शतृ/शानच्

लटि

धातुभ्यः शतृ/शानच्-प्रत्ययौ “लट्”लकारस्य आदेशरूपेण विधीयेते ।

  • पठ् + लट् → पठ् + शतृ → पठत् । लभ् + लट् → लभ् + शानच् → लभमान ।

प्रातिपदिकनिर्माणपद्धतिः —

धातोः परस्मैपदस्य लट्लकारस्य प्रथमपुरुषबहुवचनस्य रूपस्य अन्ते विद्यमानम् “न्ति” उत “ति” इति निष्कास्य तस्य स्थाने “त्” इति संस्थाप्यते चेत् शतृप्रत्ययान्तप्रातिपदिकं सिद्ध्यति ।

गच्छन्ति‌ → गच्छत् । ददति → ददत् । कुर्वन्ति → कुर्वत् । आप्नुवन्ति → आप्नुवत् । जाग्रति → जाग्रत् ।

धातोः आत्मनेपदस्य लट्लकारस्य प्रथमपुरुषद्विवचनस्य रूपस्य अन्ते विद्यमानम् “एते” / “आते” इति निष्कास्य तस्य स्थाने (यथासङ्ख्यम्) “अमान” / “आन” इति संस्थाप्य आवश्यकं चेत् णत्वं कृत्वा शानच्-प्रत्ययान्तप्रातिपदिकं सिद्ध्यति ।

लभेते → लभमान । ददाते → ददान । कुर्वाते → कुर्वाण । रुन्धाते → रुन्धान । दिशेते → दिशमान ।

वाक्यैकीकरणम्

शतृ/शानच्-प्रत्ययाभ्यां प्रयोगेण द्वयोः वाक्ययोः एकत्रीकरणं सम्भवति ।

रामः पठति, तं माता पश्यति → पठन्तं रामं माता पश्यति । ब्राह्मणः याचते, तस्मै राजा धनं ददाति → याचमानाय ब्राह्मणाय राजा धनं ददाति ।

Present continuous इति न

शतृ-शानच्-प्रत्ययाभ्याम् “present continuous” इति निर्दिश्यते इति चिन्तनम् सर्वथा अनुचितम् । “रामः पचन् अस्ति” तथा च “रामः पचति” एतयोः वाक्ययोः मध्ये न कश्चन कालभेदः विद्यते । संस्कृतभाषायां वर्तमानकालस्य “simple present” तथा “present continuous” इति भेदाः न सन्ति । अद्यतनकाले भाषायां शतृ/शानच्-प्रत्यययोः प्रयोगः ‘present continuous’ इत्यस्मिन् सन्दर्भे दृश्यते; तस्य व्याकरणे न कश्चन आधारः । प्रायेण आङ्ग्लभाषायाः / प्रान्तीयभाषाणां प्रभावेण एतादृशाः प्रयोगाः निर्मिताः, विकसिताः च ।

लृटि

धातुभ्यः शतृ/शानच्-प्रत्ययौ “लृट्”लकारस्य आदेशरूपेण विधीयेते । पठ् + लृट् → पठ् + शतृ → पठिष्यत् । लभ् + लृट् → लभ् + शानच् → लप्स्यमान ।

