१३७ अत्याङ् (अति+आङ्)

अर्ज्

  • {अत्यार्ज्}
  • अर्ज (अर्ज षर्ज अर्जने, अर्ज प्रतियत्ने)।
  • ‘अथैनमुत्क्रान्तमेधमत्यार्जन्त’ (ऐ० ब्रा० २।८)। अत्यार्जन्त पार्श्वतो न्यदधुः।

  • {अत्ये}
  • इ (इण् गतौ)।
  • ‘सर्वे देवा आत्यायन्ति’ (अथर्व० ११।१२।१४)। शत्रूनतिक्रम्यायन्ति।

कृ

  • {अत्याकृ}
  • (डुकृञ् करणे)।
  • ‘तामुदीचीमत्याकुर्वन्ति’ (श० ब्रा० ३।२।४।२२)। उत्तरां दिशम्प्रति नयन्तीत्याह।
  • ‘गार्गिकयाऽत्याकुरुते’ (पा० ५।१।१३४ सूत्रे वृत्तौ)। अत्याकुरुतेऽधिक्षिपति।
  • ‘गोत्रचरणाच्छ्लाधात्याकारतदवेतेषु’ (पा० ५।१।१३४)। अत्याकारः पराधिक्षेपः।

क्रम्

  • {अत्याक्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘अत्याक्रामति प्रतिप्रस्थाता’ (श० ब्रा० ४।५।२।११)। अग्रतः प्रसरतीत्याह।

दृ

  • {अत्यादृ}
  • दृ (दृङ् आदरे)।
  • ‘यस्तां विविक्तचरितैरनुवर्तमानां नात्याद्रियत’ (भा० पु० ३।१६।२१)। न तां बह्वगणयत्, नामानयत्।
  • ‘नात्यादृतशरीरसंस्करा’ (दशकु०)। परिकर्मण्यदत्तावधाना। अङ्गसंस्कारेऽनास्था।

धा

  • {अत्याधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘सूयमे मे अँद्य धृताची भूयास्तां स्वावृतौ सूपावृतावित्युपभृति जुहूमत्यादधाति’ (आप० श्रौ० २।४।१३।४)। अत्यादधाति उपरि स्थापयति।
  • ‘पुरुषं तद्वीर्येणात्यादधाति’ (श० ब्रा० ७।५।२।१४)। अत्यादधाति उपरि दधाति। अत्यन्तमाधीयते तन्निवारणार्थं मनो दीयते यस्मिंस्तद् अत्याहितम्। अत्याहितं महामीतिः कर्म जीवानपेक्षि चेत्यमरः।
  • ‘न केवलमत्याहितं सापवादमपि’ (उत्तर० २)। अत्याहितमापद्।
  • ‘अत्याहितं किमपि राक्षसकर्म कुर्यात्’ (महावीर० ४।४९)। अत्याहितं साहसम्, असमीक्ष्यकृतं वा।
  • ‘अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथग्जनाः’ (भा० वि० २५।१)। उक्तोऽर्थः।
  • ‘अराजके धनं नास्ति नास्ति भार्याप्यराजके। इदमत्याहितं चान्यत् कुतः सत्यमराजके’ (रा० २।६७।११)॥ अत्याहितं महाभीतिः।
  • ‘परिक्षीणोऽन्यात्तस्वः कदर्यो व्यसन्यत्याहितव्यवहारश्चेति लुब्धवर्गः’ (कौ० अ० १।१४।४)। अत्याहितव्यवहारः=रमसेन व्यवहर्ता, साहसिकः।
  • ‘अतिव्ययकर्तारमत्याहितकर्माणं च निवेदयेयुः (कौ० अ० २।३६।९)। उक्तोऽर्थः।
  • ‘निर्दग्धं रक्षो निर्दग्धा अरातय इति कपालेऽङ्गारमत्याधाय’ (आप० श्रौ० १।७।२२।३)। उपरि निधायेत्यर्थः।
  • ‘जानुनि चात्याधानं जङ्घायाः’ (आप० ध० २।२०।१४)। इतरस्या जङ्घाया अवस्थापनम्।
  • ‘अनत्याधान उरसिमनसी’ (पा० १।४।७५)। अत्याधानमुपश्लेष इति मा० ध० वृ०। उपश्लेषणमिति वृत्तिः। अत्याधानमतिक्रम इति वैजयन्ती।
  • ‘अथ स्त्रीभ्यः पुमांसं तद्वीर्येणात्यादधाति’ (श० ब्रा० ७।५।२।१४)। अत्यादधाति उपरि दधाति।
  • ‘जमदग्निर्ह वै माहेनानां पुरोहित आस। तान् ह वित्तेनात्यादधौ। त उ हैनमुपजिहिंसुः’ (जै० ब्रा० १।१५२)। वित्तेन भूरिदक्षिणामार्गणेनोद्वेजयामासेति वाक्यार्थः। आधिर्मानसी व्यथा भवति। अत्याधिरनल्पा सा।
  • ‘ततस्तस्मिन्मुनिसुते हृते ऽत्याहितशंसिभिः’ (स्कन्द पु० का० ४।१२।६५)। अत्याहितं महदनिष्टम्।

