१७९ अभिसमाङ् (अभि+सम्+आ)

  • {अभिसमे}
  • इ (इण् गतौ)।
  • ‘तत्र ह कुरुपञ्चालानां ब्राह्मणा अभिसमेताः’ (श० ब्रा० १४।६।१।१)। अभिसमेताः=अभितः समागताः।

धा

  • {अभिसमाधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘तानि प्रयत्नाभिसमाहितानि…गृहाणि’ (रा० ५।७।४)। प्रयत्नेनाभितः सम्यग् आहितानि यथायोगं संस्थापितानि।

पद्

  • {अभिसमापद्}
  • पद् (पद गतौ)।
  • ‘(कः कृष्णसर्पं) ‘तुदत्यभिसमापन्नमङ्गुल्यग्रेण लीलया’ (रा० ३।१९।३)। अभिसमापन्नमभिमुखमुपेतम्।