००९ परा

अञ्च्

  • {पराञ्च्}
  • अञ्च् (अञ्चु-गतिपूजनयोः)।
  • ‘विदुषां वदनाद्वाचः सहसा यान्ति नो बहिः। याताश्चेन्न पराञ्चन्ति द्विरदानां रदा इव’ (भामिनी॰१.६३)। पराञ्चन्ति=प्रत्यागच्छन्ति=प्रतिनिवर्तन्ते=परापतन्ति।
  • ‘पराञ्चि खानि व्यतृणत्स्वयम्भूः’ (कठ॰उ॰२.१.१)। पराञ्चि=बहिर्मुखानि।
  • ‘पराचः कामाननुयन्ति बालाः’ (कठ॰उ॰२.१.२)। पराचो बाह्यान्। पराङ्मुखः पराचीन इत्यमरः।

अय्

  • {पलाय्}
  • अय् (अय-गतौ)।
  • ‘ईर्ष्या जेया ततो रागः स्वयमाशाः पलायते’ (राजत॰३.५२१)। अत्र पलायतिः सकर्मकः, आशा इति च कर्म। आशाः=दिशः।
  • ‘यो वां प्राणो बलं यच्च या च वो वैरिता ऽसुराः। तत्कृत्वा हृदये चैव पलायध्वमितः पुरम्’ (मात्स्य पु० १३९।६)। पलायध्वं शीघ्रं धावत।

अस्

  • {परास्}
  • अस् (असु-क्षेपे)।
  • ‘परा मार्तण्डमास्यत्’ (ऋ॰१०.७२.८)। पुत्रं सूर्यं परास्यदित्याह।
  • ‘तस्मात् स्त्रियं जातां परास्यन्ति न पुमांसम्’ (मै॰सं॰४.६.४, नि॰३.४)। अवज्ञाय स्वतां विहाय प्रक्षिपन्ति परावपन्ति अपविध्यन्ति। परस्मै प्रयच्छन्तीति तु दुर्गः। तन्न। प्रदानं तु स्त्रीपुंसयोः साधारणमिति पुं-दाननिषेधोऽपार्थकः स्यात्।
  • ‘ममच्चन त्वा युवतिः परास’ (ऋ॰४.१८.८)। उक्तोऽर्थः।
  • ‘एतेन अनलङ्कृती पुनः क्वापीति यदुक्तं तदपि परास्तम्’ (सा॰द॰१)। परास्तम्=निराकृतम्=प्रत्युक्तम्।
  • ‘परास्तवसुधा सुधाऽधिवसति (कि॰५.२७)। परास्तवसुधा=त्यक्तवसुन्धरा। त्यक्तान्यभूभागा सुधाऽत्रैवाद्रौ वसतीति तात्पर्यम्।
  • ‘देवाँ उप प्रैत् सप्तभिः परा मार्तण्डमास्यत्’ (ऋ० १०।७२।९)।
  • ‘परा स्थालीरस्यन्त्युद् वायव्यानि हरन्ति। तस्मात् स्त्रियं जातां परास्यन्ति उत् पुमांसं हरन्ति’ (तै० सं० ६।५।१०।३८)। जातां परिपक्वाम्। परास्यन्ति परस्मिन्कुले ददतीति भट्टभास्करः। उद्धृतचरीयं श्रुतिः पुस्तके, केवलं व्याख्यायामभिनिवेशविशेषनिदर्शनाय पुनरुदाह्रियते। परासिः परकुले दाने वर्तत इति महती समुत्प्रेक्षा। पूर्ववाक्यार्थाननुगतश्चायमर्थ इति च नेक्ष्यते।

  • {परे}
  • इ (इण्-गतौ)।
  • ‘परा च यन्ति पुनरा च यन्ति भद्रा नाम वहमाना उषासः’ (ऋ॰१.१२३.१२)।
  • ‘परा मे यन्ति धीतयः’ (ऋ॰१.१५.१६)। उभयत्र पराशब्दो वैदूर्यमाह। परायन्ति=अपगच्छन्ति=अपसरन्ति।
  • कं स्विदर्धं परागात् (ऋ॰१.१६४.१७)।
  • ‘तिष्ठा सु कं मघवन् मा परागाः’ (ऋ॰३.५३.२)। इतो मत्तो दूरं मा यासीरित्याह।
  • ‘चलं यथा दृष्टिपथं परैति’ (भा॰शां॰२०२.२३)। परैति=प्राप्नोति।
  • ‘का न सम्पदो या न विपत्परैति’ (अव॰जा॰३२.१४)। या इति द्वि॰बहु॰। परैति=प्राप्नोति=आसादयति।
  • ‘परैति कार्श्यं यशसा समं वपुः’ (कि॰१.२९)। उक्तोऽर्थः।
  • ‘नैव श्रेयो धृतराष्ट्रः परैति’ (भा॰वन॰५.१६)।
  • ‘एहि क्षत्तर्द्रौपदीमानयस्व। सम्मार्जतां वेश्म परैतु शीघ्रम्’ (भा॰सभा॰६६.१)। परैतु पराकृता धिक्कृता ऐत्वित्यर्थ इति नीलकण्ठः।
  • ‘परैतु मृत्युरमृतं न ऐतु’ (अथर्व॰१८.३.६२)। परैतु=अपयातु।
  • ‘न वाऽप्यहं लिप्समानः परैमि’ (भा॰शां॰२९९.१९)। विचलामि, व्यतियामीत्याह। धर्मादिति शेषः।
  • ‘परेह्येनं जवेन भूतये’ (भा॰वन॰२७०.८)। शरणं प्रपद्यस्वेत्याह। परेहि सौम्य!
  • ‘ग्लावं मैत्रेयमुपसीद’ (गो॰ब्रा॰पू॰१.३१)।
  • ‘तस्माद् गुणानेव परैमि तीर्थम्’ (बुद्ध॰७.३१)। परैमि=अवैमि।
  • ‘मृतः श्रूयेत यो जीवः परेयुः पशवो यदा’ (भा॰वन॰२२१.२८)। परेयुः=परेताः स्युः, म्रियेरन्।
  • ‘अथ श्वोभूते पुरोहितस्य गृहान् परेत्य बार्हस्पत्यं चरुं निर्वपति’ (श॰ब्रा॰५.३.१.२)। परेत्य=प्राप्य=आसाद्य=उपगम्य।
  • ‘परायद्भ्योऽवहीये सखिभ्यः’ (ऋ॰१०.३४.५)। परायद्भ्यः=अग्रे गच्छद्भ्यः।
  • ‘परायतो निवर्तनमायतः प्रतिनन्दनम्’ (अथर्व॰७.३९.१)। परायतः पराङ्मुखं गच्छतः।
  • ‘य उदानट् परायणं य उदानण्न्यायनम्’ (अथर्व॰६.७७.२)। परायणम्=पराङ्मुखगमनम्।
  • ‘मधुमन्मे परायणं मधुमत्पुनरायनम्’ (ऋ॰१०.२४.६)। परायणम्=दूरगमनम्।
  • ‘परेयिवांसं प्रवतो महीरनु’ (ऋ॰१०.१४.१)। इतः प्रयान्तं म्रियमाणमित्याह।
  • ‘परेतकल्पा हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम्’ (रा० ३।४१।२०)। परेतकल्पा मृतप्रायाः।
  • ‘मा वयमेतमवहाय परागाम’ (काठक० ७।१२।५०)। एतमग्निं पृष्ठतो विहाय मा स्म दूरे गच्छामेत्याह।

