यत्, ण्यत्

अजन्तधातुभ्यः कर्मपदस्य निर्देशार्थम् “३.१.९७ अचो यत्” इति सूत्रेण यत् इति कृत्प्रत्ययः विधीयते ।

यथा, गै + यत् → गेय । एवमेव, चेयम्, पेयम्, देयम् ।

ऋकारान्तधातुभ्यः, हलन्तधातुभ्यः च कर्मपदस्य निर्देशार्थम् “३.१.१२४ ऋहलोर्ण्यत्” इति सूत्रेण ण्यत् इति कृत्प्रत्ययः विधीयते ।

यथा, कृ + ण्यत् → कार्य । पठ् + ण्यत् → पाठ्य । एवमेव - हार्यम्, तार्यम्, लेख्यम्, वाद्यम्, क्रीड्यम् ।

यदि हलन्तधातोः अन्ते चकारः / जकारः वर्तते, तर्हि ण्यत्-प्रत्यये परे “७.३.५२ चजोः कु घिण्ण्यतोः” इति सूत्रेण चकारस्य ककारादेशः, जकारस्य च गकारादेशः भवति ।

  • यथा, पच् + ण्यत् → पाक्य । वच् + ण्यत् → वाक्य । युज् + ण्यत् → योग्यम् । भज् + ण्यत् → भाग्यम् ।

विभज्यम्

“वि + भज् (सेवायाम्, भ्वादिः)” इति धातुः अपि हलन्तः, अतः “३.१.१२४ ऋहलोर्ण्यत्” इति सूत्रेण ण्यत् प्रत्यये कृते, अग्रे “७.३.५२ चजोः कु घिण्ण्यतोः” इति सूत्रेण जकारस्य गकारादेशे कृते, “विभाग्यम्” इति रूपं भवेत् ।

परन्तु तादृशः प्रयोगः नैव दृश्यते । अपितु, “५.३.५७ द्विवचनविभज्योपपदे तरबीयसुनौ” इति सूत्रे “विभज्य” इति शब्दः प्रयुक्तः अस्ति, यः “वि + भज्” इत्यस्मात् यत्-प्रत्ययं कृत्वा सिद्ध्यति ।

अतः वि +भज्-धातोः यत्-प्रत्ययः भवति इति निर्णयः ।

“बाधकान्य् एव निपातनानि” (परिभाषा ११९) इति परिभाषाम् अनुसृत्य अयं यत् प्रत्ययः ण्यत्-प्रत्ययं नित्यं बाधते ।+++)(+++)

ननु च ऋहलोर्ण्यत् इति ण्यति कृते विभाग्य इति भवितव्यम्, कथं विभज्य इति निर्देश उपपद्यते ? इत्याह ‘निपातनाद्भवति’ इति — न्यासः ।

ऋहलोर्ण्यत् इति ण्यतोऽपवादः, तेन विभाग्यम् इति नैव भवति — पदमञ्जरी ।

ऋहलोर्ण्यत् इति ण्यति प्राप्ते तदपवादो यत् निपात्यते । ण्यति तु चजोः कुः घिण्ण्यतोः इति कुत्वेन विभाग्यम् इति स्यात् — तत्त्वबोधिनी ।