०१

सर्वस्य द्वे॥ ८.१.१॥

सर्वस्येति च द्वे इति चैतदधिकृतं वेदितव्यम् । इत उत्तरं यद् वक्ष्यामः प्राक् ‘पदस्य’ (८.१.१६) इत्यतः, सर्वस्य द्वे भवत इत्येवं तद् वेदितव्यम्। वक्ष्यति-‘नित्यवीप्सयोः’ (८.१.४) इति, तत्र सर्वस्य स्थाने द्वे भवतः। के द्वे भवतः? ये शब्दतश्चार्थतश्चोभयथान्तरतमे। एकस्य पचतिशब्दस्य द्वौ पचतिशब्दौ भवतः। पचतिपचति। ग्रामोग्रामो रमणीयः। यदा तु द्विःप्रयोगो द्विर्वचनं तदा स एव पचतिशब्दो द्विरावर्तते, तस्य द्वे आवृत्ती भवतः। सर्वस्येति किम्? विस्पष्टार्थम्। अथ पदस्येत्येव कस्माद् नोच्यते? नैवं शक्यम्, इह हि न स्यात्-प्रपचतिप्रपचतीति। इह द्रोग्धा, द्रोढा इति घत्वढत्वयोरसिद्धत्वादकृतयोरेव तयोर्द्विर्वचनं प्राप्नोति, तत्र पश्चाद्विकल्पे सत्यनिष्टमपि स्यात्-द्रोग्धाद्रोढा, द्रोढाद्रोग्धेति। तस्माद् वक्तव्यमेतत्-‘पूर्वत्रासिद्धीयमद्विर्वचने’ इति। सर्वस्येत्येतदेव वा कृतं सर्वकार्यप्रतिपत्त्यर्थं द्रष्टव्यम्॥

तस्य परमाम्रेडितम्॥ ८.१.२॥

तस्य द्विरुक्तस्य यत् परं शब्दरूपं तदामे्रडितसंज्ञं भवति। चौरचौर३, वृषलवृषल३, दस्योदस्यो३ घातयिष्यामि त्वा, बन्धयिष्यामि त्वा। आम्रेडितप्रदेशाः- ‘आमे्रडितं भर्त्सने’ (८.२.९५) इत्येवमादयः॥

अनुदात्तं च॥ ८.१.३॥

अनुदात्तं च तद् भवति यदामे्रडितसंज्ञम्। भुङ्क्तेभु॒ङ्क्ते॒। पशून्प॒शू॒न्॥

नित्यवीप्सयोः॥ ८.१.४॥

नित्ये चार्थे वीप्सायां च यद् वर्तते तस्य द्वे भवतः। केषु नित्यता? तिङ्षु नित्यताव्ययकृत्सु च। कुत एतत् ? आभीक्ष्ण्यमिह नित्यता। आभीक्ष्ण्यं च क्रियाधर्मः। यां क्रियां कर्ता प्राधान्येनानुपरमन् करोति तन् नित्यम्। पचतिप॒च॒ति॒ । जल्पतिज॒ल्प॒ति॒। भुक्त्वाभु॒क्त्वा॒ व्रजति। भोजंभो॒जं॒ व्रजति। लुनीहिलु॒नी॒हि॒ इत्येवायं लुनाति। क्त्वाणमुलोर्लोटश्च द्विर्वचनापेक्षायामेव पौनःपुन्यप्रकाशने शक्ति ः। यङ् तु तन्निरपेक्षः प्रकाशयति। पुनः पुनः पचति पापच्यत इति। यदा तु तत्र द्विर्वचनं तदा क्रियासमभिहारे पौनःपुन्यं द्रष्टव्यम्-पापच्यतेपा॒प॒च्य॒त॒ इति। अथ केषु वीप्सा ? सुप्सु वीप्सा। का पुनर्वीप्सा ? व्याप्तिविशेषविषया प्रयोक्तुरिच्छा वीप्सा। का पुनः सा ? नानावाचिनामधिकरणानां क्रियागुणाभ्यां युगपत् प्रयोक्तुर्व्याप्तुमिच्छा वीप्सा। नानाभूतार्थवाचिनां शब्दानां यान्यधिकरणानि वाच्यानि तेषां क्रियागुणाभ्यां युगपत् प्रयोक्तुर्व्याप्तुमिच्छा वीप्सा। ग्रामोग्रा॒मो॒ रमणीयः। जनपदोज॒न॒प॒दो॒ रमणीयः। पुरुषःपु॒रु॒षो॒ निधनमुपैति। यत् तिङन्तं नित्यतया प्रकर्षेण च युक्तं ततः कृतद्विर्वचनात् प्रकर्षप्रत्यय इष्यते- पचतिप॒च॒ति॒त॒रामिति। इह तु आढ्यतरमा॒ढ्य॒त॒र॒मानयेति प्रकष᐀्युक्तस्य वीप्सायोग इष्यते॥

