२२४ उपप्र (उप+प्र)

अय्

  • {उपप्राय्}
  • अय् (अय गतौ)।
  • ‘एताभिर्देवताभिः सयुग्भूत्वा मरुद्भिर्विशाऽग्निना ऽनीकेनोपप्लायत’ (मैत्रा० सं०)। उपप्लायत=उपैत्।

  • {उपप्रे}
  • इ (इण् गतौ)।
  • ‘उप प्रागात्सुमन्मे ऽधायि मन्म’ (ऋ० १।१६२।७)।
  • ‘इति मन्त्रं निर्ब्रुवाणो यास्क आह’ (नि० ६।२२।३) –उपप्रैतु मां स्वयं यन्मे मनोऽध्यायि यज्ञेनेति। उपप्रैतु प्राप्नोतु।
  • ‘देवाँ उपप्रैत् सप्तभिः’ (ऋ० १०।७२।८)। उपप्रैत् उपागात्।
  • ‘उप प्रागाच्छसनं वाज्यर्वा’ (ऋ० १।१६३।१२)। शसनं विशसनस्थानमुपैतीत्याह।
  • ‘उप देवान् दैवीर्विशः प्रागुः’ (वा० सं० ६।७)। उक्तोऽर्थः।
  • ‘देवा वा असुरैर्युद्धमुपप्रायन् विजयाय’ (ऐ० ब्रा० ३।३९)। उपप्रायन् प्रारभन्त।
  • ‘उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये’ (ऋ० १।७४।१)। उपप्रयन्तः प्रारभमाणाः।
  • ‘उदीराणा यज्ञमुपप्रयन्तः’ (ऋ० ४।३९।५)। उक्तोऽर्थः।

इष्

  • {उपप्रेष्}
  • इष् (इष गतौ)।
  • ‘यदध्वर्युर्होतारमुप प्रेष्यति’ (ऐ० ब्रा० ६।५)। उपप्रेष्यति=उपहीत्याह्वयति।
  • ‘उपप्रैषो निमन्त्रणं भवति तथा चैतरेयके’ (२।५) प्रयोगः–तद्यन्मत्रावरुण उपप्रैषे प्रतिपद्यते।

ईक्ष्

  • {उपप्रेक्ष्}
  • ईक्ष् (ईक्ष दर्शने)।
  • ‘किमर्थं मां प्राकृतवद् उपप्रेक्षसि संसदि’ (भा० आदि० ७४।३५)। उपप्रेक्षसि उपेक्षसे। अनर्थकः प्रशब्दः।
  • ‘उपप्रैक्षन्त पञ्चालाः स्मयमानाः सराजकाः’ (भा० द्रोण० १७७।५)। उक्तोऽर्थः।
  • ‘उपप्रेक्षसि कस्मात्त्वं धर्मज्ञः सन्नराधिप’ (भा० शल्य० ६०।२४)।
  • ‘यदनार्यैः पुरा कृष्णां क्लिश्यमानामनागसम्। उप प्रेक्षसि राधेय क्व ते धर्मस्तदा गतः’ (भा० कर्ण० ९१।८)।

तॄ

  • {उपप्रतॄ}
  • तॄ (तॄ प्लवनतरणयोः)।
  • ‘(नावमारोह) तयोपप्रतारय यो वरः प्रतिकाम्यः’ (अथर्व० २।३६।५)। उप प्रतारय समीपे प्रापय। आत्मानमिति शेषः।

दा

  • {उपप्रदा}
  • दा (डुदाञ् दाने)।
  • ‘भेदेनोपप्रदानेन संसृजेदौषधैस्तथा’ (भा० शां० १०३।१७)। उपप्रदानेन उत्कोचेन।
  • ‘उपप्रदानं लिप्सूनामेकं ह्याकर्षणौषधम्’ (कथा० २४।११९)। उक्तोऽर्थः।
  • ‘उपप्रदानैर्मार्जारो हितकृत् प्रार्थ्यतेऽन्यतः’ (तन्त्रा० १।१।४६)।

या

  • {उपप्रया}
  • या (या प्रापणे, प्रापणमिह गतिः)।
  • ‘आदित्यं चरुं संग्राममुपप्रयास्यन्’ (सत्या० श्रौ० २२।२।२४)। उपप्रयास्यन् जिगमिषुः।

युज्

  • {उपप्रयुज्}
  • युज् (युजिर् योगे)।
  • ‘कुमारीशब्दः पुंसाऽसम्प्रयोगमात्रमुपप्रयुक्तो वृद्धादिभिर्वयोविशेषवचनैः समानाधिकरणो भवति’ (कुमार्यां वयसि ६।२।९५ सूत्र वृत्तौ)। उपप्रयुक्त उपादाय प्रयुक्तः।
  • ‘कुमारीशब्दः पुंसा सहासम्प्रयोगमात्रमुपप्रयुक्तो वृद्धादिभिर्वयोविशेषवचनैः समानाधिकरणो भवति’ (काशिका ६।२।९५)। उपादाय प्रयुक्त उपप्रयुक्तः।

लुभ्

  • {उपप्रलुभ्}
  • लुभ् (लुभ गार्ध्ये)।
  • ‘उच्चावचान्युपप्रलोभनानि’ (दशकु०)। उपप्रलोभनानि=गार्ध्योत्पादपुरःसरं स्वं प्रत्याकर्षणानि, विमार्गप्रस्थापनानि।

वद्

  • {उपप्रवद्}
  • वद् (वद व्यक्तायां वाचि)।
  • ‘उप प्र वद मण्डूकि’ (अथर्व० ४।१५।१४)। इतरैः संभूय प्रब्रूहीत्याह।

हि

  • {उपप्रहि}
  • हि (हि गतौ वृद्धौ च)।
  • ‘अथेमेनं प्र हिणुतात् पितॄँ रुप’ (अथर्व० १८।२।४)। उप प्रहिणुतात् समीपे प्रेषयेत्याह।
  • ‘तद्ध स्म श्रोत्रियायोप प्रहित्य’ (जै० ब्रा० २।५५)। उक्तोऽर्थः।