०१

प्राक् क्रीताच्छः॥ ५.१.१॥

‘तेन क्रीतम्’ (५.१.३७) इति वक्ष्यति। प्रागेतस्मात् क्रीतसंशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामः, छप्रत्ययस्तेष्वधिकृतो वेदितव्यः। वक्ष्यति-‘तस्मै हितम्’ (५.१.५) इति। वत्सेभ्यो हितो वत्सीयो गोधुक्। करभीय उष्ट्रः। अकरभीयः। अवत्सीयः। अर्थोऽवधित्वेन गृहीतः, न प्रत्ययः। तेन प्राक् ठञः छ इति नोक्तम्॥

उगवादिभ्यो यत्॥ ५.१.२॥

प्राक् क्रीतादित्येव। उवर्णान्तात् प्रातिपदिकाद् गवादिभ्यश्च यत् प्रत्ययो भवति। प्राक्क्रीतीयेष्वर्थेषु। छस्यापवादः। शङ्कव्यं दारु। पिचव्यः कार्पासः। कमण्डलव्या मृत्तिका। गवादिभ्यःखल्वपि-गव्यम्। हविष्यम्। सनङ्गुर्नाम चर्मविकारः। ततः परत्वात् ‘चर्मणोऽञ्’(५.१.१५) इत्येष विधिः प्राप्नोति। तथा चरुर्नाम हविः, सक्तुरन्नविकारः। अपूपादिषु ‘अन्नविकारेभ्यश्च’(ग०सू०१११) इति पठ्यते। ततो ‘विभाषा हविरपूपादिभ्यः’ (५.१.४) इत्येष विधिः प्राप्नोति। तत्र सर्वत्र पूर्वविप्रतिषेधेन यत् प्रत्यय एवेष्यते-सनङ्गव्यं चर्म, चरव्यास्तण्डुलाः, सक्तव्या धाना इति। गवादिषु ‘नाभि नभं च’ (ग०सू०१०८) इति पठ्यते। तस्यायमर्थः-नाभिशब्दो यत्प्रत्ययमुत्पादयति, नभं चादेशमापद्यत इति। नाभये हितो नभ्योऽक्षः। नभ्यमञ्जनम्। यस्तु शरीरावयवो नाभिशब्दः, ततः ‘शरीरावयवाद् यत्’ (५.१.६) इति यति कृते नाभये हितं नाभ्यं तैलमिति भवितव्यम्। गवादिषु यता सन्नियुक्तो नभभावोऽत्र न भवति ॥ गो। हविस्। बर्हिष्। खट। अष्टका। युग। मेधा। स्रक्। नाभि नभं च (ग०सू०१०८)। शुनः संप्रसारणं वा च दीर्घत्वं तत्सन्नियोगेन चान्तोदात्तत्वम् (ग०सू०१०९)- शुन्यम्, शून्यम्। चकारस्यानुक्तसमुच्चयार्थत्वाद् ‘नस्तद्धिते’ (६.४.१४४) इति लोपो न स्यात्। ऊधसोऽनङ् च (ग०सू०११०)- ऊधन्यः। कूप। उदर। खर। स्खद। अक्षर। विष। गवादिः॥

कम्बलाच्च संज्ञायाम्॥ ५.१.३॥

कम्बलात् प्राक्क्रीतीयेष्वर्थेषु यत् प्रत्ययो भवति संज्ञायां विषये। छस्यापवादः। कम्बल्यमूर्णापलशतम्। संज्ञायामिति किम् ? कम्बलीया ऊर्णा॥

** विभाषा हविरपूपादिभ्यः॥ ५.१.४॥**

हविर्विशेषवाचिभ्योऽपूपादिभ्यश्च प्रातिपदिकेभ्यः प्राक्क्रीतीयेष्वर्थेषु विभाषा यत् प्रत्ययो भवति। आमिक्ष्यं दधि, आमिक्षीयं दधि। पुरोडाश्यास्तण्डुलाः, पुरोडाशीयाः। हविश्शब्दात्तु गवादिपाठाद् नित्यमेव भवति। अपूपादिभ्यः- अपूप्यम्, अपूपीयम्। तण्डुल्यम्, तण्डुलीयम्॥ अपूप। तण्डुल। अभ्यूष। अभ्योष। पृथुक। अभ्येष। अर्गल। मुसल। सूप। कटक। कर्णवेष्टक। किण्व। अन्नविकारेभ्यश्च (ग०सू०१११)। पूप। स्थूणा। पीप। अश्व। पत्र। अपूपादिः॥

तस्मै हितम्॥ ५.१.५॥

तस्मा इति चतुर्थीसमर्थाद् हितमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। वत्सेभ्यो हितो गोधुक् वत्सीयः। अवत्सीयः। पटव्यम्। गव्यम्। हविष्यम्। अपूप्यम्, अपूपीयम्॥

शरीरावयवाद् यत्॥ ५.१.६॥

शरीरं प्राणिकायः। शरीरावयववाचिनः प्रातिपदिकाद् यत् प्रत्ययो भवति तस्मै हितमित्येतस्मिन् विषये। छस्यापवादः। दन्त्यम्। कण्ठ्यम्। ओष्ठ्यम्। नाभ्यम्। नस्यम्॥

खलयवमाषतिलवृषब्रह्मणश्च॥ ५.१.७॥

खलादिभ्यो यत् प्रत्ययो भवति तस्मै हितमित्येतस्मिन् विषये। छस्यापवादः। खलाय हितं खल्यम्। यव्यम्। माष्यम्। तिल्यम्। वृष्यम्। ब्रह्मण्यम्। वृष्णे हितम्, ब्राह्मणेभ्यो हितमिति वाक्यमेव भवति। छप्रत्ययोऽपि न भवति, अनभिधानात्। चकारोऽनुक्तसमुच्चयार्थः। रथाय हिता रथ्या॥

** अजाविभ्यां थ्यन्॥ ५.१.८॥**

अज अवि इत्येताभ्यां थ्यन् प्रत्ययो भवति तस्मै हितमित्येतस्मिन् विषये। छस्यापवादः। अजथ्या यूथिः। अविथ्या॥

आत्मन्विश्वजनभोगोत्तरपदात् खः॥ ५.१.९॥

आत्मन् विश्वजन इत्येताभ्यां भोगोत्तरपदात् च प्रातिपदिकात् खः प्रत्ययो भवति तस्मै हितमित्येतस्मिन् विषये। छस्यापवादः। आत्मन्निति नलोपो न कृतः प्रकृतिपरिमाणज्ञापनार्थम्। तेनोत्तरपदग्रहणं भोगशब्देनैव संबध्यते, न तु प्रत्येकम्। आत्मने हितम् आत्मनीनम् (पै०सं०५.११.८)। ‘आत्माध्वानौ खे’(६.४.१६९) इति प्रकृतिभावः। विश्वजनेभ्यो हितं विश्वजनीनम्। कर्मधारयादेवेष्यते। षष्ठीसमासाद् बहुव्रीहेश्च छ एव भवति। विश्वजनाय हितं विश्वजनीयम्॥ पञ्चजनादुपसंख्यानम्॥ पञ्चजनात् च खः। अत्रापि कर्मधारयादिष्यते। पञ्चजनीनम्। अन्यत्र पञ्चजनीयम्॥ सर्वजनाट् ठञ् खश्च॥ सार्वजनिकम्, सर्वजनीनम्। अत्रापि कर्मधारयादेव- सर्वजनीयमन्यत्र॥ महाजनाद् नित्यं ठञ् वक्तव्यः॥ महाजनाय हितं माहाजनिकम्। तत्पुरुषादेव। बहुव्रीहेस्तु छ एव भवति। महाजनीयम्। भोगोत्तरपदात् खल्वपि-मातृभोगीणः। पितृभोगीणः। भोगशब्दः शरीरवाची। केवलेभ्यो मात्रादिभ्यश्छ एव भवति। मात्रीयम्। पित्रीयम्॥ राजाचार्याभ्यां तु नित्यम्॥ भोगोत्तरपदाभ्यामेव खः प्रत्यय इष्यते, न केवलाभ्याम्। राजभोगीनः॥ आचार्यादणत्वं च॥ आचार्यभोगीनः। केवलाभ्यां वाक्यमेव भवति-राज्ञे हितम्, आचार्याय हितमिति॥

सर्वपुरुषाभ्यां णढञौ॥ ५.१.१०॥

सर्वपुरुषाभ्यां यथासंख्यं णढञौ प्रत्ययौ भवतः तस्मै हितमित्येतस्मिन् विषये। छस्यापवादः। सर्वस्मै हितं सार्वम्। पौरुषेयम्॥ सर्वाद् णस्य वा वचनम्॥ सर्वीयम्॥ पुरुषाद् वधविकारसमूहतेनकृतेष्विति वक्तव्यम्॥ पौरुषेयो वधः, पौरुषेयो विकारः, पौरुषेयः समूहो वा। तेन कृते-पौरुषेयो ग्रन्थः॥

माणवचरकाभ्यां खञ्॥ ५.१.११॥

माणवचरकशब्दाभ्यां खञ् प्रत्ययो भवति तस्मै हितमित्येतस्मिन् विषये। छस्यापवादः। माणवाय हितं माणवीनम्। चारकीणम्॥

तदर्थं विकृतेः प्रकृतौ॥ ५.१.१२॥

प्रकृतिरुपादानकारणम्, तस्यैव उत्तरमवस्थान्तरं विकृतिः। विकृतिवाचिनः प्रातिपदिकात् प्रकृतावभिधेयायां यथाविहितं प्रत्ययो भवति। तदर्थमिति प्रत्ययार्थविशेषणम्। तदिति सर्वनाम्ना विकृतिः परामृश्यते। विकृत्यर्थायां प्रकृतौ प्रत्ययः। तदर्थग्रहणेन प्रकृतेरनन्यार्थताख्यायते। न प्रकृतिविकारसंभवमात्रे प्रत्ययः। किं तर्हि? प्रकृतेरनन्यार्थत्वे विवक्षिते। प्रत्ययार्थस्य च तदर्थत्वे सति सामर्थ्याल् लभ्या चतुर्थी समर्थविभक्तिः। केचित् तु ‘तस्मै हितम्’ (५.१.५) इत्यनुवर्तयन्ति। अङ्गारेभ्यो हितान्येतानि काष्ठानि अङ्गारीयाणि काष्ठानि। प्राकारीया इष्टकाः। शङ्कव्यं दारु। पिचव्यः कार्पासः। तदर्थमिति किम्? यवानां धानाः। धानानां सक्तवः। प्रकृत्यन्तरनिवृत्तिरत्र विवक्षिता न तादर्थ्यम्- धानानां सक्तवः, न लाजानामिति। विकृतेरिति किम्? उदकार्थः कूपः। विकृतिग्रहणेऽक्रियमाणे या काचित् प्रकृतिर्गृह्यते, नोपादानकारणमेव। भवति च कूप उदकस्य प्रकृतिः, तत्रोत्पादनात्। न तूदकं तस्य विकृतिः, अत्यन्तभेदात्। प्रकृताविति किम् ? अस्यर्था कोशी। असिरयसो विकृतिर्भवति, न तु कोशी तस्य प्रकृतिर्भवति। द्वयोरपि प्रकृतिविकृत्योर्ग्रहणे विवक्षितः प्रकृतिविकारभावो लभ्यते॥

छदिरुपधिबलेर्ढञ्॥ ५.१.१३॥

छदिरादिभ्यः शब्देभ्यो ढञ् प्रत्ययो भवति तदर्थं विकृतेः प्रकृतावित्येतस्मिन् विषये। छस्यापवादः। छादिषेयाणि तृणानि। औपधेयं दारु। बालेयास्तण्डुलाः। उपधिशब्दात् स्वार्थे प्रत्ययः। उपधीयत इत्युपधिः रथाङ्गम्। औपधेयमपि तदेव दारु॥

ऋषभोपानहोर्ञ्यः ॥ ५.१.१४॥

ऋषभ उपानह् इत्येताभ्यां ञ्यः प्रत्ययो भवति तदर्थं विकृतेः प्रकृतावित्येतस्मिन् विषये। छस्यापवादः। आर्ष््भ्यो वत्सः। औपानह्यो मुञ्जः। चर्मण्यपि प्रकृतित्वेन विवक्षिते पूर्वविप्रतिषेधादयमेवेष्यते। औपानह्यं चर्म॥

चर्मणोऽञ्॥ ५.१.१५॥

चर्मण इति षष्ठी । चर्मणो या विकृतिः तद्वाचिनः प्रातिपदिकादञ् प्रत्ययो भवति तदर्थं विकृतेः प्रकृतावित्येतस्मिन् विषये। छस्यापवादः। वार्ध्रं चर्म। वारत्रं चर्म ॥