परेर्वर्जने॥ ८.१.५॥

परीत्येतस्य वर्जनेऽर्थे द्वे भवतः। परिप॒रि॒ त्रिगर्तेभ्यो वृष्टो देवः। परिप॒रि॒ सौवीरेभ्यः। परिप॒रि॒ सर्वसेनेभ्यः। वर्जनं परिहारः। वर्जन इति किम् ? ओदनं परिषिञ्चति॥ परेर्वर्जनेऽसमासे वेति वक्तव्यम्॥ परिप॒रि॒ त्रिगर्तभ्यो वृष्टो देवः, परि त्रिगर्तेभ्यः। समासे तु तेनैवोक्तत्वाद् वर्जनस्य नैव भवति- परित्रिगर्तं वृष्टो देव इति॥

प्रसमुपोदः पादपूरणे॥ ८.१.६॥

प्र सम् उप उद् इत्येतेषां पादपूरणे द्वे भवतः, द्विर्वचनेन चेत् पादः पूर्यते। प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ (ऋ० ७.८.४)। संस॒मिद्यु॑वसे वृष॒न् (ऋ० १०.१९१.१)। उपो॑प मे॒ परा॑ मृश॒ (ऋ० १.१२६.७)। किं नोदु॑दु हर्षसे॒ दात॒वा उ॑ (ऋ० ४.२१.९)। पादपूरण इति किम् ? प्र दे॒वं दे॒व्या धि॒या (ऋ० १०.१७६.२)। सामर्थ्यात् छन्दस्येवैतद् विधानम्। भाषायामनर्थकं स्यात् प्रयोगाभावात्॥

उपर्यध्यधसः सामीप्ये॥ ८.१.७॥

उपरि अधि अधस् इत्येतेषां द्वे भवतः सामीप्ये विवक्षिते। सामीप्यं प्रत्यासत्तिः कालकृता देशकृता च। उपर्यु॒प॒रि॒ दुःखम्। उपर्यु॒प॒रि॒ ग्रामम्। अध्य॒धि॒ ग्रामम्। अधोऽधो॑ नगरम्। सामीप्य इति किम् ? उपरि चन्द्रमाः। इह कस्माद् न भवति-उपरि शिरसो घटं धारयति ? औत्तराधर्यमेव विवक्षितं न सामीप्यमिति द्विर्वचनं न भवति॥

वाक्यादेरामन्त्रितस्यासूयासंमतिकोपकुत्सनभर्त्सनेषु॥ ८.१.८॥

एकार्थः पदसमूहो वाक्यम्। वाक्यादेरामन्त्रितस्य द्वे भवतः, असूयासंमतिकोप-कुत्सनभर्त्सनेषु यदि तद् वाक्यं भवति। तत्र परगुणानामसहनमसूया। पूजा संमतिः। कोपःक्रोधः। निन्दनं कुत्सनम्। अपकारशब्दैर्भयोत्पादनं भर्त्सनम्। एते च प्रयोक्तृधर्माः, नाभिधेयधर्माः। असूयायां तावत्-मा॒ण॒व॒क॑३ माणवक, अ॒भि॒रू॒प॒क॑३ अभिरूपक रिक्तं त आभिरूप्यम्। संमतौ- मा॒ण॒व॒क॑३, माणवक, अ॒भि॒रू॒प॒क॑३ अभिरूपक शोभनः खल्वसि। कोपे-मा॒ण॒व॒क॑३ माणवक, अ॒वि॒नी॒त॒क॑३ अविनीतक इदानीं ज्ञास्यसि जाल्म। कुत्सने-श॒क्ति॒के॑३ शक्तिके, य॒ष्टि॒के॑३ यष्टिके रिक्ता ते शक्तिः। भर्त्सने-चौर॑चा॒ैर३, वृष॑लवृष॒ल३ घातयिष्यामि त्वा, बन्धयिष्यामि त्वा। असूयादिषु ‘स्वरितमाम्रेडितेऽसूयासंमतिकोपकुत्सनेषु’ (८.२.१०३) इति पूर्वपदस्य प्लुतः। भर्त्सने तु ‘आमे्रडितं भर्त्सने’ (८.२.९५) इत्यामे्रडितस्यैव प्लुतः। वाक्यादेरिति किम्? अन्तस्य मध्यस्य च मा भूत्। शोभनः खल्वसि माणवक। आमन्त्रितस्येति किम्? उदारो देवदत्तः। असूयादिष्विति किम्? देवदत्त गामभ्याज शुक्लाम्॥