कृ

  • {पराकृ}
  • कृ (डुकृञ्-करणे)।
  • ‘ता हनूमान् पराकुर्वन्’ (भट्टि॰८.५०)। तासां दर्शनं परिहरन्नित्याह। पराशब्दः पर्यर्थे वर्जने वर्तते।

कृष्

  • {पराकृष्}
  • कृष् (कृष-विलेखने)।
  • ‘स तां पराकृष्य सभासमीपमानीय’ (भा॰सभा॰६७.३१)। अग्रतो बलात्कृष्ट्वेत्याह।
  • ‘ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते। ब्राह्मणैर्यः पराकृष्टः पराभूयात् क्षणाद्धि सः’ (भा॰अनु॰३३.२०)॥ अवकृष्टो न्यक्कृतोऽवहेलित इति पराकृष्ट इहोक्तः।

कॄ

  • {पराकॄ}
  • कॄ (कॄ-विक्षेपे)।
  • ‘राज्यमक्षैः पराकीर्य न श्रूयन्ते कथञ्चन’ (भा॰वि॰४४.३)। पराकीर्य=अपविध्य=परोप्य=हारयित्वा। स्थानेऽक्षैः करणैः साहचर्येण पराकिरतेः प्रयोगो वश्यवाचः कवेः।

क्रम्

  • {पराक्रम्}
  • क्रम् (क्रमु-पादविक्षेपे)।
  • ‘प्रहाणस्तिष्ठन्दण्डे पराक्रम्य’ (शां॰श्रौ॰४.१६.४)।
  • ‘देवा देवेषु पराक्रमध्वम्, प्रथमा द्वितीयेषु पराक्रमध्वम्’ (शां॰श्रौ॰४.१०.१-२)।
  • (राजा) ‘बकवच्चिन्तयेदर्थान् सिंहवच्च पराक्रमेत्’ (मनु॰७.१०६)। विक्रान्तवदाचरेदित्यर्थः।
  • ‘गाण्डीवमुक्ता हि यथा पुरा मे पराक्रमन्ते न शराः किराते’ (कि॰१६.१८)। अप्रतिबन्धेन न पतन्तीत्यर्थः।
  • ‘स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत’ (भा॰आदि॰१२०.२)। पराक्रान्त उत्साहवान्।
  • ‘रामस्यार्थे पराक्रान्ता वानरास्त्यक्तजीविनः’ (रा॰६.७५.५५)।
  • ‘पानीयार्थे पराक्रान्ता यत्र ते भ्रातरो हताः’ (भा॰वन॰१७.९१)। उक्तोऽर्थः
  • ‘सैन्धवं त्वभिसम्प्रेक्ष्य पराक्रान्तं पलायने’ (भा॰वन॰२७१.५७)। पलायने रणाद् द्रुतौ व्यवसितमित्याह।
  • ‘ब्रह्मवादौ पराक्रान्तः शत्रुभिर्युधि दुर्जयः’ (हरि॰१.२६.२)। पराक्रान्तः=उत्साहसम्पन्नः
  • ‘पराक्रान्तस्य समरे विरथस्य पलायतः’ (हरि॰२.४३.२४)। शत्रुणा वशीकृतस्येति नीलकण्ठः।
  • ‘यत्र तपः पराक्रम्य व्रतं धारयत्युत्तरम्’ (अथर्व॰१०.७.११)। पराक्रम्य=सोत्साहं प्रक्रम्य।
  • ‘पराक्रान्तं चात्र सूरिभिरिति ग्रन्थभूयस्त्वभयादुपरम्यते’ (सर्वद० बौ०)। पराक्रान्तं सोत्साहं प्रगल्भं च प्रवृत्तमित्युपचरितोऽर्थः।
  • ‘न हि रामं पराक्रम्य जीवन् प्रतिनिवर्तते’ (रा० ३।४२।३)। पराक्रम्य=आक्रम्य=अभियाय=प्रार्थ्य।

क्रुश्

  • {पराक्रुश्}
  • क्रुश् (क्रुश आह्वाने रोदने च)।
  • ‘आर्येणेव पराक्रुष्टं हा सीते लक्ष्मणेति च’ (रा० ३।५९।७)। पराक्रुष्टमुच्चैराक्रन्दितम्, अत्यन्तमुद्घोषितम्।

क्षिप्

  • {पराक्षिप्}
  • क्षिप् (क्षिप-प्रेरणे)।
  • ‘पराक्षिप्तस्वलोकत्रयः’ (भा॰पु॰५.२४.१८)। पराक्षिप्तम्=प्राक्षिप्तम्=आच्छिन्नम्=हृतम्। आङोऽर्थे पराशब्दप्रयोगः साहसम्।
  • ‘औदार्येण पराक्षिप्तमनाः’ (भा॰पु॰५.२.८)। हृतमना इत्यर्थः।

ख्या

  • {पराख्या}
  • ख्या (ख्या-प्रकथने)।
  • ‘स यथा नद्यै पारं परापश्येदेवं स्वस्यायुषः पारं पराचख्यौ’ (श॰ब्रा॰११.१.६.६)। पराचख्यौ दूराद् ददर्श।

गम्

  • {परागम्}
  • गम् (गम्लृ-गतौ)।
  • ‘यद्वो मनः परागतं यद्बद्धमिह वेह वा’ (अथर्व॰७.१२.४)। परागतं दूरं गतम् (अशक्यानुसारम्)।
  • ‘विद्यया तदारोहन्ति यत्र कामाः परागताः’ (श॰ब्रा॰१०.५.४.१६)। परागताः=निवृत्ता भवन्ति।
  • ‘ये ते पूर्वे परागता अपरे पितरश्च ये’ (अथर्व॰१८.३.७२)। परागताः=इतः प्रयाताः परेता मताः।
  • ‘तदयं परागत एवास्मि’ (उत्तर॰५)। परापतितः प्रत्यागत इत्याह।
  • ‘विश्विलोऽपि मुहूर्तेन वाराणस्याः परागतः’ (बृ॰श्लो॰सं॰५.२५८)। उक्तोऽर्थः।
  • ‘स्फुटपरागपरागतपङ्कजम्’ (शिशु॰६.२)। परागतम्=परिगतम्। स्फुटैः परागै रजोभिः परागतानि व्याप्तानि पङ्कजानि यस्मिंस्तं सुरभिं वसन्तम् (आलोकयत) इति मल्लिनाथः। पर्यर्थे सर्वतोभावे पराशब्दस्य प्रयोगो निरङ्कुशत्वमेव कवीनां निदर्शयति। हन्त महाकवयो पीत्थङ्कारं वाचमाकुलयन्ति।
  • ‘अग्रहीज्जङ्घयोः पश्चात्तं चाचान्तपरागतम्’ (कथा० १२१।२७)। परागतं प्रत्यावृत्तम्।