तदस्य तदस्मिन् स्यादिति॥ ५.१.१६॥

तदिति प्रथमा समर्थविभक्तिः, अस्येति प्रत्ययार्थः, स्यादिति प्रकृतिविशेषणम्। इतिकरणो विवक्षार्थः। एवं द्वितीयेऽपि वाक्ये। सप्तम्यर्थे तु प्रत्यय इत्येतावान् विशेषः। प्रथमासमर्थात् षष्ठ्यर्थे सप्तम्यर्थे च यथाविहितं प्रत्ययो भवति, यत् तत् प्रथमासमर्थं स्यात् चेत् तद् भवति। इतिकरणस्ततश्चेद् विवक्षा। प्राकार आसामिष्टकानां स्यात् प्राकारीया इष्टकाः। प्रासादीयं दारु। सप्तम्यर्थे खल्वपि-प्राकारोऽस्मिन् देशे स्यात् प्राकारीयो देशः। प्रासादीया भूमिः। स्यादिति संभावनायां लिङ् ‘संभावनेऽलमिति चेद्० ‘ (३.३.१५४) इत्यादिना । इष्टकानां बहुत्वेन तत् संभाव्यते-प्राकार आसामिष्टकानां स्यादिति। देशस्य च गुणेन संभाव्यते-प्रासादोऽस्मिन् देशे स्यादिति। प्रकृतिविकारभावस्तादर्थ्यं चेह न विवक्षितम्। किं तर्हि ? योग्यतामात्रम्। तेन पूर्वस्यायमविषयः। द्विस्तद्ग्रहणं न्यायप्रदर्शनार्थम्-अनेकस्मिन् प्रत्ययार्थे प्रत्येकं समर्थविभक्तिः संबन्धनीयेति। अथेह कस्माद् न भवति-प्रासादो देवदत्तस्य स्यादिति, गुणवानयम्, संभाव्यते प्रासादलाभोऽस्येति ? इतिकरणो विवक्षार्थ इत्युक्तम्॥

परिखाया ढञ्॥ ५.१.१७॥

परिखाशब्दाद् ढञ् प्रत्ययो भवति तदस्य तदस्मिन् स्यादित्येतस्मिन् अर्थे । छस्यापवादः पारिखेयी भूमिः। छयतोः पूर्णोऽवधिः। इतः परमन्यः प्रत्ययो विधीयते॥

प्राग्वतेष्ठञ्॥ ५.१.१८॥

‘तेन तुल्यं क्रिया चेद् वतिः’ (५.१.११५) इति वक्ष्यति। प्रागेतस्माद् वतिसंशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामः, ठञ् प्रत्ययस्तेष्वधिकृतो वेदितव्यः। वक्ष्यति-‘पारायणतुरायणचान्द्रायणं वर्तयति’ (५.१.७२)- पारायणिकः। तौरायणिकः। चान्द्रायणिकः॥

आर्हादगोपुच्छसंख्यापरिमाणाट् ठक् ॥ ५.१.१९॥

‘तदर्हति’ (५.१.६३) इति वक्ष्यति। आ एतस्मादर्हसंशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामः, ठक् प्रत्ययस्तेष्वधिकृतो वेदितव्यो गोपुच्छादीन् वर्जयित्वा। अभिविधावयमाकारः, तेनार्हत्यर्थेऽपि ठग् भवत्येव। ठञधिकारमध्ये तदपवादः ठग् विधीयते। वक्ष्यति-‘तेन क्रीतम्’ (५.१.३७)-नैष्किकम्। पाणिकम्। अगोपुच्छसंख्यापरिमाणादिति किम्? गोपुच्छेन क्रीतं गौपुच्छिकम्। संख्या-षाष्टिकम्। परिमाण-प्रास्थिकम्। कौडविकम्। ठञ् प्रत्युदाह्रियते। संख्यापरिमाणयोः को विशेषः? भेदगणनं संख्या एकत्वादिः। गुरुत्वमानमुन्मानं पलादि। आयाममानं प्रमाणं वितस्त्यादि। आरोहपरिणाहमानं परिमाणं प्रस्थादि ।

ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः।

आयामस्तु प्रमाणं स्यात् संख्या बाह्या तु सर्वतः॥

असमासे निष्कादिभ्यः॥ ५.१.२०॥

आर्हादित्येव। निष्कादिभ्यः शब्देभ्योऽसमासे ठक् प्रत्ययो भवत्यार्हीयेष्वर्थेषु। ठञोऽपवादः। नैष्किकम्। पाणिकम्। पादिकम्। माषिकम्। असमास इति किम्? द्विनैष्किकम्। त्रिनैष्किकम्। ठञेव भवति,‘परिमाणान्तस्या०’(७.३.१७)इत्युत्तरपदवृद्धिः। अथ किमर्थमसमास इत्युच्यते, यावता ‘ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते’? निष्कादिष्वसमासग्रहणं ज्ञापकं पूर्वत्र तदन्ताप्रतिषेधस्य। ‘उगवादिभ्यो यत्’ (५.१.२)-गव्यम्। सुगव्यम्। अतिसुगव्यम्। ‘विभाषा हविरपूपादिभ्यः’ (५.१.४)- अपूप्यम्, अपूपीयम्। यवापूप्यम्, यवापूपीयम्। ‘शरीरावयवाद् यत्’ (५.१.६)-दन्त्यम्, राजदन्त्यमित्येवमादि सिद्धं भवति। इत उत्तरं च संख्यापूर्वपदानां तदन्तविधिरिष्यते। ‘पारायणतुरायणचान्द्रायणं वर्तयति’ (५.१.७२)- द्वैपारायणिकः। त्रैपारायणिकः। लुगन्तायास्तु प्रकृतेर्नेष्यते। द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम्। त्रिशूर्पम्। द्विशूर्पेण क्रीतमिति तदन्तविधिप्रतिषेधात् ‘शूर्पादञन्यतरस्याम्’ (५.१.२६) इत्यञ् न भवति। सामान्यविहितष्ठञेव भवति। द्विशौर्पिकम्। ठञो द्विगुं प्रत्यनिमित्तत्वाद् लुगभावः। तथा चोक्तम्-‘प्राग् वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि’ (महाभाष्य-वा० ५.१.२०) इति॥ निष्क। पण। पाद। माष। वाह। द्रोण। षष्टि। निष्कादिः ॥

शताच्च ठन्यतावशते॥ ५.१.२१॥

आर्हादित्येव। शतशब्दात् ठन्यतौ प्रत्ययौ भवतोऽशतेऽभिधेय आर्हीयेष्वर्थेषु। कनोऽपवादः। शतेन क्रीतं शतिकम्। शत्यम्। अशत इति किम्? शतं परिमाणमस्य शतकं निदानम्। प्रत्ययार्थोऽत्र संघः शतमेव वस्तुतः प्रकृत्यर्थाद् न भिद्यते। इह तु न भवति-शतेन क्रीतं शत्यं शाटकशतम्, शतिकं शाटकशतमिति । वाक्येन ह्यत्र प्रत्ययार्थस्य तत्त्वं गम्यते, न श्रुत्या। तथा चोक्तम्-‘शतप्रतिषेधेऽन्यशतत्वेऽप्रतिषेधः’ (महाभाष्य-वा० ५.१.२१) इति। चकारोऽसमास इत्यनुकर्षणार्थः। द्वौ च शतं च द्विशतम्, द्विशतेन क्रीतं द्विशतकम्। त्रिशतकम्। ‘प्राग् वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि’ (महाभाष्य-वा० ५.१.२०) इत्यनया इष्ट्या समासादपि प्राप्नोति॥

संख्याया अतिशदन्तायाः कन्॥ ५.१.२२॥

आर्हादित्येव। संख्याया अत्यन्ताया अशदन्तायाश्च कन् प्रत्ययो भवत्यार्हीयेष्वर्थेषु। ठञोऽपवादः। पञ्चभिः क्रीतः पञ्चकः पटः। बहुकः। गणकः। अतिशदन्ताया इति किम्? साप्ततिकः। चात्वारिंशत्कः। अर्थवतस्तिशब्दस्य ग्रहणाद् डतेः पर्युदासो न भवति। कतिकः॥

वतोरिड् वा॥ ५.१.२३॥

वत्वन्तस्य संख्यात्वात् कन् सिद्ध एव, तस्य त्वनेन वा इडागमो विधीयते। वतोः परस्य कनो वा इडागमो भवत्यार्हीयेष्वर्थेषु। तावतिकः, तावत्कः। यावतिकः, यावत्कः॥

विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्॥ ५.१.२४॥

विंशतित्रिंशद्भ्यां ड्वुन् प्रत्ययो भवत्यसंज्ञायां विषय आर्हीयेष्वर्थेषु । विंशकः। त्रिंशकः। ‘ति विंशतेर्डिति’ (६.४.१४२) इति तिलोपः। असंज्ञायामिति किम् ? विंशतिकः। त्रिंशत्कः। कथं पुनरत्र कन्, यावता अतिशदन्ताया इति पर्युदासेन भवितव्यम् ? योगविभागः करिष्यते-विंशतित्रिंशद्भ्यां कन् प्रत्ययो भवति, ततो ड्वुन्नसंज्ञायामिति ॥

कंसाट् टिठन्॥ ५.१.२५॥

कंसाट् टिठन् प्रत्ययो भवत्यार्हीयेष्वर्थेषु । ठञोऽपवादः। टकारो ङीबर्थः। इकार उच्चारणार्थः। नकारः स्वरार्थः। कंसिकः। कंसिकी॥ अर्धाच्चेति वक्तव्यम् ॥ अर्धिकः। अर्धिकी॥ कार्षापणाट् टिठन् वक्तव्यः॥ कार्षापणिकः। कार्षापणिकी॥ प्रतिशब्दश्चास्यादेशो वा वक्तव्यः॥ प्रतिकः। प्रतिकी॥

शूर्पादञन्यतरस्याम्॥ ५.१.२६॥

शूर्पशब्दादन्यतरस्यामञ् प्रत्ययो भवत्यार्हीयेष्वर्थेषु। ठञोऽपवादः। पक्षे सोऽपि भवति। शूर्पेण क्रीतं शौर्पम्, शौर्पिकम्॥

शतमानविंशतिकसहस्रवसनादण्॥ ५.१.२७॥

शतमानादिभ्यः शब्देभ्योऽण् प्रत्ययो भवत्यार्हीयेष्वर्थेषु । ठक् ठञोरपवादः। शतमानेन क्रीतं शातमानं शतम्। वैंशतिकम्। साहस्रम्। वासनम् ॥

अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्॥ ५.१.२८॥

आर्हादित्येव। अध्यर्धशब्दः पूर्वो यस्मिन् तस्मादध्यर्धपूर्वात् प्रातिपदिकाद् द्विगोश्च परस्यार्हीयस्य लुग् भवत्यसंज्ञायां विषये। अध्यर्धकंसम्। द्विकंसम्। त्रिकंसम्। अध्यर्धशूर्पम्। द्विशूर्पम्। त्रिशूर्पम्। असंज्ञायामिति किम् ? पाञ्चलोहितिकम्। पाञ्चकलापिकम्। लोहिनीशब्दस्य ‘भस्याढे तद्धिते०’ (वा० ६.३.३५) इति पुंवद्भावः। प्रत्ययान्तस्य विशेषणमसंज्ञाग्रहणम्, न चेत् प्रत्ययान्तं संज्ञेति। अध्यर्धशब्दः संख्यैव, किमर्थं भेदेनोपादीयते? ज्ञापकार्थम्, क्वचिदस्य संख्याकार्यं न भवति, ‘संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्’ (५.४.१७) इति॥

विभाषा कार्षापणसहस्राभ्याम्॥ ५.१.२९॥

अध्यर्धपूर्वाद् द्विगोश्च कार्षापणसहस्रान्तादुत्तरस्यार्हीयप्रत्ययस्य विभाषा लुग् भवति। पूर्वेण लुकि नित्ये प्राप्ते विकल्प्यते। अध्यर्धकार्षापणम्, अध्यर्धकार्षापणिकम्। द्विकार्षापणम्, द्विकार्षापणिकम् । औपसंख्यानिकस्य टिठनो लुक्। अलुक्पक्षे च प्रतिरादेशो विकल्पितः। अध्यर्धप्रतिकम्। द्विप्रतिकम्। त्रिप्रतिकम्। सहस्रात्-अध्यर्धसहस्रम्, अध्यर्धसाहस्रम्। द्विसहस्रम्, द्विसाहस्रम्। अलुक्पक्षे ‘संख्यायाः संवत्सरसंख्यस्य च’ (७.३.१५) इत्युत्तरपदवृद्धिः॥ सुवर्णशतमानयोरुपसंख्यानम्॥ अध्यर्धसुवर्णम्, अध्यर्धसौवर्णिकम्। द्विसुवर्णम्, द्विसौवर्णिकम्। अध्यर्धशतमानम्,अध्यर्धशातमानम्। द्विशतमानम्, द्विशातमानम्। ‘परिमाणान्तस्या०’ (७.३.१७) इत्युत्तरपदवृद्धिः॥

