१३० अधिवि

क्रम्

  • {अधिविक्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘देव विष्ण उर्वद्यास्मिन्यज्ञे यजमानायाधिविक्रमस्व’ (का० श्रौ० २३।३।१)। दीर्घेण क्रमेण निष्क्रामेत्याह।

धा

  • {अधिविधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘चित्ते ह्यस्मिन् होत्रा अधिविधीयन्ते’ (श० ब्रा० ६।३।१।१६)। अधविधीयन्ते विभागशो नियुज्यन्ते।
  • ‘एतदधिविधाय’ (तै० उ० १।७)। अनर्थकोऽधिः। विधायेत्येवार्थः।

श्रि

  • {अधिविश्रि}
  • श्रि (श्रिञ् सेवायाम्)।
  • ‘तृतीये नाके अधिविश्रयस्व’ (अथर्व० ९।५।८)। सुप्रतिष्ठितो भवेत्यर्थः।