चर्

  • {पराचर्}
  • चर (चर-गतिभक्षणयोः)।
  • ‘आ च परा च चरति प्रजानन्’ (ऋ॰१०.१७.६)। प्रचरति=प्रतिकूलं चरति इति सायणः।
  • अथर्वणि (७.१०.१) अप्येषर्गाम्नायते तत्र पराचरति परागच्छतीति सः।

जि

  • {पराजि}
  • जि (जि जये अभिभवे च)।
  • ‘अहमिन्द्रो न पराजिग्य इद् धनम्’ (ऋ॰१०.४.८५)। अहारयमित्यर्थः। पराभावयमिति तु सायणः।
  • ‘उभा जिग्यथुर्न पराजयेथे’ (अथर्व॰७.४५.१)। अकर्मकोऽत्र पराजयतिः।
  • ‘परा भागमोषधीनां जयन्ताम्’ (अथर्व॰८.३.१६)। भागं पराजयन्ताम्=स्वं भागं हारयन्ताम्=स्वस्मादंशान्निर्भज्यन्ताम्।
  • ‘इन्द्रो जयाति न पराजयातै’ (अथर्व॰६.९८.१)। पराजयं न लभत इत्यर्थः। अभिभवतीन्द्रो नेन्द्रोऽभिभूयत इत्याह।
  • ‘गच्छ त्वं कितवं गत्वा सभायां पृच्छ सूतज। किं नु पूर्वं पराजैषीरात्मानमथवा नु माम्’ (भा॰सभा॰६७.७)॥ पराजिरत्र सकर्मकः।
  • ‘ते (देवाः) ततः (आग्नीध्रीयात्) न पराजयन्त’ (ऐ॰ब्रा॰१०.४)। पराजयन्त=प्राच्यवन्त। पराजय इह प्रच्युतिः।
  • ‘अध्ययनात्पराजयते’ (पा॰१.४.२६ सूत्रे वृत्तौ)। अध्येतुं ग्लायतीत्यर्थः।
  • ‘ते देवाः सङ्घातं सङ्घातं पराजयन्त’ (गो॰ब्रा॰उ॰२.१७)।
  • ‘जिष्णुर्हापराजिष्णुर्भवति’ (श॰ब्रा॰१४.५.१.६)। इहोभयत्र पराजिरकर्मकः। न्यग्भवनमाचष्टे।
  • ‘पेतुरार्ता वेपमाना गावो वर्षपराजिताः’ (हरि॰२.१९.२४)। वर्षपराजिता वृष्ट्यभिभूताः। वर्षणेनोद्वेजिताः।
  • ‘येन जयासि न पराजयासै’ (तै० ब्रा० २।४।७।८)। न पराजयासै पराजयं नाप्स्यसि।
  • ‘तल्पसद्यं मा पराजेषि’ (तै० ब्रा० १।२।६।६)। मा पराजेषि मा स्म हारयम्। तल्पसद्यं तल्पावस्थानम्। धनिकत्वमिति यावत्।
  • ‘अविद्यो दुर्बलः श्रीमान् हिरण्यममितं मया। अजेयो बलदेवोऽयमक्षद्यूते पराजितः’ (हरि० २।६१।३२)॥ पराजितो हारितः। द्विकर्म्मको जिः। अप्रधाने कर्मणि लकारः।
  • ‘भ्रष्टाभरणकौशेयां शोकवेगपराजिताम्’ (रा० ४।५९।२१)। पराजितामभिभूताम्।
  • ‘भर्तृशोकपराजिता’ (रा० ६।११०।५)। उक्तोऽर्थः।
  • ‘गावो वर्षपराजिताः’ (हरि० २।१८।२५)। वर्षेण वृष्ट्या उद्वेजिता इत्याह।

डी

  • {पराडी}
  • डी (डीङ्-विहायसा गतौ)।

‘पश्चाद् गतिः पराडीनम्’ (भा॰कर्ण॰४१.२७)।

त्रस्

  • {परात्रस्}
  • त्रस् (त्रसी-उद्वेगे)। ‘परामित्रान् दुन्दुभिना सर्वे देवा अत्रितसन्’ (अथर्व॰५.२१.७)। भीषयित्वाऽद्रावयन्नित्यर्थः।

दा

  • {परादा}
  • दा (डुदाञ्-दाने)।
  • ‘मा दत्वते दशते मादते नो मा रीषते सहसावन् परादाः’ (ऋ॰१.८९.५)। मा परादाः=माऽर्पिपः। मा रीरध इति तात्पर्यार्थः। ‘महे च न त्वामद्रिवः परा शुल्काय देयाम्’ (ऋ॰८.१.५)। महार्घेणापि त्वां न विनिमयेयेत्याह।
  • ‘मा नो मघेव निष्पपी परा दाः’ (ऋ॰१.१०४.५)। निष्पपी स्त्रीकामो भवति विनिर्गतसपः। स यथा धनानि विनाशयति मा नस्त्वं तथा परादाः (विनीनशः) इति निरुक्ते (५.१६) यास्कः।
  • ‘यद्दत्तं यत्परादानं यत्पूर्वं याश्च दक्षिणाः’ (वा॰सं॰१८.६४)। परादानं दीनान्धकृपणेभ्यो दयया दानम् इत्युवटः।
  • ‘ब्रह्म तं परादात्। योऽन्यत्रात्मनो ब्रह्म वेद’ (श॰ब्रा॰१४.५.४.६)। परादात्=निराकार्षीत्=अत्याक्षीत्।
  • ‘मा नो वधीरिन्द्र मा परादाः’ (ऋ॰१.१०४.८)। उक्तोऽर्थः।
  • ‘मा नो अग्नेऽवीरते परादाः’ (ऋ॰७.१.१९)।
  • ‘स सृञ्जयाय तुर्वशं परादात्’ (ऋ०६.२७.७)। आर्पिपत्, तद्वशेऽकरोत्।
  • ‘मा परादा नो दुराध्ये मर्ताय’ (ऋ॰८.६०.७)।
  • ‘न गा इन्द्रस्तस्य पराददाति’ (ऋ॰१०.१६०.३)। न परास्यति, तन्नाशं नाभ्यनुजानातीत्यर्थः।
  • ‘परैणान् देवः सविता ददातु’ (अथर्व॰८.३.१६)। एनान् पराददातु=एनान् निरस्यतु।
  • ‘भवं ये बर्हिषां भागभाजं परादुः’ (भा॰पु॰४.६.५)। बर्हिर्भागभाजम्=यज्ञभागिनम्। परादुः=परासुः=अवधीरयामासुः। यज्ञभागान्निरभजन्नित्यर्थः।
  • ‘मा नो अर्यो अनुकामं परा दाः’ (ऋ० ८।४८।८)। यथाकाममरेर्मा नोऽर्पिपः।
  • ‘य उशता मनसा सोममस्मै सर्वहृदा देवकामः सुनोति। न गा इन्द्रस्तस्य परा ददाति’ (ऋ० १०।१६०।३)॥ न पराददाति न नाशयति। परादानं नाश इति सायणः।
  • ‘यदिष्टं यत्परादानं यद् दत्तं या च दक्षिणा’ (तै० सं० ५।७।७।३१)। परादानं नात्यादरेण दानमिति भट्टभास्करः।
  • ‘मा भूम हरिवः परादै’ (तै० सं० १।६।१२)। अन्येभ्यो दानं परादाः। क्विप् चेति क्विप्। परादानाय प्रत्याख्यानाय। त्वया त्याज्या मा भूमेत्यर्थः।