द्वित्रिपूर्वान्निष्कात्॥ ५.१.३०॥

द्विगोरित्येव। द्वित्रिपूर्वाद द्विगोर्निष्कान्तादार्हीयप्रत्ययस्य विभाषा लुग् भवति। द्विनिष्कम्, द्विनैष्किकम्। त्रिनिष्कम्, त्रिनैष्किकम्॥ बहुपूर्वाच्चेति वक्तव्यम्॥ बहुनिष्कम्, बहुनैष्किकम्। ‘परिमाणान्तस्या०’ (७.३.१७) इत्युत्तरपदवृद्धिः॥

बिस्ताच्च॥ ५.१.३१॥

द्वित्रिपूर्वादिति चकारेणानुकृ ष्यते। द्वित्रिपूर्वाद् बिस्तान्ताद् द्विगोः परस्यार्हीयप्रत्ययस्य विभाषा लुग् भवति। द्विबिस्तम्, द्विबैस्तिकम्। त्रिबिस्तम्। त्रिबैस्तिकम्। बहुबिस्तम् बहुबैस्तिकम् ॥

विंशतिकात् खः॥ ५.१.३२॥

अध्यर्धपूर्वात् प्रातिपदिकाद् द्विगोश्च विंशतिकशब्दान्तादार्हीयेष्वर्थेषु खः प्रत्ययो भवति। अध्यर्धविंशतिकीनम्। द्विविंशतिकीनम्। त्रिविंशतिकीनम्। विधानसामर्थ्यादस्य लुङ् न भवति॥

खार्या ईकन्॥ ५.१.३३॥

अध्यर्धपूर्वाद् द्विगोरित्येव। अध्यर्धपूर्वात् प्रातिपदिकाद् द्विगोश्च खारीशब्दान्तादार्हीयेष्वर्थेषु ईकन् प्रत्ययो भवति। अध्यर्धखारीकम्। द्विखारीकम्॥ केवलायाश्चेति वक्तव्यम्॥ खारीकम्॥ काकिण्याश्चोपसंख्यानम्॥ अध्यर्धकाकिणीकम्। द्विकाकिणीकम्। त्रिकाकिणीकम्॥ केवलायाश्च॥ काकिणीकम्॥

पणपादमाषशताद् यत्॥ ५.१.३४॥

अध्यर्धपूर्वाद् द्विगोरित्येव। अध्यर्धपूर्वाद् द्विगोश्च पणपादमाषशतशब्दान्तादार्हीयेष्वर्थेषु यत् प्रत्ययो भवति। अध्यर्धपण्यम्। द्विपण्यम्। त्रिपण्यम्। पाद-अध्यर्धपाद्यम्। द्विपाद्यम्। त्रिपाद्यम्। पद्भावो न भवति ‘पद्यत्यतदर्थे’ (६.३.५३) इति। प्राण्यङ्गस्य स इष्यते, इदं तु परिमाणम्। माष-अध्यर्धमाष्यम्। द्विमाष्यम्। त्रिमाष्यम्। शत-अध्यर्धशत्यम्। द्विशत्यम्। त्रिशत्यम्॥

शाणाद् वा॥ ५.१.३५॥

अध्यर्धपूर्वाद् द्विगोरित्येव। शाणशब्दादध्यर्धपूर्वाद् द्विगोरार्हीयेष्वर्थेषु वा यत् प्रत्ययो भवति। ठञोऽपवादः। पक्षे सोऽपि भवति, तस्य च लुक्। अध्यर्धशाण्यम्, अध्यर्धशाणम्। द्विशाण्यम्, द्विशाणम्। त्रिशाण्यम्, त्रिशाणम् ॥ शताच्चेति वक्तव्यम्॥ अध्यर्धशत्यम्, अध्यर्धशतम्। द्विशत्यम्, द्विशतम्। त्रिशत्यम्, त्रिशतम् ॥

द्वित्रिपूर्वादण् च॥ ५.१.३६॥

शाणाद्वेत्येव। द्वित्रिपूर्वात् शाणान्तात् प्रातिपदिकादार्हीयेष्वर्थेषु अण् प्रत्ययो भवति, चकाराद् यत् च वा। तेन त्रैरूप्यं संपद्यते। द्वैशाणम्, द्विशाण्यम्, द्विशाणम्। त्रैशाणम्, त्रिशाण्यम्, त्रिशाणम्। ‘परिमाणान्तस्यासंज्ञाशाणयोः’ (७.३.१७) इति पर्युदासादादिवृद्धिरेव भवति॥

तेन क्रीतम्॥ ५.१.३७॥

ठञादयस्त्रयोदश प्रत्ययाः प्रकृताः। तेषामितः प्रभृति समर्थविभक्तयः प्रत्ययार्थाश्च निर्दिश्यन्ते। तेनेति तृतीयासमर्थात् क्रीतमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। सप्तत्या क्रीतं साप्ततिकम्। आशीतिकम्। नैष्किकम्। पाणिकम्। पादिकम्। माषिकम्। शत्यम्। शतिकम्। द्विकम्। त्रिकम्। तेनेति मूल्यात् करणे तृतीया समर्थविभक्तिः। अन्यत्रानभिधानाद् न भवति देवदत्तेन क्रीतम्, पाणिना क्रीतमिति। द्विवचनबहुवचनान्तात् प्रत्ययो न भवति। प्रस्थाभ्यां क्रीतम्, प्रस्थैः क्रीतमिति, अनभिधानादेव। यत्र तु प्रकृत्यर्थस्य संख्याभेदावगमे प्रमाणमस्ति तत्र द्विवचनबहुवचनान्तादपि प्रत्ययो भवति। द्वाभ्यां क्रीतं द्विकम्। त्रिकम्। पञ्चकम्। तथा मुद्गैः क्रीतं मोद्गिकम्। माषिकम्। न ह्येकेन मुद्गेन क्रयः संभवति॥

तस्य निमित्तं संयोगोत्पातौ॥ ५.१.३८॥

तस्येति षष्ठीसमर्थाद् निमित्तमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यत् तद् निमित्तं संयोगश्चेत् स भवति, उत्पातो वा। संयोगः संबन्धः। प्राणिनां शुभाशुभसूचको महाभूतपरिणाम उत्पातः। शतस्य निमित्तं धनपतिना संयोगः शत्यः, शतिकः। साहस्रः। उत्पातः खल्वपि-शतस्य निमित्तमुत्पातो दक्षिणाक्षिस्पन्दनं शत्यम्, शतिकम्। साहस्रम् ॥ तस्य निमित्तप्रकरणे वातपित्तश्लेष्मभ्यः शमनकोपनयोरुपसंख्यानम्॥ वातस्य शमनं कोपनं वा वातिकम्॥ पैत्तिकम्। श्लैष्मिकम्॥ सन्निपाताच्चेति वक्तव्यम् ॥ सान्निपातिकम्॥

गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत् ॥ ५.१.३९॥

गोशब्दाद् द्व्यचश्च प्रातिपदिकात् संख्यापरिमाणाश्वादिविवर्जिताद् यत् प्रत्ययो भवति तस्य निमित्तं संयोगोत्पातावित्येतस्मिन्नर्थे। ठञादीनामपवादः। गोर्निमित्तं संयोग उत्पातो वा गव्यः। द्व्यचः खल्वपि-धन्यम्। स्वर्ग्यम्। यशस्यम्। आयुष्यम्। असंख्यापरिमाणाश्वादेरिति किम्? पञ्चानां निमित्तं पञ्चकम्। सप्तकम्। अष्टकम्। परिमाणप्रास्थिकम्। खारीकम्। अश्वादि-आश्विकः॥ ब्रह्मवर्चसादुपसंख्यानम्॥ ब्रह्मवर्चसस्य निमित्तं गुरुणा संयोगो ब्रह्मवर्चस्यम्॥ अश्व। अश्मन्। गण। ऊर्णा। उमा। वसु। वर्ष। भङ्ग। अश्वादिः॥

पुत्राच्छ च ॥ ५.१.४०॥

पुत्रशब्दात् छः प्रत्ययो भवति, चकाराद् यत् च, तस्य निमित्तं संयोगोत्पातावित्येतस्मिन् विषये। द्व्यच इति नित्ये यति प्राप्ते वचनम्। पुत्रस्य निमित्तं संयोग उत्पातो वा पुत्रीयम्, पुत्र्यम्॥

सर्वभूमिपृथिवीभ्यामणञौ ॥ ५.१.४१॥

सर्वभूमिपृथिवीशब्दाभ्यां यथासंख्यमणञौ प्रत्ययौ भवतः तस्य निमित्तं संयोगोत्पातावित्येतस्मिन् विषये। ठकोऽपवादौ। सर्वभूमेर्निमित्तं संयोग उत्पातो वा सार्वभौमः। पार्थिवः। सर्वभूमेरनुशतिकादिपाठाद् (७.३.२०) उभयपदवृद्धिः॥

तस्येश्वरः ॥ ५.१.४२॥

तस्येति षष्ठीसमर्थाभ्यां सर्वभूमिपृथिवीशब्दाभ्यां यथासंख्यम् अणञौ प्रत्ययौ भवत ईश्वर इत्येतस्मिन् विषये। सर्वभूमेरीश्वरः सार्वभौमः। पार्थिवः। षष्ठीप्रकरणे पुनः षष्ठीसमर्थविभक्तिनिर्देशः प्रत्ययार्थस्य निवृत्तये। अन्यथा संयोगोत्पाताविवेश्वरोऽपि प्रत्ययार्थस्य निमित्तस्य विशेषणं संभाव्येत॥

तत्र विदित इति च ॥ ५.१.४३॥

तत्रेति सप्तमीसमर्थाभ्यां सर्वभूमिपृथिवीशब्दाभ्यां यथासंख्यमणञौ प्रत्ययौ भवतो विदित इत्येतस्मिन्नर्थे । विदितो ज्ञातः प्रकाशित इत्यर्थः। सर्वभूमौ विदितः सार्वभौमः। पार्थिवः॥

लोकसर्वलोकाट् ठञ् ॥ ५.१.४४॥

लोकसर्वलोकशब्दाभ्यां तत्रेति सप्तमीसमर्थाभ्यां विदित इत्येतस्मिन् विषये ठञ् प्रत्ययो भवति। लोके विदितो लौकिकः। सार्वलौकिकः। अनुशतिकादित्वाद् (७.३.२०) उभयपदवृद्धिः

तस्य वापः ॥ ५.१.४५॥

तस्येति षष्ठीसमर्थाद् वाप इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। उप्यतेऽस्मिन् वापः, क्षेत्रमुच्यते। प्रस्थस्य वापः क्षेत्रं प्रास्थिकम्। द्रौणिकम्। खारीकम्॥

पात्रात् ष्ठन् ॥ ५.१.४६॥

पात्रशब्दात् ष्ठन् प्रत्ययो भवति तस्य वाप इत्येतस्मिन् विषये। ठञोऽपवादः। नकारः स्वरार्थः। षकारो ङीषर्थः। पात्रशब्दः परिमाणवाची। पात्रस्य वापः पात्रिकं क्षेत्रम्। पात्रिकी क्षेत्रभक्तिः॥

तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते ॥ ५.१.४७॥

तदिति प्रथमासमर्थादस्मिन्निति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति, यत् तत् प्रथमासमर्थं वृद्ध्यादि चेत् तद् दीयते। दीयत इत्येकवचनान्तं वृद्ध्यादिभिः प्रत्येकमभिसंबध्यते। तत्र यदधमर्णेनोत्तमर्णाय मूलधनातिरिक्तं देयं तद् वृद्धिः। ग्रामादिषु स्वामिग्राह्यो भाग आयः। पटादीनामुपादानमूलादतिरिक्तं द्रव्यं लाभः। रक्षानिर्वेशो राजभागः शुल्कः। उत्कोच उपदा। पञ्च अस्मिन् वृद्धिर्वा आयो वा लाभो वा शुल्को वा उपदा वा दीयते पञ्चकः। सप्तकः। शत्यः, शतिकः। साहस्रः॥ चतुर्थ्यर्थ उपसंख्यानम्॥ पञ्चास्मै वृद्धिर्वा आयो वा लोभो वा शुल्को वा उपदा वा दीयते पञ्चको देवदत्तः। सिद्धं त्वधिकरणत्वेन विवक्षितत्वात्। सममब्राह्मणे दानम् (मनु० ७.८५) इति यथा॥