एकं बहुव्रीहिवत्॥ ८.१.९॥

एकमित्येतत् शब्दरूपं द्विरुक्तं बहुव्रीहिवद् भवति। बहुव्रीहिवत्त्वे प्रयोजनं सुब्लोपपुंवद्भावौ। एकै॑कमक्षरं पठति। एक॑ैकयाहुत्या जुहोति। सर्वनामसंज्ञाप्रतिषेधस्वरसमासान्ताः समासाधिकारविहिते बहुव्रीहौ विज्ञायन्ते। तेनातिदेशिके बहुव्रीहौ न भवन्ति। एकै॑कस्मै। ‘न बहुव्रीहौ’ (१.१.२९) इति प्रतिषेधो न भवति, बहुव्रीहिरेव यो बहुव्रीहिरिति विज्ञानात्। नन॑, सुसु॑। ‘नञ्सुभ्याम्’ (६.२.१७२) इत्यन्तोदात्तत्वं न भवति। ऋग्ऋक्, पूःपूः। ‘ऋक्पूः०’ (५.४.७४) इति समासान्तो न भवति॥

आबाधे च॥ ८.१.१०॥

आबाधनमाबाधः, पीडा प्रयोक्तृधर्मः, नाभिधेयधर्मः। तत्र वर्तमानस्य द्वे भवतः। बहुव्रीहिवत् चास्य कार्यं भवति। ग॒तग॑तः। न॒ष्टन॑ष्टः। प॒ति॒तप॑तितः। ग॒तग॑ता। न॒ष्टन॑ष्टा। प॒ति॒तप॑तिता। प्रियस्य चिरगमनादिना पीड्यमानः कश्चिदेवं प्रयुङ्क्ते प्रयोक्ता॥

कर्मधारयवदुत्तरेषु॥ ८.१.११॥

इत उत्तरेषु द्विर्वचनेषु कर्मधारयवत् कार्यं भवतीत्येतद् वेदितव्यम्। कर्मधारयवत्त्वे प्रयोजनं सुब्लोपपुंवद्भावान्तोदात्तत्वानि। सुब्लोपः-पटुपटुः। मृदुमृदुः। पण्डितपण्डितः। पुंवद्भावः-पटुपट्वी। मृदुमृद्वी। कालककालिका। कोपधाया अपि हि कर्मधारयवद्भावात् ‘पुंवत्कर्मधारय०’ (६.३.४२) इति पुंवद्भावो भवति। अन्तोदात्तत्वम्-प॒टु॒प॒टुः। प॒टु॒प॒ट्वी। समासान्तोदात्तत्वमनेनैव विधीयत इति परत्वादामे्रडितानुदात्तत्वं बाध्यते। अधिकारेणैव सिद्धे यदुत्तरेष्विति वचनं तद् विस्पष्टार्थम्॥