ध्मा

  • {अत्याध्मा}
  • ध्मा (शब्दाग्निसंयोगयोः)।
  • ‘अत्याधमति’ (सुश्रुत० १।३८।१३)। कृच्छ्रेण प्राणिति।

पद्

  • {अत्यापद्}
  • पद् (पद गतौ)।
  • ‘अत्यापन्नो गुरुजनः’ (महावीर० ४)। अतिशयेनापदं प्राप्तः।

रुह्

  • {अत्यारुह्}
  • रुह् (रुह बीजजन्मनि)।
  • ‘नात्यारोहति जातोर्मिर्महौघः स्वनवानपि’ (रा० ४।१७।२२)। मर्यादां नातिक्रामति, वेलां नातियाति।
  • ‘अत्यारूढो हि नारीणामकालज्ञो मनोभवः’ (रघु० १२।३३)। अत्यारूढोऽतिवृद्धः।
  • ‘अत्यारूढिर्भवति महतामप्यपभ्रंशनिष्ठा’ (शा० ४)। अत्यारूढिर्महदौन्नत्यम्, महानुच्छ्रायः।

सद्

  • {अत्यासद्}
  • सद् (षद्लृ विशरणगत्यवसादनेषु)।
  • ‘हर्षाद् वातापिरगस्त्यमत्यासा दयन्’ (कौ० अ० १।६।१०)। आक्रमितुमिच्छन्।
  • ‘सोऽत्यासाद्य तु तद्वेश्म तिरस्करणीमन्तरा’ (रा० २।१५।२०)। आत्यासाद्य अति समीपमित्वा।
  • ‘नात्यासादयितुं तात रामान्तिकमिहार्हसि’ (रा० ३।३७।१७)। अत्यासादयितुमत्यन्तं प्राप्तुम्।

सृ

  • {अत्यासृ}
  • सृ (सृ गतौ)।
  • ‘अत्यासारिण्यध्वर्योर्नाशुका स्यात्’ (तै० सं० ६।५।४)। अत्यासारिणी अत्यासारवती वृष्टिः। धारासम्पात आसारः।

हृ

  • {अत्याहृ}
  • हृ (हृञ् हरणे)।
  • ‘लोभाद् ऐलश्चातुर्वर्ण्यमत्याहारयमाणः’ (विननाश) (कौ० अ० १।६।७)। अत्याहारयमाणोऽतिवेलं बलीन् हारयन् इत्यर्थः।
  • ‘हृक्रोरन्यतरस्यामिति’ (१।४।५३) अणौ कर्तुर्णौ विभाषा कर्मत्वम्।
  • ‘अत्याहारितमर्थं वा स्वयं परमुखेन वा’ (कौ० श्र० ८।५।२६)। अत्याहारितम् अतिमात्रया कररूपेणात्तम्।