पूरणार्धाट् ठन् ॥ ५.१.४८॥

पूरणवाचिनः शब्दादर्धशब्दात् च ठन् प्रत्ययो भवति तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयत इत्येतस्मिन्नर्थे। यथायथं ठक्टिठनोरपवादः। द्वितीयो वृद्ध्यादिरस्मिन् दीयते द्वितीयिकः। तृतीयिकः। पञ्चमिकः। सप्तमिकः। अर्धिकः। अर्धशब्दो रूपकार्धस्य रूढिः॥

भागाद् यच्च ॥ ५.१.४९॥

भागशब्दाद् यत् प्रत्ययो भवति, चकारात् ठंश्च, तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयत इत्येतस्मिन्नर्थे। ठञोऽपवादः। भागो वृद्ध्यादिरस्मिन् दीयते भाग्यम्, भागिकं शतम्। भाग्या, भागिका विंशतिः। भागशब्दोऽपि रूपकार्धस्य वाचकः॥

तद्धरति वहत्यावहति भाराद् वंशादिभ्यः ॥ ५.१.५०॥

तदिति द्वितीयासमर्थाद् हरत्यादिष्वर्थेषु यथाविहितं प्रत्ययो भवति। प्रकृतिविशेषणं भाराद् वंशादिभ्य इति। वंशादिभ्यः परो यो भारशब्दस्तदन्तात् प्रातिपदिकादिति। वंशभारं हरति वहत्यावहति वा वांशभारिकः। कौटजभारिकः। बाल्वजभारिकः।भारादिति किम्? वंशं हरति। वंशादिभ्य इति किम् ? व्रीहिभारं हरति। अपरा वृत्तिः-भाराद् वंशादिभ्य इति, भारभूतेभ्यो वंशादिभ्य इत्यर्थः। भारशब्दोऽर्थद्वारेण वंशादीनां विशेषणम्। भारभूतान् वंशान् हरति वांशिकः। कौटजिकः। बाल्वजिकः। भारादिति किम् ? वंशं हरति। वंशादिभ्य इति किम् ? भारभूतान् व्रीहीन् वहति। सूत्रार्थद्वयमपि चैतदाचार्येण शिष्याः प्रतिपादिताः। तदुभयमपि ग्राह्यम्। हरति देशान्तरं प्रापयति चोरयति वा। वा वहत्युत्क्षिप्य धारयतीत्यर्थः। आवहति उत्पादयतीत्यर्थः॥ वंश। कु टज। बल्वज। मूल। अक्ष। स्थूणा। अश्मन्। अश्व। इक्षु। खट्वा। वंशादिः॥

वस्नद्रव्याभ्यां ठन्कनौ ॥ ५.१.५१॥

वस्नद्रव्यशब्दाभ्यां द्वितीयासमर्थाभ्यां यथासंख्यं ठन् कन् इत्येतौ प्रत्ययौ भवतो हरत्यादिष्वर्थेषु । वस्नं हरति वहति वा वस्निकः। द्रव्यकः॥

संभवत्यवहरति पचति ॥ ५.१.५२॥

तदिति द्वितीया समर्थविभक्तिरनुवर्तते। तदिति द्वितीयासमर्थात् संभवत्यादिष्वर्थेषु यथाविहितं प्रत्ययो भवति। तत्राधेयस्य प्रमाणानतिरेकः संभवः। उपसंहरणमवहारः। विक्लेदनं पाकः। प्रस्थं संभवत्यवहरति पचति वा प्रास्थिकः। कौडविकः। खारीकः। ननु च पाके च संभवोऽस्ति? नास्त्यत्र नियोगः। प्रस्थं पचति ब्राह्मणी प्रास्थिकी॥ तत्पचतीति द्रोणादण् च॥ द्रोणं पचति द्रौणी, द्रौणिकी॥

आढकाचितपात्रात् खोऽन्यतरस्याम् ॥ ५.१.५३॥

आढकाचितपात्रशब्देभ्यो द्वितीयासमर्थेभ्योऽन्यतरस्यां संभवादिष्वर्थेषु खः प्रत्ययो भवति। ठञोऽपवादः। पक्षे सोऽपि भवति । आढकं संभवत्यवहरति पचति वा आढकीना, आढकिकी। आचितीना, आचितिकी । पात्रीणा, पात्रिकी॥

द्विगोः ष्ठंश्च ॥ ५.१.५४॥

आढकाचितपात्रादित्येव। आढकाचितपात्रान्ताद् द्विगोः संभवत्यादिष्वर्थेषु ष्ठन् प्रत्ययो भवति, चकारात् खः, अन्यतरस्याम्। विधानसामर्थ्यादनयोर्लुग् न भवति। ठञस्तु पक्षेऽनुज्ञातस्य ‘अध्यर्धपूर्वद्विगोः०’ (५.१.२८) इति लुग् भवत्येव। नकारः स्वरार्थः। षकारो ङीषर्थः। द्व्याढकिकी, द्व्याढकीना, द्व्याढकी। द्व्याचितिकी, द्व्याचितीना, द्व्याचिता। ‘अपरिमाणबिस्ताचित०’ (४.१.२२) इति ङीपः प्रतिषेधः। द्विपात्रिकी, द्विपात्रीणा, द्विपात्री॥

कुलिजाल् लुक्खौ च ॥ ५.१.५५॥

द्विगोरित्येव। कुलिजशब्दान्ताद् द्विगोः संभवत्यादिष्वर्थेषु लुक्खौ भवतः, चकारात् ष्ठंश्च। अन्यतरस्यांग्रहणानुवृत्त्या लुगपि विकल्प्यते। ठञः पक्षे श्रवणं भवति। तेन चातूरूप्यं संपद्यते। द्वे कुलिजे संभवत्यवहरति पचति वा द्विकुलिजिकी, द्विकुलिजीना, द्विकुलिजी, द्वैकुलिजिकी। ‘परिमाणान्तस्यासंज्ञाशाणयोः’ (७.३.१७) इत्यत्र कुलिजग्रहणमपीष्यते। तेनोत्तरपदवृद्धिरपि न भवति॥

सोऽस्यांशवस्नभृतयः॥ ५.१.५६॥

स इति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् तत् प्रथमासमर्थमंशवस्नभृतयश्चेत् ता भवन्ति। अंशो भागः। वस्नं मूल्यम्। भृतिर्वेतनम्। पञ्च अंशो वस्नो वा भृतिर्वास्य पञ्चकः। सप्तकः। साहस्रः॥

तदस्य परिमाणम् ॥ ५.१.५७॥

तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थं परिमाणं चेत् तद् भवति। प्रस्थः परिमाणमस्य प्रास्थिको राशिः। खारशतिकः। शत्यः, शतिकः। साहस्रः। द्रौणिकः। कौडविकः। वर्षशतं परिमाणमस्य वार्षशतिकः। वार्षसहस्रिकः। षष्टिर्जीवितपरिमाणमस्येति षाष्टिकः। साप्ततिकः। समर्थविभक्तिः प्रत्ययार्थश्च पूर्वसूत्रादेवानुवर्तिष्यते, किमर्थं पुनरनयोरुपादानम्? पुनर्विधानार्थम्। द्वे षष्टी जीवितपरिमाणमस्य द्विषाष्टिकः। द्विसाप्ततिकः। पुनर्विधानसामर्थ्याद् ‘अध्यर्धपूर्वद्विगोर्लुग०’ (५.१.२८) न भवति॥

संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु॥ ५.१.५८॥

तदस्य परिमाणमिति वर्तते। संख्यावाचिनः प्रातिपदिकात् परिमाणोपाधिकात् प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति। संज्ञासंघसूत्राध्ययनेष्विति प्रत्ययार्थविशेषणम्। तत्र संज्ञायां स्वार्थे प्रत्ययो वाच्यः। पञ्चैव पञ्चकाः शकुनयः। त्रिकाः शालङ्कायनाः। संघ-पञ्च परिमाणमस्य पञ्चकः संघः। अष्टकः। सूत्र-अष्टावध्यायाः परिमाणमस्य सूत्रस्य अष्टकं पाणिनीयम्। दशकं वैयाघ्रपदीयम्। त्रिकं काशकृत्स्नम्। ननु चाध्यायसमूहः सूत्रसंघ एव भवति ? नैतदस्ति। प्राणिसमूहे संघशब्दो रूढः। अध्ययन-पञ्चकोऽधीतः। सप्तकोऽधीतः। अष्टकः। नवकः। अधीतिरध्ययनम्। तस्य संख्यापरिमाणं पञ्चावृत्तयः पञ्च वाराः पञ्च रूपाण्यस्याध्ययनस्य पञ्चकमध्ययनम्॥ स्तोमे डविधिः पञ्चदशाद्यर्थः॥ पञ्चदश मन्त्राः परिमाणमस्य पञ्चदशः स्तोमः। सप्तदशः। एकविंशः॥ शन्शतोर्डिनिश्छन्दसि॥ प॑ञ्चद॒शिनो॑ऽर्धमा॒साः (तै०सं०७.५.२०.१)। त्रिं॒शिनो॒ मासाः॑ (तै०सं०७.५.२०.१)॥ विंशतेश्चेति वक्तव्यम्॥ विंशिनोऽङ्गिरसः (गो०ब्रा०१.१.८)॥

पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्॥ ५.१.५९॥

तदस्य परिमाणमिति वर्तते। पङ्क्त्यादयः शब्दा निपात्यन्ते। यदिह लक्षणेनानुपपन्नं तत्सर्वं निपातनात् सिद्धम्। पञ्चानां टिलोपः, तिश्च प्रत्ययः। पञ्च परिमाणमस्य पङ्क्तिश्छन्दः। द्वयोर्दशतोर्विन्भावः शतिच् च प्रत्ययः। द्वौ दशतौ परिमाणमस्य संघस्य विंशतिः। त्रयाणां दशतां त्रिन्भावः शत् च प्रत्ययः। त्रयो दशतः परिमाणमस्य त्रिंशत्। चतुर्णां दशतां चत्वारिन्भावः शत् च प्रत्ययः। चत्वारो दशतः परिमाणमस्य चत्वारिंशत्। पञ्चानां दशतां पञ्चाभावः शत् च प्रत्ययः। पञ्च दशतः परिमाणमस्य पञ्चाशत्। षण्णां दशतां षड्भावस्तिः प्रत्ययोऽपदत्वं च। षड् दशतः परिमाणमस्य षष्टिः। सप्तानां दशतां सप्तभावः तिः प्रत्ययश्च। सप्त दशतः परिमाणमस्य सप्ततिः। अष्टानां दशतामशीभावस्तिः प्रत्ययश्च। अष्टौ दशतः परिमाणमस्य अशीतिः। नवानां दशतां नवभावस्तिः प्रत्ययश्च। नव दशतः परिमाणमस्य नवतिः। दशानां दशतां शभावः तश्च प्रत्ययः। दश दशतः परिमाणमस्य संघस्य शतम्। विंशत्यादयो गुणशब्दाः, ते यथाकथंचिद् व्युत्पाद्याः। नात्रावयवार्थेऽभिनिवेष्टव्यम्। तथाहि-पङ्क्तिरिति क्रमसंनिवेशेऽपि वर्तते। ब्राह्मणपङ्क्तिः, पिपीलिकापङ्क्तिरिति। न चात्रावयवार्थः कश्चिदस्ति। या चैषां विषयभेदेन गुणमात्रे गुणिनि च वृत्तिः, स्वलिङ्गसंख्यानुविधानं च, एतदपि सर्वं स्वाभाविकमेव। सहस्रादयोऽप्येवंजातीयकास्तद्वदेव द्रष्टव्याः। उदाहरणमात्रमेतदिति॥

पञ्चद्दशतौ वर्गे वा॥ ५.१.६०॥

पञ्चत् दशत् इत्येतौ वा निपात्येते तदस्य परिमाणमित्यस्मिन् विषये वर्गेऽभिधेये। ‘संख्यायाः०’(५.१.५८) इति कनि प्राप्ते डतिर्निपात्यते। वावचनात् पक्षे सोऽपि भवति। पञ्च परिमाणमस्य पञ्चद् वर्गः, दशद् वर्गः। पञ्चको वर्गः, दशको वर्गः॥

सप्तनोऽञ् छन्दसि॥ ५.१.६१॥

वर्ग इत्येव। तदस्य परिमाणमिति च। सप्तन्शब्दात् छन्दसि विषयेऽञ् प्रत्ययो भवति वर्गेऽभिधेये। स॒प्त साप्ता॑नि (तु०-तै०सं०५.४.७.५) असृजत्॥