प्रकारे गुणवचनस्य॥ ८.१.१२॥

प्रकारो भेदः सादृश्यं च। तदिह सादृश्यं प्रकारो गृह्यते। प्रकारे वर्तमानस्य गुणवचनस्य द्वे भवतः। प॒टु॒प॒टुः। मृ॒दु॒मृ॒दुः। प॒ण्िड॒त॒प॒ण्डि॒तः। अपरिपूर्णगुण इत्यर्थः। परिपूर्णगुणेन न्यूनगुणस्योपमाने सत्येवं प्रयुज्यते। जातीयरोऽनेन द्विर्वचनेन बाधनं नेष्यते। प॒टु॒जा॒तीयः॑, मृ॒दु॒जा॒तीयः॑ इत्यपि हि भवति। तत् कथम्? वक्ष्यमाणमन्यतरस्यांग्रहणमुभयोः शेषो विज्ञायते। प्रकार इति किम् ? पटुर्देवदत्तः। गुणवचनस्येति किम् ? अग्निर्माणवकः। गौर्वाहीकः। यद्यप्यत्राग्निशब्दो गोशब्दश्च मुख्यार्थसंबन्धाद् अवधृतभेदं तैक्ष्ण्यजाड्यादिकमर्थान्तरे गुणविशेषमेव प्रतिपादयितुं प्रवृत्तः, तथापि सर्वदा गुणवचनो न भवतीति न द्विरुच्यते॥ आनुपूर्व्ये द्वे भवत इति वक्तव्यम्॥ मूलेमूले स्थूलाः। अग्रेऽग्रे सूक्ष्माः। ज्येष्ठंज्येष्ठं प्रवेशय॥ स्वार्थेऽवधार्यमाणेऽनेकस्मिन् द्वे भवत इति वक्तव्यम्॥ अस्मात् कार्षापणादिह भवद्भ्यां माषंमाषं देहि। स्वार्थ एतद् द्विर्वचनम्, न वीप्सायाम्। अत्र हि द्वावेव माषौ दीयेते, न सर्वे कार्षापणसंबन्धिनो माषाः। तेन वीप्सा न विद्यते। अवधार्यमाण इति किम् ? अस्मात् कार्षापणादिह भवद्भ्यां माषमेकं देहि, द्वौ माषौ देहि, त्रीन् वा माषान् देहि। अनेकस्मिन्निति किम्? अस्मात् कार्षापणादिह भवद्भ्यां माषमेकं देहि ॥ चापले द्वे भवत इति वक्तव्यम्॥ संभ्रमेण प्रवृत्तिश्चापलम्। अहिरहिः, बुध्यस्वबुध्यस्व। नावश्यं द्वावेव शब्दौ प्रयोक्तव्यौ। किं तर्हि ? यावद्भिः शब्दैः सोऽर्थोऽवगम्यते तावन्तः प्रयोक्तव्याः॥ अहिरहिरहिः, बुध्यस्वबुध्यस्वबुध्यस्व इति॥ क्रियासमभिहारे द्वे भवत इति वक्तव्यम्॥ स भवान् लुनीहिलुनीहीत्येवायं लुनाति॥ आभीक्ष्ण्ये द्वे भवत इति वक्तव्यम्॥ भुक्त्वाभुक्त्वा व्रजति। भोजंभोजं व्रजति। ‘नित्य०’ (८.१.४) इत्येव सिद्धमिति तत्रोक्तम्॥ डाचि द्वे भवत इति वक्तव्यम्॥ पटपटाकरोति। पटपटायते। अव्यक्तानुकरणे डाजन्तस्य द्विर्वचनमिष्यते। इह न भवति-द्वितीयाकरोति, तृतीयाकरोति। तदर्थं केचिद् डाचि बहुलम् इति पठन्ति॥ पूर्वप्रथमयोरर्थातिशयविवक्षायां द्वे भवत इति वक्तव्यम्॥ पूर्वंपूर्वं पुष्प्यन्ति। प्रथमंप्रथमं पच्यन्ते। आतिशायिकोऽपि दृश्यते- पूर्वतरं पुष्प्यन्ति, प्रथमतरं पच्यन्त इति॥ डतरडतमयोः समसंप्रधारणयोः स्त्रीनिगदे भावे द्वे भवत इति वक्तव्यम्॥ उभाविमावाढ्यौ। कतराकतरा अनयोराढ्यता। सर्व इम आढ्याः। कतमाकतमा एषामाढ्यता। डतरडतमाभ्यामन्यत्रापि हि दृश्यते। उभाविमावाढ्यौ। कीदृशीकीदृशी अनयोराढ्यता । तथा स्त्रीनिगदाद् भावादन्यत्रापि हि दृश्यते- उभाविमावाढ्यौ, कतरःकतरोऽनयोर्विभव इति॥ कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्यं समासवच्च बहुलम्। यदा न समासवत् प्रथमैकवचनं तदा पूर्वपदस्य॥ अन्योऽन्यमिमे ब्राह्मणा भोजयन्ति। अन्योऽन्यस्य ब्राह्मणा भोजयन्ति। इतरेतरं भोजयन्ति। इतरेतरस्य भोजयन्ति॥ स्त्रीनपुंसकयोरुत्तरपदस्य वाम्भावो वक्तव्यः॥ अन्योऽन्यामिमे ब्राह्मण्यौ भोजयतः। अन्योऽन्यं भोजयतः। इतरेतरां भोजयतः। इतरेतरं भोजयतः। अन्योऽन्यामिमे ब्राह्मणकुले भोजयतः। इतरेतरमिमे ब्राह्मणकुले भोजयतः। इतरेतरमिमे ब्राह्मणकुले भोजयतः॥

अकृच्छे्र प्रियसुखयोरन्यतरस्याम्॥ ८.१.१३॥

प्रिय सुख इत्येतयोरन्यतरस्यां द्वे भवतोऽकृच्छे्र द्योत्ये। कृच्छं्र दुःखम्, तदभावोऽकृच्छ्रम्। प्रियप्रियेण ददाति। सुखसुखेन ददाति। प्रियेण ददाति। सुखेन ददाति। अखिद्यमानो ददातीत्यर्थः। अकृच्छ्र इति किम् ? प्रियः पुत्रः। सुखो रथः॥