दिश्

  • {परादिश्}
  • दिश् (दिश-अतिसर्जने)।
  • ‘परामीषामसून् दिदेश दीर्घेणायुषा समिमान्त्सृजामि’ (अथर्व॰१२.२.५५)। परादिदेश=पराददामि=हरामि। दाञः स्थाने दिशेः समानार्थकस्य प्रयोगः। समश्चोपसर्गः।

दृश्

  • {परादृश्}
  • दृश् (दृशिर्-प्रेक्षणे)।
  • ‘आ पश्यति प्रतिपश्यति परापश्यति’ (अथर्व॰४.२०.१)। परागतं दूरस्थमपि भयकारणं जानातीत्यर्थः।
  • ‘यतरा नौ दवीयः परापश्यात्’ (श॰ब्रा॰३.६.२.३)। इह पराशब्दो दवीयःशब्दसहचारेण दर्शनस्य दूरावधिकतामाह।
  • ‘स यथा नद्यै पारं परापश्येत्’ (श॰ब्रा॰११.१.६.६)। सुदूरात्पश्येदित्यर्थः।
  • ‘न तत्र गच्छेद्यत्र चक्षुषा परापश्येत्’ (गो॰ब्रा॰पू॰३.२१)।
  • ‘धूममग्निं परादृश्यामित्रा हृत्स्वादधतां भयम्’ (अथर्व॰८.८.२)।

द्रु

  • {पराद्रु}
  • द्रु (द्रु-गतौ)।
  • ‘पराद्रवत्प्राणपरीप्सुरुर्व्याम्’ (भा॰पु॰१.७.१८)। पराद्रवत्=पलायत।

धाव्

  • {पराधाव्}
  • धाव् (धावु-गतिशुद्ध्योः)।
  • ‘परा हीन्द्र धावसि वृषाकपेः’ (अथर्व॰२०.१२६.२)। स्पष्टोऽर्थः।

ध्मा

  • {पराध्मा}
  • ध्मा (ध्मा-शब्दाग्निसंयोगयोः)।
  • ‘सपत्नीं मे पराधम’ (ऋ॰१०.१४५.२)। पराणुदेत्यर्थः। पराणुदेति चाथर्वणिकाः पठन्ति।
  • ‘प्रविद्धं रक्षः पराध्माता अमित्राः’ (आप॰श्रौ॰१.६.२०.८)। पराणुत्ताः (पराणुन्नाः) इत्यर्थः।

नी

  • {परानी}
  • नी (णीञ्-प्रापणे)।
  • ‘पुनः कृत्यां कृत्याकृते हस्तगृह्य पराणय’ (अथर्व॰५.१४.४)। पराणय=प्रतीपं नय। प्रत्यावर्तयेत्यर्थः।
  • ‘ये गोपतिं परागीयाथाहुर्मा ददा इति’ (अथर्व॰१२.४.५२)।
  • ‘ये गोपतिं पराणीयाथाहुर्मा ददा इति’ (अथर्व० १२।४।५२)। पराणीय परतो नीत्वा। अर्थनिर्देशायेहानुवादः।

नुद्

  • {पराणुद्}
  • नुद् (णुद-प्रेरणे)।
  • ‘पराशर्धन्तं नुनुदे अभि क्षाम्’ (ऋ॰७.१८.१६)। दूरं प्रैरयत्।
  • ‘तन्नः पराणुद विभो कश्मलं मानसं महत्’ (भा॰पु॰३.७.७)। उक्तोऽर्थः।

पत्

  • {परापत्}
  • पत् (पत्लृ-गतौ)।
  • ‘इन्द्रस्य सुपुवाणस्य दशधेन्द्रियं वीर्यं परापतत्’ (तै॰सं॰५.६.३.४)। पृथग्भूत्वाऽपतत्, अस्कन्दत्।
  • ‘यः प्रथमः शकलः परापतेत् स स्वरुः कार्यः’ (श॰ब्रा॰)। अवतरेत्, विश्लिष्टः स्याद् इत्याह।
  • ‘यथेषुका परापतदवसृष्टाधि धन्वनः’ (अथर्व॰१.३.९)। अनिरुद्धवेगा शीघ्रं गच्छतीत्याह।
  • ‘अवसृष्टा परापत सख्ये ब्रह्मसंशिते’ (वा॰सं॰१७.४५)। सहसा परसैन्ये पतिता भवेत्याह।
  • ‘पूर्णा दर्वि परापत सुपूर्णा पुनरापत’ (अथर्व॰४.१०.७)। देवान् प्रति परागच्छेत्याह।
  • ‘परा हि विमन्यवः पतन्ति वस्य इष्टये’ (ऋ॰१.२५.४)। दूरमुड्डयन्ते।
  • ‘पक्षिणः परापातमासते’ (काठक॰३४.८, वा॰सं॰३.४९)। परापातम् उत्पत्योत्पत्येत्यर्थः।
  • ‘यदद्य होतृवर्ये जिह्मं चक्षुः परापतत्’ (श॰ब्रा॰)। परापतिरिह सकर्मकः। चक्षुष्कर्म। जिह्मस्य चक्षुषो विषयतां पर्यहरत्। चक्षुर्गृहीतं नाभूदित्यर्थः।
  • ‘शब्दार्थौ प्रतिभानवतः कवेरहम्पूर्विकया परापततः’ (का॰मी॰)। कविमुपयातः।
  • ‘परा शुक्लानि पातय’ (अथर्व॰१.२३.२)। परापातय=पराणुद, पराचीनं दूरं प्रेरय।
  • ‘प्रथमपरापातिनं शकलमाहरति’ (आप॰श्रौ॰७.१.२.५)। प्रथमपरापातिनम् प्रथमं परापतति पृथग्भूत्वा पतति, तम्।

