बहुव्रीहौ

स्वाङ्गे

अद्रवं मूर्तिमत् स्वाङ्गं
प्राणिस्थम् अविकारजम् ।
अतत्-स्थं तत्र दृष्टं च
तेन चेत् तथायुतम् ॥

अनया कारिकया स्वाङ्गम् इत्यस्य व्याख्या दीयते । द्रवभिन्नः पदार्थः, यः मूर्तिमान् अस्ति (something that has a material-existence), प्राणिस्थः अस्ति परन्तु रोगनिर्मितः नास्ति, तस्य स्वाङ्गम् इत्यनेन निर्देशः क्रियते । अस्यां कारिकायाम् अन्ययोः द्वयोः पदार्थयोः अपि स्वाङ्गसंज्ञा दीयते परन्तु सः विषयः अत्र नापेक्षितः ।

  • अद्रवम्‌ — अश्रूणि / मुखरसः इति स्वाङ्गं न ।
  • मूर्तिमत् — बुद्धिः / ज्ञानम् इति स्वाङ्गं न ।
  • अविकारजम् — स्फोटः / गण्डः इति स्वाङ्गं न ।

स्वाङ्गस्य उदाहरणानि — नखः, मुखम्, केशाः, कण्ठः —‌ आदयः ।

यस्मिन् बहुव्रीहिसमासे स्वाङ्गवाचकः शब्दः विद्यते, तस्य विषये स्त्रीत्वे विवक्षिते ङीष् तथा टाप् इति द्वौ स्त्रीप्रत्ययौ भवितुम् अर्हतः । यथा, चन्द्रः इव मुखम् यस्याः सा = चन्द्रमुखा / चन्द्रमुखी । अतिक्रान्ता केशान् = अतिकेशा / अतिकेशी । अयं सामान्यनियमः । अस्य केचन अपवादाः सन्ति - परन्तु तेषाम् अध्ययनम् अत्र नावश्यकम् ।

स्वाङ्गयुक्तस्य बहुव्रीहिसमासघटितस्य स्त्रीत्वविवक्षायां टाप्-प्रत्ययः अवश्यमेव भवति अतः सर्वत्र (संज्ञास्थलेषु तद्भिन्नस्थलेषु च) टाप्-क्रियते चेदपि न दोषाय । ङीष्-प्रत्ययः तु विशिष्टस्थलेषु एव प्रवर्तते । तादृशान् स्थलान् अजानद्भिः प्राचीनैः अपि “तन्वङ्गा” इत्यस्य स्थाने “तन्वङ्गी”, “कलकण्ठा” इत्यस्य स्थाने “कलकण्ठी”, “सुगात्रा” इत्यस्य स्थाने “सुगात्री” इति अशुद्धाः प्रयोगाः कृताः दृश्यते । एते सर्वे अपभ्रंशाः इत्येव , इति अस्मिन् सन्दर्भे बालमनोरमाकारस्य मतम् । भाष्यानुक्तत्वाद् एते अप्रामाणिकाः इति अत्र दीक्षितमतम् ।

संज्ञायाम्

परन्तु, यत्र बहुव्रीहिसमासेन संज्ञा सिद्ध्यति, तत्र नखः / मुखम् — इति स्वाङ्गवाचकः शब्दः विद्यते तत्र “४.१.५८ नखमुखात् संज्ञायाम्” इत्यनेन ङीष्-प्रत्ययस्य निषेधः भवति, अतः तत्र टाप्-प्रत्ययः एव विधीयते —

  • शूर्पाणि इव कररुहाः यस्याः सा = शूर्पणखा (इति राक्षस्याः संज्ञा) । अत्र णत्वम् अपि “८.४.३ पूर्वपदात् संज्ञायाम् अगः” इत्यनेन संज्ञायाः कारणात् एव । अत्र अ-स्व-पद-विग्रहः एव वक्तव्यः इति नियमः ।+++(कुतः??)+++

यत्र संज्ञायाः प्रसङ्गः नास्ति तत्र तु ङीष् विकल्पेन अवश्यं भवति, परन्तु तत्र णत्वं न भवति । अतः शूर्पाणि इव नखाः यस्याः सा = शूर्पनखा / शूर्पनखी इति द्वे रूपे ।

एवमेव, “चन्द्रः इव मुखम् अस्याः सा = चन्द्रमुखा” (संज्ञा) । संज्ञाभिन्नपक्षे तु चन्द्रमुखा, चन्द्रमुखी इति उभयथा ।