नकारान्तात्

नकारान्तशब्देभ्यः स्त्रीत्वं द्योतयितुम् ४.१.५ ऋन्नेभ्यो ङीप् इति ङीप्-प्रत्ययः विधीयते ।

  • दण्डिन् + ङीप् → दण्डिनी ।
  • गुणिन् + ङीप् → गुणिनी ।
  • अधिकारिन् + ङीप् → अधिकारिणी ।

मन्

परन्तु, यस्य शब्दस्य अन्ते “मन्” इति विद्यते, तस्मात् “४.१.११ मनः” इत्यनेन ङीप्-प्रत्ययः निषिध्यते । एतादृशे निषेधे जाते तत्र “४.१.१३ डाबुभाभ्यामन्यतरस्याम्” इत्यनेन विकल्पेन डाप्-प्रत्ययः भवति । यथा —

“सीमन्” इति शब्दात् स्त्रीत्वं द्योतयितुम् —

  • विकल्पेन डाप्-प्रत्ययस्य विधानम् — सीमन् + डाप् → सीम् + आ → सीमा । आकारान्तस्त्रीलिङ्गशब्दः अयम् । सीमा, सीमे, सीमाः इति मालाशब्दसदृशानि रूपाणि ।
  • डाप्-प्रत्ययस्य अभावे — सीमन् इत्येव प्रातिपदिकम् । सीमा,सीमानौ, सीमानः इति रूपाणि ।

उभयत्र प्रातिपदिकं भिन्नं परन्तु प्रथमैकवचनस्य रूपम् समानमेव इति स्मर्तव्यम् !

दामन् शब्दस्य विषये अपि तथैव । दामा / दामन् इति उभयथा स्त्रीलिङ्गे प्रातिपदिकम् ।

बहुव्रीहौ अन्

एवमेव, यस्य बहुव्रीहिसमासस्य अन्ते “अन्” इति विद्यते, तस्मात् “४.१.१२ अनो बहुव्रीहेः” इत्यनेन ङीप्-प्रत्ययः निषिध्यते । एतादृशे निषेधे जाते तत्रापि “४.१.१३ डाबुभाभ्यामन्यतरस्याम्” इत्यनेन विकल्पेन डाप्-प्रत्ययः भवति । यथा —

  • दृष्टः धर्मः येन सः इत्यत्र बहुव्रीहिसमासस्य प्रक्रियायाम् “५.४.१२४ धर्मादनिच् केवलात्” इत्यनेन अन्-प्रत्ययः भवति, येन “दृष्टधर्मन्” इति प्रातिपदिके प्राप्ते, स्त्रीत्वे ङीप्-प्रत्ययनिषेधे केवलं विकल्पेन एव डाप्-प्रत्ययः भवति, अतः —
    • डाप्-प्रत्ययविधानपक्षे — दृष्टधर्मन् + डाप् → दृष्टधर्म् + आ →‌ दृष्टधर्मा (इति आकारान्तस्त्रीलिङ्गशब्दः) । दृष्टधर्मा, दृष्टधर्मे, दृष्टधर्माः इति मालाशब्दसदृशानि रूपाणि ।
    • डाप्-प्रत्ययस्य अभावपक्षे — दृष्टधर्मन् इत्येव स्त्रियां प्रातिपदिकम् । दृष्टधर्मा, दृष्टधर्माणौ, दृष्टधर्माणः इति रूपाणि । उभयत्र प्रातिपदिकं भिन्नं परन्तु प्रथमैकवचनस्य रूपम् समानमेव इति स्मर्तव्यम् !

एवमेव बहवः यज्वानः यस्याः सा = बहुयज्वा । अत्रापि डाप्-प्रत्ययः वैकल्पिकः, अतः बहुयज्वन् / बहुयज्वा इति द्वे प्रातिपदिके । तथैव बहुराजा / बहुराजन् इत्येते प्रातिपदिके अपि सिद्ध्यतः ।