यथास्वे यथायथम्॥ ८.१.१४॥

यो य आत्मा, यद् यदात्मीयम्, तत् तद् यथास्वम् तस्मिन् यथायथमिति निपात्यते। यथाशब्दस्य द्विर्वचनं नपुंसकलिङ्गता च निपात्यते। ज्ञाताः सर्वे पदार्था य॒था॒य॒थम्। यथा-स्वभावमित्यर्थः। सर्वेषां तु य॒था॒य॒थम्। यथात्मीयमित्यर्थः॥

द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु॥ ८.१.१५॥

द्वन्द्वमिति द्विशब्दस्य द्विर्वचनम्, पूर्वपदस्याम्भावः, अत्वं चोत्तरपदस्य निपात्यते रहस्य मर्यादावचन व्युत्क्रमण यज्ञपात्रप्रयोग अभिव्यक्ति इत्येतेष्वर्थेषु। तत्र रहस्यं द्वन्द्वशब्दवाच्यम्, इतरे विषयभूताः। द्वन्द्वं मन्त्रयन्ते। मर्यादावचने -मर्यादा स्थित्यनतिक्रमः। आचतुरं हीमे पशवो द्वन्द्वं मिथुनीयन्ति। माता पुत्रेण मिथुनं गच्छति, पौत्रेण, तत्पुत्रेणापीति मर्यादार्थः। व्युत्क्रमणे-द्वन्द्वं व्युत्क्रान्ताः। व्युत्क्रमणं भेदः, पृथगवस्थानम्। द्विवर्गसंबन्धेन पृथगवस्थिता द्वन्द्वं व्युत्क्रान्ता इत्युच्यन्ते। यज्ञपात्रप्रयोगे-द्वन्द्वं न्यञ्चि यज्ञपात्राणि प्रयुनक्ति धीरः। अभिव्यक्तौ- द्वन्द्वं नारदपर्वतौ। द्वन्द्वं संकर्षणवासुदेवौ। द्वावप्यभिव्यक्तौ साहचर्येणेत्यर्थः। अन्यत्रापि द्वन्द्वमित्येतद् दृश्यते, तदर्थं योगविभागः कर्तव्यः- द्वन्द्वं युद्धं वर्तते, द्वन्द्वानि सहते धीरः,‘चार्थे द्वन्द्वः’ (२.२.२९) इति॥

पदस्य॥ ८.१.१६॥

पदस्येत्ययमधिकारः प्रागपदान्ताधिकारात् (८.३.५५)। यदित ऊर्ध्वमनुक्रमिष्यामः पदस्येत्येवं तद् वेदितव्यम्। वक्ष्यति-‘संयोगान्तस्य लोपः’ (८.२.२३)- पचन्। यजन्। पदस्येति किम् ? पचन्तौ। यजन्तौ। वक्ष्यमाणवाक्यापेक्षया पदस्याधिकृतस्य षष्ठ्यर्थव्यवस्था द्रष्टव्या-क्वचित् स्थानषष्ठी क्वचिदवयवषष्ठी॥

पदात्॥ ८.१.१७॥

पदादित्ययमधिकारः प्राक् ‘कुत्सने च सुप्यगोत्रादौ’ (८.१.६९) इत्येतस्मात्। यदित ऊर्ध्वमनुक्रमिष्यामः पदादित्येवं तद् वेदितव्यम्। वक्ष्यति-‘आमन्त्रितस्य च’ (८.१.१९)। आमन्त्रितस्य पदात् परस्यानुदात्तादेशो भवतीति। पचसि दे॒व॒द॒त्त॒। पदादिति किम् ? देव॑दत्त पचसि॥

अनुदात्तं सर्वमपादादौ॥ ८.१.१८॥

अनुदात्तमिति च, सर्वमिति च, अपादादाविति च। एतत् त्रयमधिकृतं वेदितव्यमापादपरिसमाप्तेः। इत उत्तरं यद् वक्ष्यामोऽनुदात्तं सर्वमपादादावित्येवं तद् वेदितव्यम्। वक्ष्यति- ‘आमन्त्रितस्य च’ (८.१.१९) इति। पचसि दे॒व॒द॒त्त॒। अपादादाविति किम् ? यत्ते॑ नि॒यानं॑ रज॒सं मृत्यो॑ अनवध॒र्ष्य॑म् (शौ० सं० ८.२.१०)। ‘बहुवचनस्य वस्नसौ’ (८.१.२१)। ग्रामो वः॒ स्वम्, जनपदो नः॒ स्वम्। अपादादाविति किम् ?