पू

  • {परापू}
  • पू (पूञ्-पवने)।
  • ‘परापूतं रक्षः परापूता अरातयः’ (वा॰सं॰१.१६)। परापूतम्=दूरीकृतम्। पूञ् इति विशेषं विहाय सामान्ये धात्वर्थे करणे प्रवृत्तः, पराशब्दश्च पृथग्भावे।
  • ‘दक्षिणाप्राची तिष्ठन्ती पत्न्यवहन्ति परापावमविवेकम्’ (आप॰श्रौ॰१.३.७.५)। परापावं शूर्पेण तुषप्रोहणं कृत्वा।

पृ

  • {परापृ}
  • पृ (पृ-पालनपूरणयोः)।
  • ‘परापूरो निपुरो ये भरन्ति’ (अथर्व॰१८.२.२८)। परापृणन्ति पिण्डान् ददतीति परापुरः पिण्डदातारः पुत्राः।

ब्रू

  • {पराब्रू}
  • ब्रू (ब्रू व्यक्तायां वाचि)।
  • ‘यद् ब्राह्मणायाध्याहात्मनेऽध्याह। यद् ब्राह्मणं पराहात्मानं पराह’ (तै० सं० २।५।११।९)। पराह=अनादरणाह।

भिद्

  • {पराभिद्}
  • भिद् (भिदिर्-विदारणे)।
  • ‘तस्य पारावतानश्वान् रथशक्त्या पराभिनत्’ (भा॰द्रोण॰१९१.३२)। अत्यन्तं विक्षतानकरोत् क्षुण्णानकार्षीदित्यर्थः।
  • ‘पराभिनन्नवैर्नवत्या च शरैस्तथार्जुनम्’ (भा॰कर्ण॰९०.६०)। उक्तोऽर्थः।
  • ‘पराभिनत्क्रौञ्चमिवाद्रिमग्निजः’ (भा॰कर्ण॰९०.६८)। व्यदारयदित्यर्थः।

भू

  • {पराभू}
  • भू (भू-सत्तायाम्)।
  • ‘अस्तु शेषं कौरवाणां मा पराभूदिदं कुलम्’ (भा॰उ॰१२३.५९)। मा नशदित्यर्थः।
  • ‘एकान्तेन ह्यनीहोऽयं पराभवति पूरुषः’ (भा॰वन॰३२.३९)। उक्तोऽर्थः
  • ‘कतमासां भोमतमा यामदत्त्वा पराभवेत्’ (अथर्व॰१२.४.४५)।
  • ‘यथा ते कुलतन्तुश्च धर्मश्चापि न पराभवेत्’ (भा॰आदि॰१०३.२२)।
  • ‘ते ब्राह्मणस्य गां जग्ध्वा वैतहव्याः पराभवन्’ (अथर्व॰५.२८.२०)।
  • ‘कथं नु प्रजाः सृष्टाः पराभवन्ति’ (काठक॰२.४)।
  • ‘यमिच्छेयुः स राजा स्याद्यो नेष्टः स पराभवेत्’ (भा॰अनु॰३३.१७)।
  • ‘नैतद् विद्वान् पराभवेत्’ (भा॰गृ॰२.६)। एतज्जानानो न नश्येदित्याह।
  • ‘तेऽसुरा हेलयो हेलय इति कुर्वन्तः पराबभूवुः’ (भाष्ये)। नेशुरित्यर्थः।
  • ‘यो राघवं रणे पराभवेत्’ (रा॰३.६६.१४)। पराभवतिरिह सकर्मकः। जयेत्=अभिभवेत्।
  • ‘नचिरात्तं रिपवः पराभवन्ति’ (का॰नी॰सा॰१३.९४)। उक्तोऽर्थः।
  • यदुत्साही सदा मर्त्यः पराभवति सज्जनान्। पराभवति=तिरस्करोति=अधिक्षिपति।
  • ‘इन्द्रो मणिनाऽसुरान् पराभावयत्’ (अथर्व॰८.५.३)।
  • ‘सम्भाव्य पराभावयत्ततो वै देवा अभवन् परासुराः’ (ऐ॰ब्रा॰३.३९)। अभवन्नवर्धन्त। पराभवन्=अहीयन्त=अनश्यन्।
  • ‘अनेनेन्द्रो मणिना वृत्रमहन्ननेनासुरान् पराभावयन्मनीषी’ (अथर्व॰८.५.३)।
  • ‘सपत्नेभ्यः पराभुवे’ (अथर्व॰१.२९.४)। पराभुवे=पराभूतये। सम्पदादित्वात् भावे क्विप्।
  • ‘न चैवं सामरा लोका गमिष्यन्ति पराभवम्’ (भा॰आदि॰१८०.२०)। पराभवो नाशः।
  • ‘नियच्छेदं मनः पापात्सर्वलोकपराभवात्’ (भा॰आदि॰१७९.२१)। उक्तोऽर्थः
  • ‘वरं परिभवस्तस्मान्न गुणानां पराभवः’ (अवदा॰जा॰३३.१३)। पराभवो नाशस्त्यागः।
  • ‘पराभवस्य हैतन्मुखं यदतिमानः’ (श॰ब्रा॰५.१.१.१)। पराभवो विनिपातः।
  • ‘परैरपर्यासितसत्त्वसम्पदां पराभवोऽप्युत्सव एव मानिनाम्’ (कि॰१.४१)। पराभवः पराजयः।
  • ‘कुबेरस्य मनःशल्यं शंसतीव पराभवम्’ (कु॰२.२२)। पराभवः=तिरस्कारः=विमानना।
  • ‘प्रान्यानि पात्राणि युज्यन्ते नान्यानि यानि पराचीनानि प्रयुज्यन्ते तान्यन्वोषधयः परा भवन्ति यानि पुनः प्रयुज्यन्ते तान्यन्वोषधयः पुनरा भवन्ति’ (तै० सं० ६।५।११)। पराभवन्ति फलपाके विनश्यन्ति।
  • ‘न यज्ञः पराभवति न यजमानः’ (तै० सं० ६।१।५)। न पराभवति न नश्यति।