त्रिंशच्चत्वारिंशतोर्ब्राह्मणे संज्ञायां डण्॥ ५.१.६२॥

तदस्य परिमाणमित्येव। वर्ग इति निवृत्तम्। त्रिंशच्चत्वारिंशच्छब्दाभ्यां संज्ञायां विषये डण् प्रत्ययो भवति तदस्य परिमाणमित्येतस्मिन् विषये ब्राह्मणेऽभिधेये। अभिधेयसप्तम्येषा, न विषयसप्तमी। तेन मन्त्रभाषयोरपि भवति। त्रिंशदध्यायाः परिमाणमेषां ब्राह्मणानां त्रैंशानि ब्राह्मणानि। चात्वारिंशानि ब्राह्मणानि। कानिचिदेव ब्राह्मणान्युच्यन्ते॥

तदर्हति॥ ५.१.६३॥

तदिति द्वितीयासमर्थादर्हतीत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। श्वेतच्छत्रमर्हति श्वैतच्छत्रिकः। वास्त्रयुग्मिकः। शत्यः, शतिकः। साहस्रः॥

छेदादिभ्यो नित्यम्॥ ५.१.६४॥

नित्यग्रहणं प्रत्ययार्थविशेषणम्। छेदादिभ्यो द्वितीयासमर्थेभ्यो नित्यमर्हतीत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। छेदं नित्यमर्हति छैदिकः। भैदिकः॥ छेद। भेद। द्रोह। दोह। वर्त। कर्ष। संप्रयोग। विप्रयोग। प्रेषण। संप्रश्न। विप्रकर्ष। विराग विरङ्गं च (ग०सू०११२)। वैरङ्गिकः। छेदादिः॥

शीर्षच्छेदाद् यच्च॥ ५.१.६५॥

शीर्षच्छेदशब्दाद् द्वितीयासमर्थाद् नित्यमर्हतीत्यस्मिन्नर्थे यत् प्रत्ययो भवति, चकाराद् यथाविहितं च। शिरश्छेदं नित्यमर्हति शीर्षच्छेद्यः, शैर्षच्छेदिकः। प्रत्ययसन्नियोगेन शिरसः शीर्षभावो निपात्यते॥

दण्डादिभ्यो यः॥ ५.१.६६॥

नित्यमिति निवृत्तम्। दण्डादिभ्यो द्वितीयासमर्थेभ्योऽर्हतीत्यस्मिन्नर्थे यः प्रत्ययो भवति। ठकोऽपवादः। दण्डमर्हति दण्ड्यः। मुसल्यः॥ दण्ड। मुसल। मधुपर्क। कशा। अर्घ। मेधा। मेघ। युग। उदक। वध। गुहा। भाग। इभ। दण्डादिः॥

छन्दसि च॥ ५.१.६७॥

प्रातिपदिकमात्रात् छन्दसि विषये तदर्हतीत्यस्मिन्नर्थे यत् प्रत्ययो भवति। ठञादीनामपवादः। उदक्या वृत्तयः। यूप्यः पलाशः। गर्त्यो देशः॥

पात्राद् घंश्च ॥ ५.१.६८॥

पात्रशब्दाद् घन् प्रत्ययो भवति, चकाराद् यत् च, तदर्हतीत्यस्मिन्नर्थे। ठक्ठञोरपवादः। पात्रं परिमाणमप्यस्ति। पात्रमर्हति पात्रियः, पात्र्यः॥

कडङ्करदक्षिणाच्छ च ॥ ५.१.६९॥

कडङ्करदक्षिणाशब्दाभ्यां छः प्रत्ययो भवति, चकाराद् यत् च, तदर्हतीत्यस्मिन् विषये। ठकोऽपवादः। कडङ्करमर्हति कडङ्करीयो गौः। कडङ्कर्यः। दक्षिणामर्हति दक्षिणीयो भिक्षुः। दक्षिण्यो ब्राह्मणः। दक्षिणाशब्दस्याल्पाच्तरस्यापूर्वनिपातेन लक्षणव्यभिचारचिह्नेन यथासंख्याभावं सूचयति॥

स्थालीबिलात् ॥ ५.१.७०॥

छयतावनुवर्तते। स्थालीबिलशब्दात् छयतौ प्रत्ययौ भवतः तदर्हतीत्यस्मिन्नर्थे। ठकोऽपवादौ। स्थालीबिलमर्हन्ति स्थालीबिलीयास्तण्डुलाः। स्थालीबिल्याः। पाकयोग्या इत्यर्थः॥

यज्ञर्त्विग्भ्यां घखञौ॥ ५.१.७१॥

यज्ञशब्दादृत्विक्शब्दात् च यथासंख्यं घखञौ प्रत्ययौ भवतः तदर्हतीत्यस्मिन् विषये। ठकोऽपवादौ। यज्ञियो ब्राह्मणः। आर्त्विजीनो ब्राह्मणः॥ यज्ञर्त्विग्भ्यां तत्कर्मार्हतीत्युपसंख्यानम्॥ यज्ञकर्मार्हति यज्ञियो देशः। ऋत्विक्कर्मार्हति आर्त्विजीनं ब्राह्मणकुलम्। आर्हीयाणां ठगादीनां पूर्णोऽवधिः। अतः परं प्राग्वतीयष्ठञेव भवति॥

पारायणतुरायणचान्द्रायणं वर्तयति॥ ५.१.७२॥

समर्थविभक्तिरनुवर्तते। अर्हतीति निवृत्तम्। पारायणादिभ्यो द्वितीयासमर्थेभ्यो वर्तयतीत्यस्मिन्नर्थे ठञ् प्रत्ययो भवति। पारायणं वर्तयत्यधीते पारायणिकश्छात्रः। तौरायणिको यजमानः। चान्द्रायणिकस्तपस्वी॥

संशयमापन्नः॥ ५.१.७३॥

संशयशब्दाद् द्वितीयासमर्थादापन्न इत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति। संशयमापन्नः प्राप्तः सांशयिकः स्थाणुः॥

योजनं गच्छति॥ ५.१.७४॥

योजनशब्दाद् द्वितीयासमर्थाद् गच्छतीत्यस्मिन्नर्थे ठञ् प्रत्ययो भवति। योजनं गच्छति यौजनिकः॥ क्रोशशतयोजनशतयोरुपसंख्यानम्॥ क्रोशशतं गच्छति क्रौशशतिकः। यौजनशतिकः॥ ततोऽभिगमनमर्हतीति च क्रोशशतयोजनशतयोरुपसंख्यानम्॥ क्रोशशतादभिगमनमर्हति क्रौशशतिको भिक्षुः। यौजनशतिक आचार्यः॥

पथः ष्कन्॥ ५.१.७५॥

पथिन्शब्दाद् द्वितीयासमर्थाद् गच्छतीत्यस्मिन्नर्थे ष्कन् प्रत्ययो भवति। नकारः स्वरार्थः। षकारो ङीषर्थः। पन्थानं गच्छति पथिकः। पथिकी॥

पन्थो ण नित्यम् ॥ ५.१.७६॥

नित्यग्रहणं प्रत्ययार्थविशेषणम्। पथः पन्थ इत्ययमादेशो भवति णश्च प्रत्ययो नित्यं गच्छतीत्यस्मिन् विषये। पन्थानं नित्यं गच्छति, पान्थो भिक्षां याचते। नित्यमिति किम्? पथिकः॥

उत्तरपथेनाहृतं च॥ ५.१.७७॥

निर्देशादेव समर्थविभक्तिः। उत्तरपथशब्दात् तृतीयासमर्थादाहृतमित्येतस्मिन् विषये ठञ् प्रत्ययो भवति। चकारः प्रत्ययार्थसमुच्चये, गच्छतीति च। अत्रापि तृतीयैव समर्थविभक्तिः। उत्तरपथेनाहृतम् औत्तरपथिकम्। उत्तरपथेन गच्छति औत्तरपथिकः॥ आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वपदादुपसंख्यानम्॥ वारिपथेनाहृतं वारिपथिकम्। वारिपथेन गच्छति वारिपथिकः। जङ्गलपथेनाहृतं जाङ्गलपथिकम्। जङ्गलपथेन गच्छति जाङ्गलपथिकः। स्थलपथेनाहृतं स्थालपथिकम्। स्थलपथेन गच्छति स्थालपथिकः। कान्तारपथेनाहृतं कान्तारपथिकम्। कान्तारपथेन गच्छति कान्तारपथिकः॥ अजपथशङ्कुपथाभ्यां चोपसंख्यानम्॥ अजपथेनाहृतम् आजपथिकम्, गच्छति वा आजपथिकः। शङ्कुपथेनाहृतं शाङ्कुपथिकम्, गच्छति वा शाङ्कुपथिकः॥ मधुकमरिचयोरण् स्थलात्॥ स्थलपथेनाहृतं स्थालपथं मधुकम्। स्थालपथं मरिचम्॥

कालात्॥ ५.१.७८॥

कालादित्यधिकारः। यदित ऊर्ध्वमनुक्रमिष्यामः कालादित्येवं तद् वेदितव्यम्। वक्ष्यति- ‘तेन निर्वृत्तम्’ (५.१.७९)- मासेन निर्वृत्तं मासिकम्। आर्धमासिकम्। सांवत्सरिकम्। कालादित्यधिकारो ‘व्युष्टादिभ्योऽण्’(५.१.९७) इति यावत्॥

तेन निर्वृत्तम्॥ ५.१.७९॥

तेनेति तृतीयासमर्थात् कालवाचिनः प्रातिपदिकाद् निर्वृत्तमित्यस्मिन्नर्थे ठञ् प्रत्ययो भवति। अह्ना निर्वृत्तम् आह्निकम्। आर्धमासिकम्। सांवत्सरिकम्॥

तमधीष्टो भृतो भूतो भावी॥ ५.१.८०॥

तमिति द्वितीयासमर्थात् कालवाचिनः प्रातिपदिकादधीष्टो भृतो भूतो भावी वेत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। अधीष्टः सत्कृत्य व्यापारितः। भृतो वेतनेन क्रीतः। भूतः स्वसत्तया व्याप्तकालः। भावी तादृश एवानागतः। ‘कालाध्वनोः०’(२.३.५) इति द्वितीया। मासमधीष्टो मासिकोऽध्यापकः। मासं भृतो मासिकः कर्मकरः। मासं भूतो मासिको व्याधिः। मासं भावी मासिक उत्सवः। ननु चाध्येषणं भरणं च मुहूर्तं क्रियते, तेन कथं मासो व्याप्यते? अध्येषणभरणे क्रियार्थे, तत्र फलभूतया क्रियया मासो व्याप्यमानस्ताभ्यामेव व्याप्त इत्युच्यते॥

मासाद् वयसि यत्खञौ॥ ५.१.८१॥

मासशब्दाद् वयस्यभिधेये यत्खञौ प्रत्ययौ भवतः। ठञोऽपवादौ। अधीष्टादीनां चतुर्णामधिकारेऽपि सामर्थ्याद् भूत एवात्राभिसंबध्यते। मासं भूतो मास्यः, मासीनः। वयसीति किम् ? मासिकम्॥

द्विगोर्यप्॥ ५.१.८२॥

मासाद् वयसीति वर्तते। मासान्ताद् द्विगोर्यप् प्रत्ययो भवति वयस्यभिधेये। द्वौ मासौ भूतो द्विमास्यः। त्रिमास्यः॥

षण्मासाण् ण्यच्च॥ ५.१.८३॥

वयसीत्येव। षण्मासशब्दाद् वयस्यभिधेये ण्यत् प्रत्ययो भवति, यप् च। औत्सर्गिकष्ठञपीष्यते, स चकारेण समुच्चेतव्यः। स्वरितत्वाच्चानन्तरोऽनुवर्तिष्यते। तेन त्रैरूप्यं भवति। षाण्मास्यः, षण्मास्यः, षाण्मासिकः॥

अवयसि ठंश्च॥ ५.१.८४॥

षण्मासशब्दादवयस्यभिधेये ठन् प्रत्ययो भवति। चकारेणानन्तरस्य ण्यतः समुच्चयः क्रियते। षण्मासिको रोगः। षाण्मास्यः॥

समायाः खः ॥ ५.१.८५॥

अधीष्टादयश्चत्वारोऽर्था अनुवर्तन्ते। समाशब्दाद् द्वितीयासमर्थादधीष्टादिष्वर्थेषु खः प्रत्ययो भवति। ठञोऽपवादः। समामधीष्टो भृतो भूतो भावी वा समीनः। केचित् तु ‘तेन निर्वृत्तम्’ (५.१.७९) इति सर्वत्रानुवर्तयन्ति। समया निर्वृत्तः समीनः॥