	रुद्रो विश्वेश्वरो देवो युष्माकं कुलदेवता।

	स एव नाथो  भगवानस्माकं  शत्रुमर्दनः॥

पादग्रहणेनात्र ऋक्पादः श्लोकपादश्च गृह्यते। सर्वग्रहणं सर्वमनूद्यमानं विधीयमानं चानुदात्तं यथा स्यादिति। तेन युष्मदस्मदादेशानामपि वाक्यभेदेनानुदात्तत्वं विधीयते। युष्मदस्मदादेशाश्च सर्वस्य सुबन्तस्य पदस्य यथा स्युः, यत्रापि स्वादिपदं (१.४.१७) पदसंज्ञं भवति। ग्रामो वां॒ दीयते। जनपदो ना॒ै दीयते॥

आमन्त्रितस्य च॥ ८.१.१९॥

आमन्त्रितस्य पदस्य पदात् परस्यापादादौ वर्तमानस्य सर्वमनुदात्तं भवति। पचसि दे॒व॒द॒त्त॒। पचसि य॒ज्ञ॒द॒त्त॒। आमन्त्रिताद्युदात्तत्वे प्राप्ते वचनम्॥ समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः॥ इह मा भूवन्-अयं दण्डो हरानेन, ओदनं पच तव भविष्यति, ओदनं पच मम भविष्यति। इह च यथा स्यात्-इह दे॒व॒द॒त्त॒ माता ते कथयति, नद्यास्ति॒ष्ठ॒ति॒ कूले, शालीनां त ओदनं दास्यामि इति। आमन्त्रितान्तं तिङन्तं युष्मदस्मच्छब्दौ च यस्मात् पराणि न तेन तेषां सामर्थ्यमिति तदाश्रया निघातयुष्मदस्मदादेशा न स्युः,‘समर्थः पदविधिः’ (२.१.१) इति वचनात्॥

युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ॥ ८.१.२०॥

युष्मदस्मद् इत्येतयोः षष्ठीचतुर्थीद्वितीयास्थयोर्यथासंख्यं वाम् नौ इत्येतावादेशौ भवतः, तौ चानुदात्तौ। पदस्य पदादनुदात्तं सर्वमपादादाविति सर्वमिह संबध्यते। ग्रामो वां॒ स्वम्। जनपदो ना॒ै स्वम्। ग्रामो वां॒ दीयते। जनपदो ना॒ै दीयते। ग्रामो वां॒ पश्यति। जनपदो ना॒ै पश्यति। एकवचनबहुवचनान्तयोरादेशान्तरविधानाद् द्विवचनान्तयोरेतावादेशौ विज्ञायेते। षष्ठीचतुर्थीद्वितीयास्थयोरिति किम्? ग्रामे युवाभ्यां कृतम्। स्थग्रहणं श्रूयमाणविभक्त्यर्थम्। इह मा भूत्-अयं युष्मत्पुत्रः, अयमस्मत्पुत्र इति॥

बहुवचनस्य वस्नसौ॥ ८.१.२१॥

बहुवचनान्तयोर्युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्यथासंख्यं वस् नस् इत्येतावादेशौ भवतः। ग्रामो वः॒ स्वम्। जनपदो नः॒ स्वम्। ग्रामो वो॒ दीयते। जनपदो नो॒ दीयते। ग्रामो वः॒ पश्यति। जनपदो नः॒ पश्यति॥

तेमयावेकवचनस्य॥ ८.१.२२॥

युष्मदस्मदोरेकवचनान्तयोः षष्ठीचतुर्थीस्थयोर्यथासंख्यं ते मे इत्येतावादेशौ भवतः। ग्रामस्ते॒ स्वम्। ग्रामो मे॒ स्वम्। ग्रामस्ते॒ दीयते। ग्रामो मे॒ दीयते। द्वितीयान्तस्यादेशान्तरविधानसामर्थ्यात् षष्ठीचतुर्थ्योरेवायं योगः॥

त्वामौ द्वितीयायाः॥ ८.१.२३॥

एकवचनस्येति वर्तते। द्वितीयाया यदेकवचनं तदन्तयोर्युष्मदस्मदोर्यथासंख्यं त्वा मा इत्येतावादेशौ भवतः। ग्रामस्त्वा॒ पश्यति। ग्रामो मा॒ पश्यति॥

