अव्ययीभावः

प्रक्रियाविशेषः

  • अव्ययीभावे च अकाले सहस्य सः
  • अव्ययीभावः च (नपुंसकलिङ्गम्)। ह्रस्वो नपुंसके प्रातिपदिकस्य
  • अव्ययाद् आप्सुपः (लुक्)। - अधिहरि
    • न +अव्ययीभावाद् अतो (सुपो लुक्), ऽम् त्व् अपञ्चम्याः। - उपकुम्भं तिष्ठति। उपकुम्भं पश्य। उपमणिकं तिष्ठति। उपमणिकं पश्य। अतः इति किम्? अधिस्त्रि। अधिकुमारि। अपञ्चम्याः इति किम्? उपकुम्भादानय।
    • तृतीया-सप्तम्योर् बहुलम् (अव्ययीभावाद् अतो न लुक्)।
      • अपदिशेन अपदिशे।
  • एकवचने एव प्रयोगः‌ इति बहवः।