२६३ अनुव्याङ् (अनु+वि+आङ्)

हृ

  • {अनुव्याहृ}
  • हृ (हृञ् हरणे)।
  • ‘तदाहुः प्रावृतोऽनेजन्नुद्गायेत् नेन्मोपद्रष्टा ऽनुव्याहरादिति’ (जै० ब्रा० १।१३८)। अनुपश्चादव्याहरेदित्यर्थः।
  • ‘तान् लुशाकपिः खार्गलिरनु व्याहरत्’ (पञ्च० ब्रा० १७।४।३)। अनुव्याहरत्=अशपत्।
  • ‘ताननुव्याजहार’ (विश्वामित्रः) (ऐ० ब्रा० ७।१८)। शापरूपवचनमुक्तवानिति सायणः।