द्विगोर्वा॥ ५.१.८६॥

समायाः ख इत्येव। समाशब्दान्ताद् द्विगोर्निर्वृत्तादिष्वर्थेषु पञ्चसु वा खः प्रत्ययो भवति। पूर्वेण नित्यः प्राप्तो विकल्प्यते। ‘प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि’(महाभाष्य-वा० ५.१.२०) इति प्राप्तिरस्त्येव। खेन मुक्ते पक्षे ठञपि भवति। द्विसमीनः, द्वैसमिकः। त्रिसमीनः, त्रैसमिकः॥

रात्र्यहः संवत्सराच्च॥ ५.१.८७॥

रात्रि अहः संवत्सर इत्येवमन्ताद् द्विगोर्निर्वृत्तादिष्वर्थेषु वा खः प्रत्ययो भवति। खेन मुक्ते पक्षे ठञपि भवति। द्विरात्रीणः, द्वैरात्रिकः। त्रिरात्रीणः, त्रैरात्रिकः। द्व्यहीनः, द्वैयह्निकः। त्र्यहीणः, त्रैयह्निकः। द्विसंवत्सरीणः, द्विसांवत्सरिकः। त्रिसंवत्सरीणः, त्रिसांवत्सरिकः। ‘संख्यायाः संवत्सरसंख्यस्य च’ (७.३.१५) इत्युत्तरपदवृद्धिः॥

वर्षाल्लुक् च॥ ५.१.८८॥

द्विगोरित्येव। वर्षान्ताद् द्विगोर्निर्वृत्तादिष्वर्थेषु वा खः प्रत्ययो भवति। पक्षे ठञ्। तयोश्च वा लुग् भवति। एवं त्रीणि रूपाणि भवन्ति। द्विवर्षीणो व्याधिः,द्विवार्षिकः, द्विवर्षः। त्रिवर्षीणः, त्रिवार्षिकः, त्रिवर्षः। ‘वर्षस्याभविष्यति’(७.३.१६) इत्युत्तरपदवृद्धिः। भाविनि तु त्रैवर्षिकः॥

चित्तवति नित्यम्॥ ५.१.८९॥

चित्तवति प्रत्ययार्थेऽभिधेये वर्षशब्दान्ताद् द्विगोर्निर्वृत्तादिष्वर्थेषूत्पन्नस्य प्रत्ययस्य नित्यं लुग् भवति। पूर्वेण विकल्पे प्राप्ते वचनम्। द्विवर्षो दारकः। चित्तवतीति किम्? द्विवर्षीणो व्याधिः॥

षष्टिकाः षष्टिरात्रेण पच्यन्ते॥ ५.१.९०॥

षष्टिकशब्दो निपात्यते। बहुवचनमतन्त्रम्। षष्टिरात्रशब्दात् तृतीयासमर्थात् कन् प्रत्ययो निपात्यते पच्यन्त इत्येतस्मिन्नर्थे, रात्रिशब्दस्य च लोपः। षष्टिरात्रेण पच्यन्ते षष्टिकाः। संज्ञैषा धान्यविशेषस्य। तेन मुद्गादिष्वतिप्रसङ्गो न भवति॥

वत्सरान्ताच्छश्छन्दसि॥ ५.१.९१॥

वत्सरान्तात् प्रातिपदिकाद् निर्वृत्तादिष्वर्थेषु छन्दसि विषये छः प्रत्ययो भवति। ठञोऽपवादः। इद्वत्सरीयः। इदावत्सरीयः (काठ०सं० १३.१५)॥

संपरिपूर्वात् ख च॥ ५.१.९२॥

संपरिपूर्वाद् वत्सरान्तात् प्रातिपदिकाच् छन्दसि विषये निर्वृत्तादिष्वर्थेषु खः प्रत्ययो भवति, चकाराच् छश्च। सं॒व॒त्स॒रीणाः॑ (तै०सं०४.३.१३.४)। परिवत्स॒रीण॑म् (ऋ० ७.१०३.८)। संवत्सरीया, परिवत्सरीया (काठ०सं०१३.१५)॥

तेन परिजय्यलभ्यकार्यसुकरम् ॥ ५.१.९३॥

तेनेति तृतीयासमर्थात् कालवाचिनः प्रातिपदिकात् परिजय्य लभ्य कार्य सुकर इत्येतेष्वर्थेषु ठञ् प्रत्ययो भवति । मासेन परिजय्यः, शक्यते जेतुम्, मासिको व्याधिः। सांवत्सरिकः। मासेन लभ्यो मासिकः पटः। मासेन कार्यं मासिकं चान्द्रायणम् । मासेन सुकरो मासिकः प्रासादः॥

तदस्य ब्रह्मचर्यम् ॥ ५.१.९४॥

तदिति द्वितीया समर्थविभक्तिः। सा चात्यन्तसंयोगे । अस्येति प्रत्ययार्थः। ब्रह्मचर्यमिति द्वाभ्यामपि संबध्यते । कालस्य व्यापकम् , प्रत्ययार्थस्य च स्वमिति। तदिति द्वितीयासमर्थात् कालवाचिनः प्रातिपदिकादस्येति षष्ठ्यर्थे ठञ् प्रत्ययो भवति, ब्रह्मचर्यं चेद् गम्यते। मासं ब्रह्मचर्यमस्य मासिको ब्रह्मचारी। आर्धमासिकः। सांवत्सरिकः। अपरा वृत्तिः-तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठञ् प्रत्ययो भवति, यत् तदस्येति निर्दिष्टं ब्रह्मचर्यं चेत् तद् भवति। मासोऽस्य ब्रह्मचर्यस्य मासिकं ब्रह्मचर्यम्। आर्धमासिकम्। सांवत्सरिकम्। पूर्वत्र ब्रह्मचारी प्रत्ययार्थः, उत्तरत्र ब्रह्मचर्यमेव। उभयमपि प्रमाणम्, उभयथा सूत्रप्रणयनात्॥ महानाम्न्यादिभ्यः षष्ठीसमर्थेभ्य उपसंख्यानम् ॥ माहानामिकम् । गौदानिकम्। आदित्यव्रतिकम्॥ तच्चरतीति च ॥ महानाम्न्य ऋचः, तत्सहचरितं व्रतं तच्छब्देनोच्यते। महानाम्नीश्चरति माहानामिकः। आदित्यव्रतिकः। गौदानिकः। ‘भस्याढे०’ (वा०६.३.३५)इति पुंवद्भावेन ङीपि निवृत्ते ‘नस्तद्धिते’ (६.४.१४४) इति टिलोपः॥ अवान्तर- दीक्षादिभ्यो डिनिर्वक्तव्यः॥ अवान्तरदीक्षां चरति अवान्तरदीक्षी। तिलव्रती ॥ अष्टा-चत्वारिंशतो ड्वुंश्च डिनिश्च वक्तव्यः॥ अष्टाचत्वारिंशद् वर्षाणि व्रतं चरति अष्टाचत्वारिंशकः। अष्टाचत्वारिंशी॥ चातुर्मास्यानां यलोपश्च ड्वुंश्च डिनिश्च वक्तव्यः॥ चातुर्मास्यानि चरति चातुर्मासकः। चातुर्मासी॥ चतुर्मासाद् ण्यो यज्ञे तत्र भवे॥ चतुर्षु्् मासेषु भवानि चातुर्मास्यानि॥ संज्ञायामण् वक्तव्यः॥ चतुर्षु मासेषु भवा चातुर्मासी पौर्णमासी-आषाढी, कार्त्तिकी, फाल्गुनी॥

तस्य च दक्षिणा यज्ञाख्येभ्यः ॥ ५.१.९५॥

तस्येति षष्ठीसमर्थेभ्यो यज्ञाख्येभ्यो दक्षिणेत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति। अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकी। वाजपेयिकी। राजसूयिकी। आख्याग्रहणमकालादपि यज्ञवाचिनो यथा स्यादिति। इतरथा हि कालाधिकारादेकाहद्वादशाहप्रभृतय एव यज्ञा गृह्येरन्। ‘प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि’ (महाभाष्य-वा० ५.१.२०) इति कालाधिकारेऽपि द्वादशाहादिष्वस्ति प्राप्तिः॥

तत्र च दीयते कार्यं भववत् ॥ ५.१.९६॥

तत्रेति सप्तमीसमर्थात् कालवाचिनः प्रातिपदिकाद् दीयते कार्यमित्येतयोरर्थयोर्भववत् प्रत्ययो भवति। यथा-मासे भवं मासिकम्। सांवत्सरिकम्। प्रावृषेण्यम्। वासन्तिकम्, वासन्तम्। हैमनम्, हैमन्तम्, हैमन्तिकम्। शारदम्। वतिः सर्वसादृश्यार्थः। योगविभागश्चात्र कर्तव्यः। तत्र च दीयते, यज्ञाख्येभ्य इति। आग्निष्टोमिकं भक्तम्। राजसूयिकम्। वाजपेयिकम्। कालाधिकारस्य पूर्णोऽवधिः। अतः परं सामान्येन प्रत्ययविधानम्॥

व्युष्टादिभ्योऽण् ॥ ५.१.९७॥

तत्रेति सप्तमीसमर्थेभ्यो व्युष्टादिभ्यो दीयते कार्यमित्येतयोरण् प्रत्ययो भवति। व्युष्टे दीयते कार्यं वा, वैयुष्टम्। नैत्यम्॥ अण्प्रकरणे अग्निपदादिभ्य उपसंख्यानम्॥ आग्निपदम्। पैलुमूलम्। किं वक्तव्यम्? न वक्तव्यम्। अत्रैव ते पठितव्याः॥ व्युष्ट। नित्य। निष्क्र मण। प्रवेशन। तीर्थ। संभ्रम। आस्तरण। संग्राम। संघात। अग्निपद। पीलुमूल। प्रवास। उपसंक्रमण। व्युष्टादिः॥

तेन यथाकथाचहस्ताभ्यां णयतौ ॥ ५.१.९८॥

दीयते कार्यमिति वर्तते। तेनेति तृतीयासमर्थाभ्यां यथाकथाचहस्तशब्दाभ्यां यथासंख्यं णयतौ प्रत्ययौ भवतः। दीयते कार्यमित्येतयोरर्थयोः प्रत्येकमभिसंबन्धः, यथासंख्यं नेष्यते। यथाकथाचशब्दोऽव्ययसमुदायोऽनादरे वर्तते। तृतीयार्थमात्रं चात्र संभवति, न तु तृतीया समर्थविभक्तिः। यथाकथाच दीयते कार्यं वा याथाकथाचम्। हस्तेन दीयते कार्यं वा हस्त्यम्॥

संपादिनि ॥ ५.१.९९॥

तेनेत्येव। तृतीयासमर्थात् संपादिन्यभिधेये ठञ् प्रत्ययो भवति। गुणोत्कर्षः संपत्तिः। आवश्यके णिनिः (३.३.१७०)। कर्णवेष्टकाभ्यां संपादि मुखं कार्णवेष्टकिकं मुखम्। वास्त्रयुगिकं शरीरम्। वस्त्रयुगेण विशेषतः शोभत इत्यर्थः॥

कर्मवेषाद् यत् ॥ ५.१.१००॥

कर्मवेषशब्दाभ्यां तृतीयासमर्थाभ्यां यत् प्रत्ययो भवति संपादिनीत्येतस्मिन् विषये। ठञोऽपवादः। कर्मणा संपद्यते कर्मण्यं शरीरम्। वेषेण संपद्यते वेष्यो नटः॥

तस्मै प्रभवति संतापादिभ्यः ॥ ५.१.१०१॥

तस्मा इति चतुर्थीसमर्थेभ्यः संतापादिभ्यः प्रभवतीत्यस्मिन् विषये ठञ् प्रत्ययो भवति। समर्थः शक्तः प्रभवतीत्युच्यते। अलमर्थे चतुर्थी। संतापाय प्रभवति सान्तापिकः। सान्नाहिकः॥ संताप। संनाह। संग्राम। संयोग। संपराय। संपेष। निष्पेष। निसर्ग। असर्ग। विसर्ग। उपसर्ग। उपवास। प्रवास। संघात। संमोदन। सक्तुमांसौदनाद् विगृहीतादपि (ग०सू०११३)। संतापादिः॥

योगाद् यच्च ॥ ५.१.१०२॥

योगशब्दाद् यत् प्रत्ययो भवति, चकाराट् ठञ्, तस्मै प्रभवतीत्यस्मिन् विषये। योगाय प्रभवति योग्यः, यौगिकः॥