प्रातिपदिकनिर्माणपद्धति

धातोः परस्मैपदस्य लृट्लकारस्य प्रथमपुरुषैकवचनस्य रूपस्य अन्ते विद्यमानम् “ति” इति निष्कास्य तस्य स्थाने “त्” इति संस्थाप्यते चेत् शतृप्रत्ययान्तप्रातिपदिकं सिद्ध्यति । गमिष्यति → गमिष्यत् । दास्यति → दास्यत् । करिष्यति → करिष्यत् । नंस्यति →‌ नंस्यत् । धातोः आत्मनेपदस्य लृट्लकारस्य प्रथमपुरुषैकवचनस्य रूपस्य अन्ते विद्यमानम् “ते” इति निष्कास्य तस्य स्थाने “मान” इति संस्थाप्य ततः आवश्यकं चेत् णत्वं कृत्वा शानच्-प्रत्ययान्तप्रातिपदिकं सिद्ध्यति । लप्स्यते → लप्स्यमान । करिष्यते → करिष्यमाण । वन्दिष्यते → वन्दिष्यमाण । दास्यते → दास्यमान । शतृ/शानच्-प्रत्ययाभ्यां प्रयोगेण द्वयोः वाक्ययोः एकत्रीकरणं सम्भवति । रामः पठिष्यति, तं माता पश्यति → पठिष्यन्तं रामं माता पश्यति । ब्राह्मणः याचिष्यते, तस्मै राजा धनं ददाति → याचिष्यमाणाय ब्राह्मणाय राजा धनं ददाति ।

प्रथमासामानाधिकरण्ये

“३.२.१२४ लटः शतृशानचावप्रथमासमानाधिकरणे” — लट्-लकारस्य आदेशरूपेण परस्मैपदसंज्ञकः शतृ-प्रत्ययः, आत्मनेपदसंज्ञकः शानच्-प्रत्ययः विधीयते । सूत्रकारस्य मतेन एतौ प्रत्ययौ प्रथमाभिन्नस्थले एव भवतः । यथा —

पचतः पचमानस्य वा बालस्य नाम रामः इति । पचन्तं पचमानं वा रामम् अहं पश्यामि । पचता पचमानेन बालेन सह माता वदति ।

परन्तु “पचन् पचमानः वा रामः गच्छति” इति सूत्रकारस्य मतेन अनुचितम् ।

परन्तु भाष्यकारः अत्र प्रथमासामानाधिकरण्यम् (इत्युक्ते, प्रथमाविशिष्टं प्रयोगम्) अपि अनुमन्यते — प्रथमासमानाधिकरणे पचन् पचतीति पचमानः पचते इति ।

एवमेव काशिकाकारः —‌ “क्वचित् प्रथमासमानाधिकरणेऽपि भवति” ।

सिद्धान्तकौमुद्याम् — “लडित्यनुवर्तमाने पुनर्लड्ग्रहणमधिकविधानार्थम् । तेन प्रथमासामानाधिकरण्येऽपि क्वचित् ।”

अतः “देवदत्तः पचन् पचमानः वा गच्छति” इत्येताः प्रयोगाः अवश्यं उचिताः । वस्तुतस्तु प्रथमासमानाधिकरणस्य उदाहरणानि प्राचुर्येण एव दृश्यन्ते । अतएव — इदं क्वाचित्कम् इति कोऽसम्मूढः प्रतीयात्‌ — इति चारुदेवशास्त्रिणः ।

भविष्यति प्रयुक्तयोः शतृ-शानच्-प्रत्यययोः अपि प्रथमासामानाधिकरण्ये प्रयोगः सम्भवति, यथा, “करिष्यन्, करिष्यमाणः वा देवदत्तः” ।

उदाहरणानि

  • पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् — भगवद्गीता ५.८
  • कुर्वन्नेवेह कर्माणि जिजीवशेच्छतं समाः — यजुर्वेदः ४०.२
  • जानन्नपि हि मेधावी जडवल्लोक आचरेत् —‌ मनुस्मृतिः २.११०
  • प्रयुञ्जान एव खलु भवानाह — महाभाष्यम्
  • लोलहेतिरसनाशतप्रमामण्डलेन लसता हसन्निव —‌शिशुपालवधः १४.२५
  • प्रवहति पवमानः स्पन्दयन् मन्दमन्दम् — यादवाभ्युदयम् १९.७७
  • प्रायो भृत्यास्त्यजन्ति…स्वामिनं सेवमानाः — मुद्राराक्षसम् ४.२२
  • अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति — सुभाषितम् ।
  • शतृ-शानच्-प्रत्यययोः प्रथमासामानाधिकरण्ये प्रयोगः साधु एव इति आशयः ।

