११२ विनिस् (वि+निस्)

कृन्त्

  • {विनिष्कृन्त्}
  • कृन्त् (कृती छेदने)।
  • ‘तेषां गुदेभ्यश्चान्त्राणि विनिष्कृन्तन्ति’ (वामन० १२।२५)। निष्कृष्य कृन्तन्तीत्यर्थः।

चर्

  • {विनिश्चर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘स यथार्द्रैधाग्नेरभ्याहितस्य पृथग् धूमा विनिश्चरन्ति’ (श० ब्रा० १४।५।४।१०)। विनिश्चरन्ति निष्क्रामन्ति।

तप्

  • {विनिष्टप्}
  • तप् (तप सन्तापे)।
  • ‘(मत्स्यान्) पक्वान् विनिष्टप्तान्’ (रा० ३।७६।१०)। विनिष्टप्ता बाढं तप्ताः।

दिश्

  • {विनिर्दिश्}
  • दिश् (दिश अतिसर्जने)।
  • ‘गजानां च परीमाणमेतदेव विनिर्दिशेत्’ (भा० आदि० २।२४)। लक्षयेत्, परिच्छिन्द्यात्।
  • ‘तत्र (देशे) शल्यमभिनिर्दिशेत्’ (सुश्रुत० १।९८।१७)। विद्यात्, जानीयात्, वेदयेद्वा।
  • ‘शुद्धिं तस्य विनिर्दिशेत्’ (याज्ञ० २।१११)॥ शंसेत् कीर्तयेद् घोषयेद्वेत्यर्थः।
  • ‘यमेवंलक्षणं विद्यात्तममित्रं विनिर्दिशेत्’ (भा० शां० ८०।१५)।
  • ‘एककार्ये विनिर्दिष्टो यो बहून्यपि साधयेत्’ (रा० ५।३७।३२)। विनिर्दिष्टो व्यादिष्ट आज्ञप्तः।

धू

  • {विनिर्धू}
  • धू (धू विधूनने, धूञ् कम्पने)।
  • ‘अन्तरीक्षाद् विनिर्धूतास्तस्य वेगेन राक्षसाः। भूमौ निपतिताः…’ (रा० ६।१६।८९)। विनिर्धूताः पराक्षिप्ता उत्सारिताः पराणुन्नाः।

पत्

  • {विनिष्पत्}
  • पत् (पत्लृ गतौ)।
  • ‘तस्माद् वनगहनाद् विनिष्पपात’ (अवदा० जा० २६)। निश्चक्रामेत्यर्थः।
  • ‘वानर्यो विनिष्पेतुर्गुहामुखात्’ (रा० ४।१९।४)। उक्तोऽर्थः।
  • ‘शशवच्च विनिष्पतेत्’ (मनु० ७।१०६)। उत्प्लुत्य पलायेतेत्यर्थः।
  • ‘परिभ्रमति चित्राणि मण्डलानि विनिष्पतन्’ (रा० ३।४२।२७)। विनिष्पतन् संचरन्।

पिष्

  • {विनिर्पिष्}
  • पिष् (पिष्लृ संचूर्णने)।
  • ‘विनिष्पिपेष चात्मानं प्रगृह्य सुभुजा भुजौ’ (रा० ४।२।१९)। विनिष्पिपेष संचूर्णयामास।

लिख्

  • {विनिर्लिख्}
  • लिख् (लिख अक्षरविन्यासे)।
  • ‘तस्माज्जिह्वां विनिर्लिखेत्।’ सङ्घर्षेदित्यर्थः।

या

  • {विनिर्या}
  • या (या प्रापणे)।
  • ‘षष्टिः पुत्रसहस्राणि भिन्ने तुम्बे विनिर्ययुः’ (रा० गोरे० १।४०।१७)।
  • ‘यथा मात्रा कृतास्तस्माद् (हृदयात्) उपदेशा विनिर्ययुः’ (काठक० १२।८१)।

युज्

  • {विनिर्युज्}
  • युज् (युजिर् योगे)।
  • ‘मयैकेन विनिर्युक्तः परिमुञ्चस्व राघव (रा० ३।६९।३९)। विनिर्युक्तः=वियुक्तः।

वप्

  • {विनिर्वप्}
  • वप् (डुवप बीजसन्ताने)।
  • ‘विनिरुप्तेऽभ्युदिते प्राकृतीभ्यश्शेषं तण्डुलभूतेष्वपनयेत्’ (आप० श्रौ० ९।१४।७८)। विनिरुप्तेऽर्धनिरुप्ते।

वृत्

  • {विनिर्वृत्}
  • वृत् (वृतु वर्तने)।
  • ‘स्वशरीराद् विनिर्वृत्ताश्चत्वार इव बाहवः’ (रा० २।१।५)। विनिर्वृत्ताः संभूता उद्भूताः।
  • ‘साक्षाद् रामाद् विनिर्वृत्तो धर्मश्चापि श्रिया सह’ (रा० २।२।२९)। उक्तोऽर्थः।

हन्

  • {विनिर्हन्}
  • हन् (हन हिंसागत्योः)।
  • ‘दोषाणां तु विनिर्घातः’ (आप० ध० १।८।२३।३)। विनिर्घातोऽपनोदोऽपाकरणम्।

हृ

  • {विनिर्हृ}
  • हृ (हृञ् हरणे)।
  • ‘पक्वाशयगतान्दोषान्स्रंसनेन विनिर्हरेत्’ (का० सं० खिल० अम्ल० श्लो० ३०)। विनिर्हरेत् अपनयेत्, विगमयेत्।