कर्मण उकञ् ॥ ५.१.१०३॥

कर्मशब्दादुकञ् प्रत्ययो भवति तस्मै प्रभवतीत्येतस्मिन्नर्थे। ठञोऽपवादः। कर्मणे प्रभवति कार्मुकं धनुः। धनुषोऽन्यत्र न भवति, अनभिधानात्॥

समयस्तदस्य प्राप्तम्॥ ५.१.१०४॥

समयशब्दात् तदिति प्रथमासमर्थाद् अस्येति षष्ठ्यर्थे ठञ् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं प्राप्तं चेत् तद् भवति। समयः प्राप्तोऽस्य सामयिकं कार्यम्। उपनतकालमित्यर्थः। समर्थविभक्तिनिर्देश उत्तरार्थः॥

ऋतोरण्॥ ५.१.१०५॥

तदस्य प्राप्तमित्यनुवर्तते। ऋतुशब्दात् तदिति प्रथमासमर्थाद् अस्येति षष्ठ्यर्थेऽण् प्रत्ययो भवति तदस्य प्राप्तमित्येतस्मिन् विषये। ऋतुः प्राप्तोऽस्य आर्तवं पुष्पम्॥ तदस्य प्रकरण उपवस्त्रादिभ्य उपसंख्यानम्॥ उपवस्ता प्राप्तोऽस्य औपवस्त्रम्। प्राशिता प्राप्तोऽस्य प्राशित्रम्॥

छन्दसि घस्॥ ५.१.१०६॥

ऋतुशब्दाच् छन्दसि विषये घस् प्रत्ययो भवति तदस्य प्राप्तमित्यस्मिन् विषये। अणोऽपवादः। अ॒यं ते॒ योनि॑र्ऋ॒त्वियः॒ (ऋ०३.२९.१०)॥

कालाद् यत्॥ ५.१.१०७॥

कालशब्दाद् यत् प्रत्ययो भवति तदस्य प्राप्तमित्यस्मिन् विषये। कालः प्राप्तोऽस्य काल्यस्तापः। काल्यं शीतम्॥

प्रकृष्टे ठञ्॥ ५.१.१०८॥

कालादित्येव, तदस्येति च । प्राप्तमिति निवृत्तम्। प्रकर्षेण कालो विशेष्यते। प्रकर्षे वर्तमानात् कालात् प्रथमासमर्थादस्येति षष्ठ्यर्थे ठञ् प्रत्ययो भवति। प्रकृष्टो दीर्घः कालोऽस्य कालिकमृणम्। कालिकं वैरम्। ठञ्ग्रहणं विस्पष्टार्थम्॥

प्रयोजनम्॥ ५.१.१०९॥

तदस्येत्येव। तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठञ् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं प्रयोजनं चेत् तद् भवति। इन्द्रमहः प्रयोजनमस्य ऐन्द्रमहिकम्। गाङ्गामहिकम्॥

विशाखाषाढादण् मन्थदण्डयोः॥ ५.१.११०॥

विशाखाषाढाशब्दाभ्यामण् प्रत्ययो भवति तदस्य प्रयोजनमित्येतस्मिन् विषये यथासंख्यं मन्थदण्डयोरभिधेययोः। विशाखा प्रयोजनमस्य वैशाखो मन्थः। आषाढो दण्डः॥ चूडादिभ्य उपसंख्यानम्॥ चूडा प्रयोजनमस्य चौडम्। श्रद्धा प्रयोजनमस्य श्राद्धम्॥

अनुप्रवचनादिभ्यश्छः॥ ५.१.१११॥

अनुप्रवचनादिभ्यः प्रातिपदिकेभ्यश्छः प्रत्ययो भवति तदस्य प्रयोजनमित्यस्मिन् विषये। ठञोऽपवादः। अनुप्रवचनं प्रयोजनमस्य अनुप्रवचनीयम् उत्त्थापनीयम्॥ विशिपूरिपतिरुहिप्रकृतेरनात् सपूर्वपदादुपसंख्यानम्॥ गृहप्रवेशनं प्रयोजनमस्य गृहप्रवेशनीयम्। प्रपापूरणीयम्। अश्वप्रपतनीयम्। प्रासादारोहणीयम्॥ स्वर्गादिभ्यो यद् वक्तव्यः॥ स्वर्गः प्रयोजनमस्य स्वर्ग्यम्। यशस्यम्। आयुष्यम्। काम्यम्। धन्यम्॥ पुण्याहवाचनादिभ्यो लुग् वक्तव्यः॥ पुण्याहवाचनं प्रयोजनमस्य पुण्याहवाचनम्। स्वस्तिवाचनम्। शान्तिवाचनम्॥ अनुप्रवचन। उत्त्थापन। प्रवेशन। अनुप्रवेशन। उपस्थापन। संवेशन। अनुवेशन। अनुवचन। अनुवादन। अनुवासन। आरम्भण। आरोहण। प्ररोहण। अन्वारोहण। अनुप्रवचनादिः॥

समापनात् सपूर्वपदात्॥ ५.१.११२॥

समापनशब्दात् सपूर्वपदाद् विद्यमानपूर्वपदाच्छः प्रत्ययो भवति तदस्य प्रयोजनमित्येतस्मिन् विषये। ठञोऽपवादः। छन्दस्समापनं प्रयोजनमस्य छन्दःसमापनीयम्। व्याकरणसमापनीयम्। पदग्रहणं बहुच्पूर्वनिरासार्थम्॥

ऐकागारिकट् चौरे॥ ५.१.११३॥

ऐकागारिकड् इति निपात्यते चौरेऽभिधेये। एकागारं प्रयोजनमस्य ऐकागारिकः चौरः। ऐकागारिकी। किमर्थमिदं निपात्यते, यावता प्रयोजनमित्येव सिद्धष्ठञ्? चौरे नियमार्थं वचनम्। इह मा भूत्- एकागारं प्रयोजनमस्य भिक्षोरिति। टकारःकार्यावधारणार्थः। ङीबेव भवति, न ञित्स्वर इति। अपरे पुनरिकट् प्रत्ययं वृद्धिं च निपातयन्ति॥

आकालिकडाद्यन्तवचने॥ ५.१.११४॥

आकालिकड् इति निपात्यत आद्यन्तवचने। समानकालशब्दस्य आकालशब्द आदेशः। आद्यन्तयोश्चैतद् विशेषणम्। इकट् प्रत्ययश्च निपात्यते। समानकालावाद्यन्तावस्य आकालिकः स्तनयित्नुः। आकालिकी विद्युत्। जन्मना तुल्यकालविनाशा। उत्पादानन्तरं विनाशिनीत्यर्थः॥ आकालाट् ठंश्च॥ चात् ठञ् च। आकालिका विद्युत्। ठञः पूर्णोऽवधिः॥

तेन तुल्यं क्रिया चेद् वतिः॥ ५.१.११५॥

तेनेति तृतीयासमर्थात् तुल्यमित्येतस्मिन्नर्थे वतिः प्रत्ययो भवति, यत् तुल्यं क्रिया चेत् सा भवति। ब्राह्मणेन तुल्यं वर्तते ब्राह्मणवत्। राजवत्। क्रियाग्रहणं किम् ? गुणद्रव्यतुल्ये मा भूत्। पुत्रेण तुल्यः स्थूलः। पुत्रेण तुल्यः पिङ्गलः। पुत्रेण तुल्यो गोमान्॥

तत्र तस्येव ॥ ५.१.११६॥

तत्रेति सप्तमीसमर्थात् तस्येति षष्ठीसमर्थात् च इवार्थे वतिः प्रत्ययो भवति। मथुरायामिव मथुरावत् स्रुघ्ने प्राकारः। पाटलिपुत्रवत् साकेते परिखा। षष्ठीसमर्थात्-देवदत्तस्येव देवदत्तवत् यज्ञदत्तस्य गावः। यज्ञदत्तस्येव यज्ञदत्तवत् देवदत्तस्य दन्ताः॥

तदर्हम् ॥ ५.१.११७॥

तदिति द्वितीयासमर्थादर्हमित्येतस्मिन्नर्थे वतिः प्रत्ययो भवति। राजानमर्हति राजवत् पालनम्। ब्राह्मणवत्। ऋषिवत्। क्षत्रियवत् ॥

उपसर्गाच्छन्दसि धात्वर्थे॥ ५.१.११८॥

उपसर्गात् ससाधने धात्वर्थे वर्तमानात् स्वार्थे वतिः प्रत्ययो भवति छन्दसि विषये। यदुद्वतो॑ नि॒वतो॒ यासि॒ बप्स॒द् (ऋ०१०.१४२.४)। उद्गतानि निगतानि च॥

तस्य भावस्त्वतलौ॥ ५.१.११९॥

तस्येति षष्ठीसमर्थाद् भाव इत्येतस्मिन्नर्थे त्वतलौ प्रत्ययौ भवतः। भवतोऽस्मादभिधानप्रत्ययाविति भावः। शब्दस्य प्रवृत्तिनिमित्तं भावशब्देनोच्यते। अश्वस्य भावः अश्वत्वम्। अश्वता। गोत्वम्। गोता॥

आ च त्वात्॥ ५.१.१२०॥

‘ब्रह्मणस्त्वः’(५.१.१३६) इति वक्ष्यति। आ एतस्मात् त्वसंशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामः, तत्र त्वतलौ प्रत्ययावधिकृतौ वेदितव्यौ। वक्ष्यति-‘पृथ्वादिभ्य इमनिज् वा’ (५.१.१२२) इति। प्रथिमा। पार्थवम्। पृथुत्वम्। पृथुता। म्रदिमा। मार्दवम्। मृदुत्वम्। मृदुता। अपवादैः सह समावेशार्थं वचनम्। कर्मणि च विधानार्थं ‘गुणवचनब्राह्मणादिभ्यः कर्मणि च’ (५.१.१२४) इति। चकारो नञ्स्नञ्भ्यामपि समावेशार्थः। स्त्रिया भावः स्त्रैणम्। स्त्रीत्वम्। स्त्रीता। पुंसो भावः। पुंस्त्वम्। पुंस्ता। पौंस्नम्॥

न नञ्पूर्वात् तत्पुरुषादचतुरसंगतलवणवटबुधकतरसलसेभ्यः॥ ५.१.१२१॥

इत उत्तरे ये भावप्रत्ययाः ते नञ्पूर्वात् तत्पुरुषाद् न भवन्ति चतुरादीन् वर्जयित्वा। वक्ष्यति-‘पत्यन्तपुरोहितादिभ्यो यक्’ (५.१.१२८) इति। अपतित्वम्। अपतिता। अपटुत्वम्। अपटुता। अरमणीयत्वम्। अरमणीयता। नञ्पूर्वादिति किम् ? बार्हस्पत्यम्। प्राजापत्यम्। तत्पुरुषादिति किम्? नास्य पटवः सन्तीत्यपटुः, तस्य भाव आपटवम्। आलघवम्। अचतुरादिभ्य इति किम्? आचतुर्यम्। आसंगत्यम्। आलवण्यम्। आवट्यम्। आबुध्यम्। आकत्यम्। आरस्यम्। आलस्यम्॥

पृथ्वादिभ्य इमनिज् वा॥ ५.१.१२२॥

पृथु इत्येवमादिभ्यः प्रातिपदिकेभ्य इमनिच् प्रत्ययो भवति वा तस्य भाव इत्येतस्मिन्नर्थे। वावचनमणादेः समावेशार्थम्। पृथोर्भावः प्रथिमा, पार्थवम्। म्रदिमा, मार्दवम्। ‘तुरिष्ठेमेयस्सु’ (६.४.१५४), ‘टेः’ (६.४.१५५) इति टिलोपः। ‘र ऋतो हलादेर्लघोः’(६.४.१६१) इति रेफादेशः। त्वतलौ सर्वत्र भवत एव। पृथुत्वम्, पृथुता। मृदुत्वम्, मृदुता॥ पृथु। मृदु। महत्। पटु। तनु। लघु। बहु। साधु। वेणु। आशु। बहुल। गुरु। दण्ड। ऊरु। खण्ड। चण्ड। बाल। अकिंचन। होड। पाक। वत्स। मन्द। स्वादु। ह्रस्व। दीर्घ। प्रिय। वृष। ऋजु। क्षिप्र। क्षुद्र। पृथ्वादिः॥