मृ

  • {परामृ}
  • मृ (मृङ्-प्राणत्यागे)।
  • ‘परामृताः परिमुच्यन्ति सर्वे’ (मुं॰उ॰३.२.६)। परामृता मृत्युमतिक्रान्ता इत्याह।

मृश्

  • {परामृश्}
  • मृश् (मृश-आमर्शने, आमर्शनं स्पर्शः)।
  • ‘परामृशन् हर्षजडेन पाणिना तदीयमङ्गं कुलिशव्रणाङ्कितम्’ (रघु॰३.६८)।
  • ‘गदामाशु परामृशत्’ (भा॰द्रोण॰१७७.४३)। परामृशत्=अगृह्णात्।
  • ‘अतः प्रजारक्षणदक्षिणोऽसौ शस्त्रं शास्त्रं च पराममर्श’ (अवदा॰जा॰८.१)। पराममर्श=जग्राह, चिन्तयामास।
  • ‘अथ शक्तिं परामृशत्’ (भा॰द्रोण॰१४०.६५)। अगृह्णादित्यर्थः। केशपरामर्शः=कचग्रहः।
  • ‘किं भवितेति सशङ्कं पङ्कजनयना परामृशति’ (भामिनी॰२.५३)। परामृशति=चिन्तयति।
  • ‘ग्रन्थारम्भे विघ्नविघाताय समुचितेष्टदेवतां ग्रन्थकृत् परामृशति’ (का॰प्र॰१)। मनसा ध्यायति चिन्तयतीत्यर्थः।
  • ‘तदित्यनेन प्रकृतं ब्रह्म परामृश्यते’ (ब्र॰सू॰शां॰भा॰)। परामृश्यते=बुद्धिस्थं क्रियते।
  • ‘इदमा प्रक्रान्तस्य तेनैव तत्समानाभ्यामेतददःशब्दाभ्यां वा परामर्शो युक्तो न तच्छब्देन’ (सा॰द॰)।
  • ‘कथं राजा स्थितो धर्मे परदारान् परामृशेत्’ (रा॰३.५०.६)। दूषयेदित्यर्थः।
  • ‘प्रमत्त एष राजा कलत्राणि नः परामृशति’ (दशकु॰)। तेषु सहसा प्रवर्तते, तानि दूषयतीत्यर्थः।
  • ‘क्व दृष्टा त्यागिता भिक्षोः कुतो वा तस्य सम्पदः। पराममर्श नैवेति गतानुगतिको जनः’ (राजत॰८.७९७)। पराममर्श=चिन्तयामास।
  • ‘याज्ञसेन्याः परामर्शः स च वीर दहत्युत’ (भा॰वन॰१४१.४)। परामर्शः केशेषु ग्रहणम्।
  • ‘हस्तिहस्तपरामृष्टां व्याकुलामिव पद्मिनीम्’ (भा॰वन॰६८.१५)। परामृष्टां विलोडिताम्।
  • ‘तात चूतकदम्बाग्रपरामर्शसुगन्धयः’ (यो॰वा॰६ (२)। ११४.२९)। परामर्शः स्पर्शः।
  • ‘परस्परपरामर्शात्कुन्ताद्यायुधपङ्क्तयः’ (यो॰वा॰६ (२)। १०८.४४)। परामर्शः=सङ्घर्षः=सङ्घट्टः।
  • ‘ईदृशे तु परामर्शे वर्तमानस्य माधव। त्वदन्यो हि रणे गोप्ता विजयस्य न विद्यते’ (भा॰द्रो॰११०.५४)। उक्तोऽर्थः। विजयोऽर्जुनः।
  • ‘धनुषोऽस्य परामर्शात् स्वस्ति तेऽस्तु परन्तप’ (रा॰१.७६.१७)। परामर्शो ग्रहणाकर्षनादि।
  • तपःपरामर्शविवृद्धमन्युः’ (कु॰३.७१)। तपःपरामर्शः=तपस आस्कन्दनम्, तपश्चर्याया घर्षणम्।
  • ‘लिङ्गपरामर्शोऽनुमानम्’ (तर्क॰)। परामर्शो ज्ञानम्।
  • ‘अश्वं च तं परामृश्य विषयान्ते विषोपमाः’ (भा॰आश्व॰७७.३)। परामृश्य=गृहीत्वा।
  • ‘क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः’ (योग॰सू॰१.२४)। अपरामृष्टः=अस्पृष्टः=अनास्कन्नः।
  • ‘मदनव्याधिना परामृष्टोऽसि (माल॰) परामृष्टः=स्पृष्टः=गृहीतः।
  • ‘मत्स्यराजः परामृष्टस्त्रिवर्तेन सुशर्मणा’ (भा॰वि॰३३.१२)। परामृष्टो गृहीतः।
  • ‘स केशेषु परामृष्टो बलेन बलिनां वरः’ (भा॰वि॰२२.५२)। उक्तोऽर्थः।
  • ‘न भीतो न परामृष्टो नापयातो न वर्जितः। नाशस्त्रोऽप्यवमन्तव्यः…’ (तन्त्रा॰३.१३)। परामृष्टः=गृहीतः=गृह्यकः=बन्दिः।
  • ‘वेदिमिव परामृष्टाम्’ (रा० ५।१९।१५)। परामृष्टां दूषितां शूद्रादिभिः।
  • ‘हस्तिहस्तपरामृष्टामाकुलामिव पद्मिनीम्’ (रा० ५।१९।१६)। पुस्तके भारते वनपर्वणि दृष्टोऽयं श्लोकार्ध इत्युक्तम्। श्रीरामायणेपि तथाभूतो न्यास इति निदर्शनायेह पुनरुपन्यासः।
  • ‘दृष्ट्वा सीतां परामृष्टां दीनां दिव्येन चक्षुषा’ (रा० ३।५२।१३)। परामृष्टामपहृताम्।
  • ‘वैदेह्याश्च परामर्शो रक्षोभिश्च समागमम्’ (रा० ६।१००।४९)। परामर्शो बलाद् ग्रहणम्।
  • ‘तदेष ब्राह्मणः करोतु संवादिनोः स्वप्नयोरर्थपरामर्शम्’ (नलच० तृ० उ०)। परामर्शश्चिन्ता।
  • ‘तदलमिदानीमलीकपरामर्शमन्थरतया’ (त्रिपुर० १)। परामर्शः प्रमार्जनं प्रोञ्छनम्।

या

  • {पराया}
  • या (या-प्रापणे, प्रापणमिह गतिः)।
  • ‘परा याहि मघवन्ना च याहीन्द्र’ (ऋ॰३.५३.५)। परायाहि=दूरं याहि=अपवाहयात्मानम्। प्रतियाहि, प्रतिनिवर्तस्वेत्याशयः।
  • ‘परायात पितर आ च यात’ (अथर्व॰१८.३.१४)। परागच्छत=पराङ्मुखाः स्वस्थानं गच्छतेत्याह।

