०७३ अवाङ् (अव+आङ्)

कॄ

  • {अवाकॄ}
  • कॄ (कॄ विक्षेपे)।
  • ‘कदा राघवौ लाजैरवाकरिष्यन्ति’ (रा० २।४३।१३)। आकीर्णाववस्तीर्णौ करिष्यन्ति लोकाः।
  • ‘तेन मामभितः स्थित्वा शरवर्षैरवाकिर’ (भा० द्रोण० १३१।२३)। उक्तोऽर्थः।

चि

  • {अवाचि}
  • चि (चिञ् चयने)।
  • ‘अवाचिनोति कर्माणि न च संप्रचिनोति च’ (भा० शां० १६०।२७)। अवाचिनोति भोगेनापकर्षति। न्यूनतामापादयति।