वर्णदृढादिभ्यः ष्यञ् च॥ ५.१.१२३॥

वर्णविशेषवाचिभ्यः प्रातिपदिकेभ्यो दृढादिभ्यश्च ष्यञ् प्रत्ययो भवति, चकारादिमनिच् च, तस्य भाव इत्येतस्मिन् विषये। शुक्लस्य भावः शौक्ल्यम्, शुक्लिमा, शुक्लत्वम् शुक्लता। कार्ष्ण्यम् कृष्णिमा, कृष्णत्वम्, कृष्णता। दृढादिभ्यः- दार्ढ्यम्, द्रढिमा, दृढत्वम्, दृढता। षकारो ङीषर्थः। औचिती। याथाकामी॥ दृढ। परिवृढ। भृश। कृश। चक्र। आम्र। लवण। ताम्र। अम्ल। शीत। उष्ण। जड। बधिर। पण्डित। मधुर। मूर्ख। मूक। वेर्यातलाभमतिमनः शारदानाम् (ग०सू० ११४)। समो मतिमनसोः (ग०सू० ११५)। दृढादिः॥

गुणवचनब्राह्मणादिभ्यः कर्मणि च ॥ ५.१.१२४॥

गुणमुक्तवन्तो गुणवचनाः। गुणवचनेभ्यो ब्राह्मणादिभ्यश्च तस्येति षष्ठीसमर्थेभ्यः कर्मण्यभिधेये ष्यञ् प्रत्ययो भवति, चकाराद् भावे च। कर्मशब्दः क्रियावचनः। जडस्य भावः कर्म वा जाड्यम्। ब्राह्मणादिभ्यः खल्वपि- ब्राह्मण्यम्। माणव्यम्। आ पादपरिसमाप्तेर्भावकर्माधिकारः। ब्राह्मणादिराकृतिगणः। आदिशब्दः प्रकारवचनः॥ चातुर्वर्ण्यादीनां स्वार्थ उपसंख्यानम्॥ चत्वार एव वर्णाश्चातुर्वर्ण्यम्। चातुराश्रम्यम्। त्रैलोक्यम्। त्रैस्वर्यम्। षाड्गुण्यम्। सैन्यम्। सान्निध्यम्। सामीप्यम्। औपम्यम्। सौख्यम्॥ ब्राह्मण। वाडव। माणव। चोर । मूक। आराधय। विराधय। अपराधय। उपराधय। एकभाव। द्विभाव। त्रिभाव। अन्यभाव। समस्थ। विषमस्थ। परमस्थ। मध्यमस्थ। अनीश्वर। कुशल। कपि। चपल। अक्षेत्रज्ञ। निपुण। अर्हतो नुम् च (ग०सू० ११६)। आर्हन्त्यम्। संवादिन्। संवेशिन्। बहुभाषिन्। बालिश। दुष्पुरुष। कापुरुष। दायाद। विशसि। धूर्त। राजन्। संभाषिन्। शीर्षपातिन्। अधिपति। अलस। पिशाच। पिशुन। विशाल। गणपति। धनपति। नरपति। गडुल। निव। निधान। विष। सर्ववेदादिभ्यः स्वार्थे (ग०सू०११७)। चतुर्वेदस्योभयपदवृद्धिश्च (ग०सू० ११८)। चातुर्वैद्यम्। ब्राह्मणादिः॥

स्तेनाद् यन् नलोपश्च॥ ५.१.१२५॥

स्तेनशब्दात् षष्ठीसमर्थात् भावकर्मणोर्यत् प्रत्ययो भवति, नशब्दस्य लोपश्च भवति। स्तेनस्य भावः कर्म वा स्तेयम्। स्तेनादिति केचिद् योगविभागं कुर्वन्ति। स्तेनात् ष्यञ् भवति। स्तैन्यम्। ततो यन्नलोपश्च। स्तेयम्॥

सख्युर्यः॥ ५.१.१२६॥

सखिशब्दाद् यः प्रत्ययो भवति भावकर्मणोरर्थयोः। सख्युर्भावः कर्म वा सख्यम्॥ दूतवणिग्भ्यां चेति वक्तव्यम्॥ दूत्यम्। वणिज्यम्। कथं वाणिज्यम्? ब्राह्मणादित्वात्॥

कपिज्ञात्योर्ढक् ॥ ५.१.१२७॥

कपिज्ञातिशब्दाभ्यां ढक् प्रत्ययो भवति भावकर्मणोरर्थयोः। कपेर्भावः कर्म वा कापेयम्। ज्ञातेयम्। यथासंख्यमर्थयोः सर्वत्रैवात्र प्रकरणे नेष्यते॥

पत्यन्तपुरोहितादिभ्यो यक् ॥ ५.१.१२८॥

पत्यन्तात् प्रातिपदिकात् पुरोहितादिभ्यश्च यक् प्रत्ययो भवति भावकर्मणोरर्थयोः। सेनापतेर्भावः कर्म वा सैनापत्यम्। गार्हपत्यम्। प्राजापत्यम्। पौरोहित्यम्। राज्यम्॥ पुरोहित। राजन्। संग्रामिक। एषिक। वर्मित। खण्डिक। दण्डिक। छत्रिक। मिलिक। पिण्डिक। बाल। मन्द। स्तनिक। चूडितिक। कृषिक। पूतिक। पत्रिक। प्रतिक। अजानिक। सलनिक। सूचिक। शाक्वर। सूचक। पक्षिक। सारथिक। जलिक। सूतिक। अञ्जलिक। राजासे (ग०सू० ११९)। पुरोहितादिः॥

प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् ॥ ५.१.१२९॥

प्राणभृज्जातिवाचिभ्यः प्रातिपदिकेभ्यो वयोवचनेभ्य उद्गात्रादिभ्यश्च अञ् प्रत्ययो भवति भावकर्मणोरर्थयोः। अश्वस्य भावः कर्म वा आश्वम्। औष्ट्रम्। वयोवचनेभ्यः-कौमारम्। कैशोरम्। उद्गात्रादिभ्यः-औद्गात्रम्। औन्नेत्रम्॥ उद्गातृ। उन्नेतृ। प्रतिहर्तृ। रथगणक। पक्षिगणक। सुष्ठु। दुष्ठु। अध्वर्यु। वधू। सुभग मन्त्रे (ग०सू०१२०) उद्गात्रादिः॥

हायनान्तयुवादिभ्योऽण् ॥ ५.१.१३०॥

हायनान्तेभ्यः प्रातिपदिकेभ्यो युवादिभ्यश्चाण् प्रत्ययो भवति भावकर्मणोरर्थयोः। द्विहायनस्य भावः कर्म वा द्वैहायनम्। त्रैहायनम्। युवादिभ्यः- यौवनम्। स्थाविरम्॥ श्रोत्रियस्य यलोपश्च वाच्यः॥ श्रोत्रियस्य भावः कर्म वा श्रौत्रम्॥ युवन्। स्थविर। होतृ। यजमान। कमण्डलु। पुरुषासे (ग०सू० १२१) सुहृत्। यातृ। श्रवण। कुस्त्री। सुस्त्री। सुहृदय। सुभ्रातृ। वृषल। दुर्भ्रातृ। हृदयासे (ग०सू० १२२)। क्षेत्रज्ञ। कृतक। परिव्राजक। कुशल। चपल। निपुण। पिशुन। सब्रह्मचारिन्। कुतूहल। अनृशंस। युवादिः॥

इगन्ताच्च लघुपूर्वात् ॥ ५.१.१३१॥

इगन्ताच्च लघुपूर्वादण् प्रत्ययो भवति भावकर्मणोः। लघुपूर्वग्रहणेन प्रातिपदिकसमुदायो विशेष्यते। लघुः पूर्वोऽवयवोऽस्येति लघुपूर्वः। कुतः पुनरसौ लघुः पूर्वः? इक्संनिधानादिक इति विज्ञायते। लघुः पूर्वो यस्मादिकः तदन्तात् प्रातिपदिकादित्ययमर्थो विवक्षितः। अपरे तत्पुरुषकर्मधारयं वर्णयन्ति। इक् चासावन्तश्चेतीगन्तः। लघुपूर्वग्रहणेन स एव विशेष्यते। पश्चात् तेन प्रातिपदिकस्य तदन्तविधिरिति। अस्मिन् व्याख्यानेऽन्तग्रहणमतिरिच्यते। लघुपूर्वादिक इत्येतावदेव वाच्यं स्यात्। शुचेर्भावः कर्म वा शौचम्। मौनम्। नागरम्। हारीतकम्। पाटवम्। लाघवम्। इगन्तादिति किम्? पटत्वम्। घटत्वम्। लघुपूर्वादिति किम्? कण्डूत्वम्। पाण्डुत्वम्। कथं काव्यमिति ? ब्राह्मणादिषु कविशब्दो द्रष्टव्यः॥

योपधाद् गुरूपोत्तमाद् वुञ्॥ ५.१.१३२॥

त्रिप्रभृतीनामन्तस्य समीपमुपोत्तमम्। गुरुरुपोत्तमं यस्य तद् गुरूपोत्तमम्। यकारोपधाद् गुरूपोत्तमाद् वुञ् प्रत्ययो भवति भावकर्मणोः। रमणीयस्य भावः कर्म वा रामणीयकम्। वासनीयकम्। योपधादिति किम्? विमानत्वम्। गुरूपोत्तमादिति किम्? क्षत्रियत्वम्॥ सहायाद् वेति वक्तव्यम्॥ साहायकम्, साहाय्यम्॥

द्वन्द्वमनोज्ञादिभ्यश्च॥ ५.१.१३३॥

द्वन्द्वसंज्ञकेभ्यो मनोज्ञादिभ्यश्च वुञ् प्रत्ययो भवति भावकर्मणोः। गोपालपशुपालानां भावः कर्म वा गौपालपशुपालिका। शैष्योपाध्यायिका। कौत्सकुशिकिका। मनोज्ञादिभ्यः-मानोज्ञकम्। काल्याणकम्॥ मनोज्ञ। कल्याण। प्रियरूप। छान्दस। छात्र। मेधाविन्। अभिरूप। आढ्य। कुलपुत्र। श्रोत्रिय। चोर। धूर्त। वैश्वदेव। युवन्। ग्रामपुत्र। ग्रामखण्ड। ग्रामकुमार। अमुष्यपुत्र। अमुष्यकुल। शतपुत्र। कुशल। मनोज्ञादिः॥

गोत्रचरणाच् छ्लाघात्याकारतदवेतेषु॥ ५.१.१३४॥

गोत्रवाचिनश्चरणवाचिनश्च प्रातिपदिकाद् वुञ् प्रत्ययो भवति, प्रत्येकं भावकर्मणोरर्थयोः श्लाघादिषु विषयभूतेषु। तत्र श्लाघा विकत्थनम्। अत्याकारः पराधिक्षेपः। तदवेतस्तत्प्राप्तस्तज्ज्ञो वा। तदिति गोत्रचरणयोर्भावकर्मणी निर्दिश्येते। तत्प्राप्तस्तदवगतवान् तदवेत इत्युच्यते। श्लाघायां तावत्-गार्गिकया श्लाघते। काठिकया श्लाघते। गार्ग्यत्वेन कठत्वेन च विकत्थत इत्यर्थः। अत्याकारे गार्गिकयात्याकुरुते। काठिकयात्याकुरुते। गार्ग्यत्वेन कठत्वेन च परानधिक्षिपतीत्यर्थः। तदवेतः-गार्गिकामवेतः। काठिकामवेतः। गार्ग्यत्वं कठत्वं च प्राप्त इत्यर्थः। तद् वावगतवानित्यर्थः। श्लाघादिष्विति किम्? गार्ग्यत्वम्। कठत्वम्॥

होत्राभ्यश्छः॥ ५.१.१३५॥

होत्राशब्द ऋत्विग्विशेषवचनः। ऋत्विग्विशेषवाचिभ्यश्छः प्रत्ययो भवति भावकर्मणोः। अच्छावाकस्य भावः कर्म वा अच्छावाकीयम्। मित्रावरुणीयम्। ब्राह्मणाच्छंसीयम्। आग्नीध्रीयम्। प्रतिप्रस्थात्रीयम्। त्वष्ट्रीयम्। पोत्रीयम्। बहुवचनं स्वरूपविधिनिरासार्थम्॥

ब्रह्मणस्त्वः॥ ५.१.१३६॥

होत्राभ्य इत्यनुवर्तते। ब्रह्मन्शब्दाद् होत्रावाचिनस्त्वः प्रत्ययो भवति भावकर्मणोः। छस्यापवादः। ब्रह्मणो भावः कर्म वा ब्रह्मत्वम्। नेति वक्तव्ये त्ववचनं तलो बाधनार्थम्। यस्तु जातिशब्दो ब्राह्मणपर्यायो ब्रह्मन्शब्दः, ततस्त्वतलौ भवत एव। ब्रह्मत्वम्। ब्रह्मता। भवनावधिकयोर्नञ्स्नञोरधिकारः समाप्तः॥

॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ पञ्चमाध्यायस्य प्रथमः पादः॥