वच्

  • {परावच्}
  • वच् (वच-परिभाषणे)।
  • ‘परावाकाय ते नमः’ (अथर्व॰६.१३.२)। परावाकः पराभववचनम्।

वप्

  • {परावप्}
  • वप् (डुवप-बीजसन्ताने)।
  • ‘ये निखाता ये परोप्ताः’ (अथर्व॰१८.२.३४)। परोप्ता दूरे परित्यक्ताः। परावपेर्निष्ठायां रूपम्। परावपिः परासने वर्तते।
  • ‘याश्च ते हस्त इषवः परा ता भगवो वप’ (वा॰सं॰१६.९)। परावप=पराक्षिप।
  • ‘परा वा एष यज्ञं पशून् वपति योऽग्निमुद्वासयति’ (तै॰सं॰१.५.२.१)।
  • ‘यत्त्वा क्रुद्धः परोवप मन्युना यदवर्त्या (अग्ने)’ (तै॰सं॰१.५.३.२)। परोवप=परोवाप। उत्तमे णलि वृद्धिविकल्पः।
  • ‘परा वा एषोऽग्निं वपति योऽप्सु भस्म प्रवेशयति’ (तै॰सं॰५.२.२.५)। उक्तोऽर्थः।
  • शूर्पेण धान्यं परावपति। उत्फाल्य प्रक्षिपति परिपवितुकामः।
  • ‘यत्त्वा क्रुद्धः परोवप मन्युना यदवर्त्त्या’ (तै० सं० १।५।३।१-२)। परोवप उद्वासितवानस्मि। परापूर्वस्य वपते र्लिट्युत्तमैकवचने रूपम्।
  • ‘तासां सृष्टानां परावापाद् अबिभेत्। …नास्य वित्तं परोप्यते य एवं वेद’ (जै० ब्रा० १।१०४)। परोप्यते विकीर्यते। नश्यतीति यावत्। परावापः परासनम्।

वह्

  • {परावह्}
  • वह् (वह-प्रापणे)।
  • ‘द्विषते तत् परावह शपते तत् परावह’ (अथर्व॰१६.६.३)। परावह=परागमय=पराणय।
  • ‘अहीनां सर्वेषां विषं परावहन्तु सिन्धवः’ (अथर्व॰१०.४.२०)। प्रोह्य नयन्त्वित्याह। अत्रार्थे दशतयीषु प्रवहेरपि प्रयोगो दृश्यते -
  • ‘इदम् आपः प्रवहत यत्किञ्च दुरित मयि’ (ऋ॰१.२३.२२)।

वा

  • {परावा}
  • वा (वा-गतिगन्धनयोः)।
  • ‘पराऽन्यो वातु यद्रपः’ (ऋ॰१०.१३७.२)। परावातु=परावापयतु। वान्वातो मे पाप्मानं दूरं वहत्वित्याह।

वृजु

  • {परावृजु}
  • वृज् (वृजी-वर्जने)।
  • ‘परा पूर्वेषां सख्या वृणक्ति’ (ऋ॰६.४७.१७)। परिवर्जयतीत्यर्थः।
  • ‘परा चिच्छीर्षा ववृजुस्त इन्द्रायज्वानो यज्वभिः स्पर्धमानाः’ (ऋ॰१.३३.५)। शीर्षा शीर्षाणि शिरांसि पराववृजुः पराङ्मुखानि चक्रुः। प्रहारपरिजिहीर्षया प्रदुद्रुवुरित्यर्थः।
  • ‘त्वाष्ट्रस्य त्रीणि शीर्षा परावर्क्’ (ऋ॰१०.८.९)। चिच्छेदेत्याह।
  • ‘मा न इन्द्र परावृणक्’ (ऋ॰८.८६.७)। मा त्याक्षीः। कृच्छ्रगतान्नोऽसहायान्मा स्म हासीरित्याह।
  • ‘मा नो अस्मिन्महाधने परावर्क्’ (तै० सं० २।६।११।३)। मा परावर्क् मा पराणैषीः, मा परिहार्षीः, मा हासीः।

वृत्

  • {परावृत्}
  • वृत् (वृतु-वर्तने)।
  • ‘अथौघः स परावृत्तः प्रतिकूलेन वायुना’ (कथा॰४६.१३९)। परावृत्तः=प्रत्यावृत्तः।
  • ‘परावृत्तं यौवनम्’ (प्रबोध॰)। परावृत्तं गतम्।
  • ‘या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः। …अपरावृत्तिरस्तु ते॥’ अपरावृत्ति र्मीक्षः। यस्तु भीतः परावृत्तः सङ्ग्रामे हन्यते परैः। परावृत्तः पराङ्मुखः।

शस्

  • {पराशस्}
  • शस् (शसु-हिंसायाम्)।
  • ‘अवशसा निःशसा पराशसोपारिम’ (अथर्व॰६.४५.२)। पराशसा=पराङ्मुखहिंसनेन। उपारिमेति लिट्युत्तमबहुवचने रूपम्।

शृ

  • {पराशृ}
  • शॄ (शॄञ्-हिंसायाम्)।
  • ‘परा शृणीहि तपसा यातुधानान् पराऽग्ने रक्षो हरसा शृणीहि। परार्चिषा मुरदेवाञ् छृणीहि परासुतृपः शोशुचतः शृणीहि’ (अथर्व॰८.३.१३)॥ इह सर्वत्र पराशब्दो विशरणस्य हिंसनस्य कार्त्स्न्यमाह।
  • ‘पराशृणीतमचितो न्योषतम्’ (ऋ॰७.१०४.१)। उक्तोऽर्थः। पराशर इत्यृषिनामधेयम्। अत्रापि परेत्युपसर्गः। पराशृणातीति पराशरः। पचाद्यच्।
  • ‘इन्द्रो वोऽद्य पराशरीत्’ (अथर्व॰३.६६.२)। पराशरीदिति लुङि रूपम्। वृद्ध्यभावश्छान्दसः।

श्वस्

  • {पराश्वस्}
  • श्वस् (श्वस-प्राणने)।
  • ‘त्वयि चाहं पराश्वस्तः’ (भा॰द्रोण॰८४.३२)। परमाश्वासं गत इत्याह।
  • ‘त्वयि वत्से पराश्वस्य ब्राह्मणस्याभिराधनम्’ (भा॰वन॰३०३.१४)। परमाश्वासं विश्वासं कृत्वा। विस्रब्धं समर्प्येत्यर्थः।

सञ्ज्

  • {परासञ्ज्}
  • सञ्ज् (षञ्ज-सङ्गे)।
  • ‘परासक्ते (परासिक्ते?) वस्तस्मिन् कथमासीन्मनस्तदा जीवितेऽप्यद्य…’ (भा॰भीष्म॰१४.५५)।