न चवाहाहैवयुक्ते ॥ ८.१.२४॥

च वा ह अह एव एभिर्युक्ते युष्मदस्मदोर्वान्नावादयो न भवन्ति। पूर्वेण प्रकरणेन प्राप्ताः प्रतिषिध्यन्ते। ग्रामस्तव च स्वम्, ग्रामो मम च स्वम्, युवयोश्च स्वम्, आवयोश्च स्वम्, युष्माकं च स्वम्, अस्माकं च स्वम्। ग्रामस्तुभ्यं च दीयते, ग्रामो मह्यं च दीयते, युवाभ्यां च दीयते, आवाभ्यां च दीयते, युष्मभ्यं च दीयते, अस्मभ्यं च दीयते। ग्रामस्त्वां च पश्यति, ग्रामो मां च पश्यति, युवां च पश्यति, आवां च पश्यति, युष्मांश्च पश्यति, अस्मांश्च पश्यति। वा-ग्रामस्तव वा स्वम्, ग्रामो मम वा स्वम्, युवयोर्वा स्वम्, आवयोर्वा स्वम्, युष्माकं वा स्वम्, अस्माकं वा स्वम्। ग्रामस्तुभ्यं वा दीयते, ग्रामो मह्यं वा दीयते, युवाभ्यां वा दीयते, आवाभ्यां वा दीयते, युष्मभ्यं वा दीयते, अस्मभ्यं वा दीयते। ग्रामस्त्वां वा पश्यति, ग्रामो मां वा पश्यति, युवां वा पश्यति, आवां वा पश्यति, युष्मान् वा पश्यति, अस्मान् वा पश्यति। ह-ग्रामस्तव ह स्वम्, ग्रामो मम ह स्वम्, युवयोर्ह स्वम्, आवयोर्ह स्वम्, युष्माकं ह स्वम्, अस्माकं ह स्वम्। ग्रामस्तुभ्यं ह दीयते, ग्रामो मह्यं ह दीयते, युवाभ्यां ह दीयते, आवाभ्यां ह दीयते, युष्मभ्यं ह दीयते, अस्मभ्यं ह दीयते। ग्रामस्त्वां ह पश्यति, ग्रामो मां ह पश्यति, युवां ह पश्यति, आवां ह पश्यति, युष्मान् ह पश्यति, अस्मान् ह पश्यति। अह-ग्रामस्तवाह स्वम्, ग्रामो ममाह स्वम्, युवयोरह स्वम्, आवयोरह स्वम्, युष्माकमह स्वम्, अस्माकमह स्वम्। ग्रामस्तुभ्यमह दीयते, ग्रामो मह्यमह दीयते, युवाभ्यामह दीयते, आवाभ्यामह दीयते, युष्मभ्यमह दीयते, अस्मभ्यमह दीयते। ग्रामस्त्वामह पश्यति, ग्रामो मामह पश्यति, युवामह पश्यति, आवामह पश्यति, युष्मानह पश्यति, अस्मानह पश्यति। एव-ग्रामस्तवैव स्वम्, ग्रामो ममैव स्वम्, युवयोरेव स्वम्, आवयोरेव स्वम्, युष्माकमेव स्वम्, अस्माकमेव स्वम्। ग्रामस्तुभ्यमेव दीयते, ग्रामो मह्यमेव दीयते, युवाभ्यामेव दीयते, आवाभ्यामेव दीयते, युष्मभ्यमेव दीयते, अस्मभ्यमेव दीयते। ग्रामस्त्वामेव पश्यति, ग्रामो मामेव पश्यति, युवामेव पश्यति, आवामेव पश्यति, युष्मानेव पश्यति, अस्मानेव पश्यति। युक्तग्रहणं साक्षाद्योगप्रतिपत्त्यर्थम्। युक्तयुक्ते प्रतिषेधो न भवति। ग्रामश्च ते स्वम्। नगरं च मे स्वम्॥

पश्यार्थैश्चानालोचने॥ ८.१.२५॥

पश्यार्था दर्शनार्थाः। दर्शनं ज्ञानम्। आलोचनं चक्षुर्विज्ञानम्। तैः पश्यार्थैरनालोचने वर्तमानैर्युक्ते युष्मदस्मदोर्वान्नावादयो न भवन्ति। ग्रामस्तव स्वं समीक्ष्यागतः। ग्रामो मम स्वं समीक्ष्यागतः। ग्रामस्तुभ्यं दीयमानं समीक्ष्यागतः। ग्रामो मह्यं दीयमानं समीक्ष्यागतः। ग्रामस्त्वां समीक्ष्यागतः। ग्रामो मां समीक्ष्यागतः। अनालोचन इति किम्? ग्रामस्त्वा पश्यति। ग्रामो मा पश्यति। पश्यार्थैर्युक्तयुक्तेऽपि च प्रतिषेध इष्यते। तथा चैवोदाहृतम्॥

