०२२ समधि (सम्+अधि)

इङ्

  • {समधी}
  • इङ् (इङ् अध्ययने)।
  • ‘दश लक्षणानि धर्मस्य ये विप्राः समधीयते।’ (मनु० ६|९३)। समधीयते=सम्यगधीयते।
  • ‘समधीतं मया ब्रह्म’ (भा० वन० १३८।२४)।

गम्

  • {समधिगम्}
  • गम् (गम्लृ गतौ)
  • ‘हन्तुं समधिगच्छति’ (रा० २।८४।५)। समधिगच्छति=उपैति, उपक्रामति।
  • ‘यत्ते समधिगच्छन्ति यस्य ते तस्य तद् धनम्’ (मनु० ८।४१६)। समधिगच्छन्ति=अर्जयन्ति, प्राप्नुवन्ति, अधिकुर्वते।
  • ‘यो भारतं समधिगच्छति वाच्यमानम्’ (हरि० १।१।२)। समधिगच्छति=शृणोति।

स्था

  • {समधिस्था}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘जीवन्मुक्तमाना मान्यो विश्वामित्रोप्ययंप्रभुः। वेदोक्तां मखनिर्माणक्रियां समधितिष्ठति’ (यो० वा० ५।७५।२३)। समधितिष्ठति=स्वाधिकारे स्थापयति=अवेक्षते।