सिच्

  • {परासिच्}
  • सिच् (षिच-क्षरणे)।
  • ‘यो हैनं तत्र ब्रूयात्परासिञ्चत न्वा अयमग्निहोत्रम्’ (श॰ब्रा॰१२.४.२.९) अच्छर्दयदित्याह।
  • ‘परा वा एष सिच्यते योऽबलोऽश्वमेधेन यजते’ (श॰ब्रा॰१३.१.६.३)। परासिच्यते=परास्यते=पराभूयते।
  • ‘परा तत् सिच्यते राष्ट्रं ब्राह्मणो यत्र जीयते’ (अथर्व॰५.१९.६)। परासिच्यते=सम्पदा हीयते। जीयते=क्षीयते=हीयते। ज्या वयोहानौ। यकि सम्प्रसारणं दीर्घश्च।
  • ‘परासिक्तं विपुलं स्वं बलौघम्’ (भा॰उ॰४८.२२)। परासिक्तं दूरे क्षिप्तं निरस्तम्।
  • ‘परासिक्तान्धार्तराष्ट्रांश्च विद्धि’ (भा॰उ॰२९.५०)। निर्धूतान् सम्पदा हीनान् इति नीलकण्ठः।
  • ‘मा परासेचि मत् पयः’ (आप॰श्रौ॰४.४.१४.४)। अत्र अच्छिद्रः प्रजया भूयासम् इति प्रथमश्चरणः। द्रवद्रव्यस्य कर्मत्वे सिचेर्मुख्या वृत्तिरन्यत्रोपचारोऽस्य। यथाऽऽपः परासिच्यन्ते पात्रादुद्धृत्य प्रवाह्यन्त एवं द्रव्यान्तराणि राजादीनि परासिच्यन्तेऽपाक्रियन्ते। अत्रोदाहृतिषूपचारः सिचेः, मा परासेचि मत्पय इत्येकां वर्जयित्वा। अहो वाग्वैदग्धीविलासो वश्यवाचां प्राचां मन्त्रदृशाम्।
  • ‘मा नो गयमारे अस्मत् परा सिचः’ (ऋ० ९।८१।३)। माऽस्मत् परासिचः=दूरे मा प्रेरय।
  • ‘गयं धनम्। मा परासेचि मद्धनम्’ (शां० गृ० ३।४।४)। मा परासेचि मा परासि।

सू

  • {परासू}
  • सू (षू-प्रेरणे)।
  • ‘विश्वानि देव सवितर्दुरितानि परासुव’ (ऋ॰५.८२.५, वा॰सं॰३०.३)। पराङ्मुखानि प्रेरय, इतो दूरमुत्सारयेत्याह।
  • ‘आ ते प्राणं सुवामसि परा यक्ष्मं सुवामि ते’ (अथर्व॰७.५५.६)। उक्तोऽर्थः। सुवामसि=सुवामः।
  • ‘इदन्तो मसि’ (७.१.४६) इति मसो मसिः।
  • ‘पर ऋणा सावीरध मत्कृतानि माहं राजन्नन्यकृतेन भोजम्’ (ऋ० २।२८।९)। परासावीः=पराचीनं प्रेरय=अपाकुरु। अनृणो यथा स्याम्।

सृज्

  • {परासृज्}
  • सृज् (सृज-विसर्गे)।
  • ‘परासृजसि यद्वित्तं किञ्चित्त्वं बहु मूढवत्’ (भा॰कर्ण॰३९.३)। वृथा परित्यजसीत्याह।

स्कन्द्

  • {परास्कन्द्}
  • स्कन्द् (स्कन्दिर्-गतिशोषणयोः)।
  • पराचित-परास्कन्द-परजात-परैधिता इत्यमरः। परास्कन्दो भृत्यः।

हन्

  • {पराहन्}
  • हन् (हन-हिंसागत्योः)।
  • ‘सत्येन सोमं पराहणानि’ (श॰ब्रा॰३.९.४.१)।
  • ‘यत्ते (त्वा) शिक्वः परावधीत्तक्षा हस्तेन वास्या’ (अथर्व॰१०.६.३, वै॰सू॰१०.३०, आप॰श्रौ॰७.२.८.९)। परावधीत्=प्राहार्षीत्=अवातीतडत्
  • ‘यद्वोऽशुद्धाः पराजघ्नुः’(वा॰सं॰१.१३)। पराहतवन्तः=दूषितवन्तः।
  • ‘तद्यदेवैषामत्राशुद्धस्तक्षा वाऽन्यो वाऽमेध्यः कश्चित् पराहन्ति’ (श॰ब्रा॰१.१.३.१२)। दूषयति कलुषयतीत्याह।
  • ‘नानवनिज्य हस्तौ पात्राणि पराहन्ति’ (आप॰श्रौ॰२.२.३.१५)। सम्मार्ष्टीत्याह।
  • ‘मीळ्हुष्मतीव पृथिवी पराहता मदन्त्येत्यस्मदा’ (ऋ॰५.५६.३)। पराहता=उत्कषिता=कृष्टा।
  • ‘पराहतः शैल इवार्णवाम्बुभिः’ (कि॰१४.१)। पराहतः=अभिहतः।
  • ‘पराहते पौरुषे धार्तराष्ट्रे’ (भा॰द्रोण॰२.२१)। पराहते=न्यक्कृते=न्यग्भाविते।
  • ‘कटाक्षपराहतं वदनपङ्कजम्’ (मालती॰७)। कटाक्षप्रहृतम्=अपाङ्गवीक्षिताहतम्।
  • ‘शुभाशुभप्रसरपराहताकृतौ…मनसि’ (यो॰वा॰४.४२.५२)। पराहता उपहता मलिनीकृताऽऽकृतिर्यस्य तस्मिन्मनसि। परस्परपराहतं वचः सङ्कुलमुच्यते।
  • अमरश्चाप्याह- अथ सङ्कुलक्लिष्टे परस्परपराहते।
  • ‘इत्येतच्च भवद्वाक्यं परस्परपराहतम्’ (तत्त्वसं० ११४७)। पराहतं व्याहतं संकुलम्।

हृ

  • {पराहृ}
  • हृ (हृञ्-हरणे)।
  • ‘तैश्चेत् (दक्षिणपाण्यादिभिरङ्गैः)। स्त्रियं पराहरत्यनग्निरिव शिष्यते’ (गो॰ब्रा॰पू॰२.४)।
  • ‘आ भद्रं द्वापरं भरमुत परा कलिम्। कृतं मे हस्त आहितम्’ (अथर्व॰पि॰२.४९.४)। पराभरं=पराहरम्=पर्यहरम्।