कर्मणि शानच्

कर्मणि प्रयोगे कर्मपदस्य निर्देशः शानच्-प्रत्ययेन सह कर्तुं शक्यते ।

  • रामेण ग्रन्थः पठ्यते → रामेण ग्रन्थः पठ्यमानः अस्ति ।
  • बालकेन व्याकरणम् अधीयते → बालकेन व्याकरणम् अधीयमानम् अस्ति ।
  • रामेण यः ग्रन्थः पठ्यते तस्य नाम रामायणम् → रामेण पठ्यमानस्य ग्रन्थस्य नाम रामायणम् ।
  • बालकेन ये अपूपाः भक्ष्यन्ते तेषु लवणं नास्ति → बालकेन भक्ष्यमाणेषु अपूपेषु लवणं नास्ति ।
  • कृष्णेन यः रथः चाल्यते तस्मात् अर्जुनः निर्गच्छति → कृष्णेन चाल्यमानात् रथात् अर्जुनः निर्गच्छति ।

करण/सम्प्रदान/अपादान/अधिकरणस्य निर्देशार्थम् शानच्-प्रत्ययः न प्रयुज्यते ।

  • जनैः भाषया व्यवह्रियते → जनैः व्यवह्रियमाणा भाषा । (दोषः)
  • राज्ञा ब्राह्मणाय दीयते → राज्ञा दीयमानः ब्राह्मणः । (दोषः)
  • बालकेन पशोः भीयते → बालकेन भीयमानः पशुः । (दोषः)
  • आचार्येण विद्यालये पाठ्यते → आचार्येण पाठ्यमानः विद्यालयः । (दोषः)

शतृ-प्रत्ययान्तशब्दानां नुमागमः

पुंलिङ्गे

पुंलिङ्गे शतृ-प्रत्ययान्तं प्रातिपदिकं नित्यं तकारान्तम् एव वर्तते । प्रातिपदिकनिर्माणसमये नुमागमः नैव भवति । यथा, गम् + शतृ → गच्छत् ।

वर्तमानकालस्य तथा च भविष्यत्कालस्य अपि शतृ-प्रत्ययान्तशब्दानां पुंलिङ्गे प्रथमा-एकवचनात् आरभ्य द्वितीया-द्विवचनं यावत्सु विभक्तिषु “७.१.७० उगिदचां सर्वनामस्थानेऽधातोः” इति सूत्रेण नुमागमः भवति । सम्बोधने अपि प्रथमाविभक्तेः एव प्रत्ययाः सन्ति अतः सम्बोधने अपि नुमागमः भवति ।

  • गच्छन् गच्छन्तौ गच्छन्तः । गच्छन्तम् गच्छन्तौ गच्छतः । हे गच्छन्, हे गच्छन्तौ, हे गच्छन्तः ।
  • कुर्वन् कुर्वन्तौ कुर्वन्तः । कुर्वन्तम् कुर्वन्तौ कुर्वतः । हे कुर्वन्, हे कुर्वन्तौ, हे कुर्वन्तः ।
  • पठिष्यन् पठिष्यन्तौ पठिष्यन्तः । पठिष्यन्तम् पठिष्यन्तौ पठिष्यतः । हे पठिष्यन्, हे पठिष्यन्तौ, हे पठिष्यन्तः ।
  • दास्यन् दास्यन्तौ दास्यन्तः । दास्यन्तम् दास्यन्तौ दास्यतः । हे दास्यन्, हे दास्यन्तौ, हे दास्यन्तः ।

अभ्यस्त-संज्ञकानां वर्तमान-कालस्य शतृ-प्रत्ययान्त-रूपेषु नुमागमः न भवति ।

अपवादः

तृतीयगणस्य धातूनां द्वित्वे कृते तेषाम् “६.१.५‌ उभे अभ्यस्तम्” इति अभ्यस्तसंज्ञा भवति । तथा च जक्षित्यादिगणे विद्यमानानां सप्तानां धातूनां “६.१.६ जक्षित्यादयः षट्” इति अभ्यस्तसंज्ञा भवति ।

