१६८ अभ्युपाङ् (अभि+उप+आ)

  • {अभ्युपे}
  • इ (इण् गतौ)।
  • ‘ते यथापथं सायं गृहानभ्युपायन्ति’ (जै० ब्रा० १।१०६)। प्राप्नुवन्ति आसादयन्ति।

दा

  • {अभ्युपादा}
  • दा (डुदाञ् दाने)।
  • ‘फलानि पातयामास सम्यक् परिणतान्युत। अभ्युपादाय विस्रब्धो भक्षयामास…’ (भा० शां० २३।२१-२२)। तान्युपादायेति पाठान्तरम्। अभ्युपादाय=अवचित्य, अवचयं कृत्वा।

वृत्

  • {अभ्युपावृत्}
  • वृत् (वृतु वर्तने)।
  • ‘तद्धेक्षाञ्चक्रे नैव सर्वेणैवात्मना मनुष्यानभ्युपावृतम्’ (श० ब्रा० २।२।१।१३)। अभ्युपावृतम् उपासृपम्।