्च्ञा। अल्लोपस्य च ‘पूर्वत्रासिद्धे न स्थानिवत्’ (महाभाष्य १.१५४) इति स्थानिवद्भावप्रतिषेधादत्र चकारस्य ञकारे लोपः स्यात्। सवर्ण इति किम् ? तर्प्ता । तर्प्तुम्। तर्प्तव्यम्। सवर्णग्रहणसामर्थ्यादिह संख्यातानुदेशो न भवति, सवर्णमात्रे लोपो विज्ञायते। तेन शिण्ढि पिण्ढि इति ढकारे डकारस्य लोपो भवति॥

उदात्तादनुदात्तस्य स्वरितः॥ ८.४.६६॥

उदात्तादुत्तरस्यानुदात्तस्य स्वरितादेशो भवति। गार्ग्यः॑। वात्स्यः॑। पच॑ति पठ॑ति। अस्य स्वरितस्यासिद्धत्वाद् ‘अनुदात्तं पदमेकवर्जम्’ (६.१.१५८) इत्येतद् न प्रवर्तते। तेनोदात्तस्वरितावुभावपि श्रूयेते॥

नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम्॥ ८.४.६७॥

उदात्तोदयस्य स्वरितोदयस्य चानुदात्तस्य स्वरितो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते, अगार्ग्यकाश्यपगालवानां मतेन। उदात्त उदयो यस्मात् स उदात्तोदयः। उदात्तपर इत्यर्थः। एवं स्वरितोदयः। उदात्तोदयस्तावत्-गार्ग्य॒स्तत्र॑। वात्स्य॒स्तत्र॑। तत्रशब्द आद्युदात्तः। तस्मिन्नुदात्ते परतो गार्ग्यशब्दः स्वरितो न भवति। स्वरितोदयः- गार्ग्यः॒ क्व॑। वात्स्यः॒ क्व॑। क्वशब्दः स्वरितः। तस्मिन् परतोऽनुदात्तः स्वरितो न भवति। अगार्ग्यकाश्यपगालवानामिति किम्? गार्ग्य॑स्तत्र॑। गार्ग्यः॑ क्व॑। तेषां हि मतेन स्वरितो भवत्येव। उदात्तस्वरितपरस्येति वक्तव्य उदयग्रहणं मङ्गलार्थम्। अनेकाचार्यसंकीर्तनं पूजार्थम्॥

अ अ॥ ८.४.६८॥

एकोऽत्र विवृतः, अपरः संवृतः। तत्र विवृतस्य संवृतः क्रियते। अकारो विवृतः संवृतो भवति। वृक्षः। प्लक्षः। इह शास्त्रे कार्यार्थमकारो विवृतः प्रतिज्ञातः (अइउण्), तस्य तथाभूतस्यैव प्रयोगो मा भूदिति संवृतप्रत्यापत्तिरियं क्रियते। दीर्घप्लुतयोश्चानेन विवृतेनाकारेण ग्रहणं नेष्यते। तेन तयोः संवृतो न भवति। संवृतेन च सर्वगुणस्य मात्रिकस्य ग्रहणमिष्यते। तेन सर्वगुणः प्रत्यापद्यते॥

	इष्ट्युपसंख्यानवती शुद्धगणा विवृतगूढसूत्रार्था।

	व्युत्पन्नरूपसिद्धिर्वृत्तिरियं काशिका नाम॥

॥ इति श्रीवामनकृतकाशिकावृत्तावष्टमाध्यायस्य तुरीयः पादः समाप्तश्चायमध्यायो ग्रन्थश्च॥