अभ्यस्यसंज्ञकेभ्यः धातुभ्यः वर्तमानकालस्य शतृप्रत्ययान्तरूपेषु प्राप्तः नुमागमः “७.१.७८ नाभ्यस्ताच्छतुः‌” इति निषिध्यते ।

  • ददत्, ददतौ, ददतः, ददतम्, ददतौ, ददतः ।
  • बिभ्यत्, बिभ्यतौ, बिभ्यतः, बिभ्यतम् बिभ्यतौ बिभ्यतः ।
  • जाग्रत्, जाग्रतौ, जाग्रतः, जाग्रतम्, जाग्रतौ, जाग्रतः ।
  • जक्षत्, जक्षतौ, जक्षतः, जक्षतम्, जक्षतौ, जक्षतः ।
  • दरिद्रत्, दरिद्रतौ, दरिद्रतः, दरिद्रम्, दरिद्रतौ, दरिद्रतः ।

स्त्रीलिङ्गे

शतृ-प्रत्ययान्तशब्देभ्यः स्त्रीत्वं द्योतयितुं “ङीप्” इति स्त्रीप्रत्ययः विधीयते । अग्रे नदीशब्दसदृशानि रूपाणि भवन्ति ।

लृटि

लृट्-लकारस्य आदेशरूपेण विहितः यः शतृप्रत्ययः, तदन्तेभ्यः शब्देभ्यः ङीप्-प्रत्ययविधानसमये “७.१.८० आच्छीनद्योर्नुम्” इत्यनेन विकल्पेन नुमागमः भवति । अतः प्रातिपदिके, सर्वेषु च रूपेषु विकल्पेनैव नकारः श्रूयते ।

  • भू +लृट् → भू + शतृ → भविष्यत् → भविष्यत् + ङीप् → भविष्यन्ती / भविष्यती । भविष्यन्ती, भविष्यन्त्यौ, भविष्यन्त्यः । पक्षे — भविष्यती, भविष्यत्यौ, भविष्यत्यः ।
  • दा + लृट् → दा + शतृ → दास्यत् → दास्यत् + ङीप् →‌ दास्यन्ती / दास्यती । दास्यन्ती, दास्यन्त्यौ, दास्यन्त्यः । पक्षे — दास्यती, दास्यत्यौ, दास्यत्यः ।

लटि

शप्श्यनोर् नित्यम्

यत्र शतृ-प्रत्ययात् पूर्वम् शप्/श्यन् विकरणप्रत्ययः विद्यते, तत्र ङीप्-प्रत्ययविधानसमये “७.१.८१ शप्श्यनोर्नित्यम्” इत्यनेन प्रातिपदिकनिर्माणसमये एव नित्यं नुमागमः भवति । अतः प्रातिपदिके, सर्वेषु च रूपेषु नकारः श्रूयते ।

  • शप्-प्रत्ययान्तः ‘पठत्’ शब्दः — पठत् + ङीप् → पठन्ती । पठन्ती, पठन्त्यौ, पठन्त्यः … ।
  • श्यन्-प्रत्ययान्तः ‘नृत्यत्’ शब्दः — नृत्यत् + ङीप् → नृत्यन्ती । नृत्यन्ती, नृत्यन्त्यौ, नृत्यन्त्यः … ।
  • शप्-प्रत्ययान्तः ‘चोरयत्’ शब्दः — चोरयत् + ङीप् → चोरयन्ती । चोरयन्ती, चोरयन्त्यौ, चोरयन्तः … ।
  • शप्-प्रत्ययान्तः ‘पाठयत्’ शब्दः — पाठयत् + ङीप् → पाठयन्ती । पाठयन्ती, पाठयन्त्यौ, पाठयन्त्यः … ।
  • शप्-प्रत्ययान्तः ‘दापयत्’ शब्दः — दापयत् + ङीप् → दापयन्ती । दापयन्ती, दापयन्त्यौ, दापयन्त्यः … ।
  • श्यन्-प्रत्ययान्तः ‘क्राम्यत्’ शब्दः — क्राम्यत् + ङीप् → क्राम्यन्ती । क्राम्यन्ती, क्राम्यन्त्यौ, क्राम्यन्त्यः … ।
षष्ठगणीयेभ्यः विकल्पेन

