०४२ समुपाङ् (सम्+उप+आङ्)

गम्

  • {समुपागम्}
  • गम् (गम्लृ गतौ)।
  • ‘निदाघकालः समुपागतः प्रिये’ (ऋतु० १।१)।
  • ‘स ब्रह्मशापो नियतमद्य मां समुपागतः’ (रा० २।५३)। समुपागतः=आगतः प्राप्तः।

घ्रा

  • {समुपाघ्रा}
  • घ्रा (घ्रा गन्धोपादाने)।
  • ‘तं मूर्ध्नि समुपाघ्राय’ (रा० २।७२।४)। समुपाघ्राय=कुसित्वा (कोसित्वा)=चुम्बित्वा।
  • ‘समुपाघ्राय मूर्धानम्’ (भा० वि० ७१।३०)। उक्तोऽर्थः।

चर्

  • {समुपाचर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘तथाप्यप्रियमस्माकं पुत्रस्ते समुपाचरत्’ (भा० स्त्री० १५।८)। समुपाचरत्=आचरत्=अकरोत्।

दा

  • {समुपादा}
  • दा (डुदाञ् दाने)।
  • ‘ज्वलनं समुपादाय ब्राह्मणेन महात्मना। हावयामास’ (कौसल्या) (रा० २।२५।२५)। समुपादाय=समर्प्य।
  • ‘यः पित्रा समुपात्तानि धनवीर्ययशांसि वै। न्यूनतां नयति’ (मार्क० पू० २१।९५)।
  • ‘तेजांसि समुपादत्ते’ (भा० वन० १६३।३६)। समुपादत्ते=हरति=आच्छिनत्ति।
  • ‘इत्युक्ताः समुपाजह्रुर्धनशेषमशेषतः। रामाज्ञया धनाध्यक्षाः समुपादाय सर्वशः’ (रा० गोरेसिओ० सं० २।३२।३५)। समुपादाय=समाहृत्य।
  • ‘मालां च समुपादाय’ (भा० आदि० १८५ आदि० ३०)। समुपादाय=भृत्वा, धृत्वा।

दिश्

  • {समुपादिश्}
  • दिश् (दिश अतिसर्जने)।
  • ‘अन्तः कोपं समुपादिशन्ति’ (का० नी० सा० १६।२०)। समुपादिशन्ति=उपदिशन्ति।

धा

  • {समुपाधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘एतानि काले समुपाहितानि कुर्वन्त्यवश्यं खलु सिद्धिविघ्नम्’ (का० नी० सा० १६।२७)। समुपाहितानि=विहितानि।

नी

  • {समुपानी}
  • नी (णीञ् प्रापणे)।
  • ‘सप्त विप्रांस्ततो भोज्ये युगपत् समुपानयत्’ (भा० अनु० ९१।१३)। समानयदित्यर्थः।
  • ‘श्रोत्रियांश्च विदेशस्यान्सत्कृत्य समुपानय’ (रा० गोरेसिओ सं० १।११।७)। उक्तोऽर्थः।
  • ‘धारयामास च प्राणानृषींश्च समुपानयत्’ (भा० आदि० १०७।१५)। ऋषीन् वेदान्स्वाधीनांश्चकार, न विस्मृतवानित्यर्थः।

युज्

  • {समुपायुज्}
  • युज् (युजिर् योगे)।
  • ‘ऋषिभिः समुपायुक्तं तीरम्’ (भा० ३।१००९९)। आकीर्णमित्यर्थः।

रभ्

  • {समुपारभ्}
  • रभ् (रभ राभस्ये)।
  • ‘विग्रहः समुपारब्धो नहि शाम्यत्यविग्रहात्’ (भा.उ० ८८।६)।

विश्

  • {समुपाविश्}
  • विश् (विश प्रवेशने)।
  • ‘स भुक्तवान्…तदन्नममृतोपमम्। प्रीतश्च परितुष्टश्च तां रात्रि समुपाविशत्’। तां रात्रिं सुष्वाप, स्वपन्नगमयदित्यर्थः।

वृत्

  • {समुपावृत्}
  • वृत् (वृतु वर्तने)।
  • ‘समुपावर्त्यमानेषु…विचित्रेषु यानविशेषेषु’ (अवदा० जा० २)। समुपावर्त्यमानेषु=उपनीयमानेषु।

हृ

  • {समुपाहृ}
  • हृ (हृञ् हरणे)।
  • ‘पूर्वजो मे कथं ब्रह्मन्यज्ञं वै समुपाहरत्’ (रा० १।३९।२)। आहरत्, अनुष्ठितवानित्यर्थः।
  • ‘शून्ये न खलु सुश्रोणि मयेदं समुपाहृतम्’ (रा० २।१३।२१)। समुपाहृतम्=व्याहृतम्। अत्रार्थे समुपाङां प्रयोगोऽन्यत्र दुर्लभः।