षष्ठगणस्य धातुभ्यः निर्मिताः ये शत्रन्तशब्दाः, तेभ्यः ङीप्-प्रत्ययविधानसमये “७.१.८० आच्छीनद्योर्नुम्” इत्यनेन प्रातिपदिकनिर्माणसमये विकल्पेन नुमागमः भवति ।

लिख् + शतृ → लिखत् । लिखत् + ङीप् → लिखन्ती / लिखती । लिखन्ती, लिखन्त्यौ, लिखन्त्यः । पक्षे — लिखती, लिखत्यौ, लिखत्यः ।

तुद् + शतृ → तुदत् । तुदत् + ङीप् → तुदन्ती / तुदती । तुदन्ती, तुदन्त्यौ, तुदन्त्यः । पक्षे — तुदती, तुदत्यौ, तुदत्यः ।

द्वितीयगणय् आद् विकल्पेन

द्वितीयगणस्य आकारान्तधातभ्यः निर्मिताः ये शत्रन्तशब्दाः, तेभ्यः ङीप्-प्रत्ययविधानसमये “७.१.८० आच्छीनद्योर्नुम्” इत्यनेन प्रातिपदिकनिर्माणसमये विकल्पेन नुमागमः भवति ।

या + शतृ → यात् । यात् + ङीप् → यान्ती / याती । यान्ती, यान्त्यौ, यान्त्यः । पक्षे — याती, यात्यौ, यात्यः ।

स्ना + शतृ → स्नात् । स्नात् + ङीप् → स्नान्ती / स्नाती । स्नान्ती, स्नान्त्यौ, स्नान्त्यः । पक्षे — स्नाती, स्नात्यौ, स्नात्यः ।

अवशिष्टेषु

अवशिष्टेभ्यः धातुभ्यः निर्मिताः ये शत्रन्तशब्दाः, तेभ्यः ङीप्-प्रत्ययविधानसमये नुमागमः नैव भवति ।

द्वितीयगणस्य आकारान्तभिन्नाः धातवः । यथा‌, ब्रू + शतृ → ब्रुवत् । ब्रुवत् + ङीप् → ब्रुवती । ब्रुवती, ब्रुवत्यौ, ब्रुवत्यः ।

तृतीयगणस्य धातवः । यथा, दा + शतृ → ददत् । ददत् + ङीप् → ददती । ददती, ददत्यौ, ददत्यः ।

पञ्चमगणस्य धातवः । यथा, आप् + शतृ → आप्नुवत् । आप्नुवत् + ङीप् → आप्नुवती । आप्नुवती, आप्नुवत्यौ, आप्नुवत्यः ।

सप्तमगणस्य धातवः । यथा, रुध् + शतृ → रुन्धत् । रुन्धत् + ङीप् → रुन्धती । रुन्धती, रुन्धत्यौ, रुन्धत्यः ।

अष्टमगणस्य धातवः । यथा, कृ + शतृ → कुर्वत् । कुर्वत् + ङीप् → कुर्वती । कुर्वती, कुर्वत्यौ, कुर्वत्यः ।

नवमगणस्य धातवः । यथा, ज्ञा + शतृ →‌ जानत् । जानत् + ङीप् →‌ जानती । जानती, जानत्यौ, जानत्यः ।