सपूर्वायाः प्रथमाया विभाषा॥ ८.१.२६॥

विद्यमानपूर्वात् प्रथमान्तात् पदादुत्तरयोर्युष्मदस्मदोर्विभाषा वान्नावादयो न भवन्ति। ग्रामे कम्बलस्ते स्वम्, ग्रामे कम्बलस्तव स्वम्। ग्रामे कम्बलो मे स्वम्, ग्रामे कम्बलो मम स्वम्। ग्रामे कम्बलस्ते दीयते, ग्रामे कम्बलस्तुभ्यं दीयते। ग्रामे कम्बलो मे दीयते, ग्रामे कम्बलो मह्यं दीयते। ग्रामे छात्रास्त्वा पश्यन्ति, ग्रामे छात्रास्त्वां पश्यन्ति। ग्रामे छात्रा मा पश्यन्ति, ग्रामे छात्रा मां पश्यन्ति। सपूर्वाया इति किम् ? कम्बलस्ते स्वम्, कम्बलो मे स्वम्। प्रथमाया इति किम् ? कम्बलो ग्रामे ते स्वम्। कम्बलो ग्रामे मे स्वम्॥ युष्मदस्मदोर्विभाषा अनन्वादेश इति वक्तव्यम्॥ इह मा भूत्-अथो ग्रामे कम्बलस्ते स्वम्। अथो ग्रामे कम्बलो मे स्वम्। अपर आह॥ सर्व एव वान्नावादयोऽनन्वादेशे विभाषा वक्तव्याः॥ कम्बलस्ते स्वम्, कम्बलस्तव स्वम्। कम्बलो मे स्वम्, कम्बलो मम स्वम्। अनन्वादेश इति किम्? अथो कम्बलस्ते स्वम्। अथो कम्बलो मे स्वम्। न तर्हीदानीमिदं वक्तव्यं सपूर्वायाः प्रथमाया विभाषेति? वक्तव्यं च । किं प्रयोजनम्? अन्वादेशार्थम्। अन्वादेशे हि विभाषा यथा स्यात्। अथो ग्रामे कम्बलस्ते स्वम्, अथो ग्रामे कम्बलस्तव स्वम्। अथो ग्रामे कम्बलो मे स्वम्, अथो ग्रामे कम्बलो मम स्वम्॥

तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः॥ ८.१.२७॥

तिङन्तात् पदात् पराणि गोत्रादीनि कुत्सन आभीक्ष्ण्ये चार्थे वर्तमानान्यनुदात्तानि भवन्ति। पचति गो॒त्र्ाम्। जल्पति गो॒त्र्ाम्। आभीक्ष्ण्ये-पचतिपचति गो॒त्र्ाम्। जल्पतिजल्पति गो॒त्र्ाम्। ब्रुवः-पचति ब्रु॒व॒म्। जल्पति ब्रु॒व॒म्। पचतिपचति ब्रु॒व॒म्। जल्पतिजल्पति ब्रु॒व॒म्। ब्रुव इति ब्रुवः कन् निपातनाद् वच्यादेशाभावश्च॥ गोत्र। ब्रुव। प्रवचन। प्रहसन। प्रकथन। प्रत्ययन। प्रचक्षण। प्राय। विचक्षण। अवचक्षण। स्वाध्याय। भूयिष्ठ। वा नाम (ग० सू० १८१)। नामेत्येतद् वा निहन्यते। पक्ष आद्युदात्तमेव भवति। पचति ना॒म॒, पचति नाम॑। तिङ इति किम् ? कुत्सितं गोत्र॑म्। गोत्रादीनीति किम् ? पचति पा॒पम्। कुत्सनाभीक्ष्ण्ययोरिति किम् ? खनति गोत्रं॑ समेत्य कूपम्। कुत्सनाभीक्ष्ण्यग्रहणं च पाठविशेषणं द्रष्टव्यम्। तेनान्यत्र (८.१.५७) अपि गोत्रादिग्रहणेन कुत्सनाभीक्ष्ण्ययोरेव कार्यं भवति॥

तिङ्ङतिङः॥ ८.१.२८॥

तिङन्तं पदमतिङन्तात् पदात् परमनुदात्तं भवति। देवदत्तः प॒च॒ति॒। यज्ञदत्तः प॒च॒ति॒। तिङिति किम् ? नीलम् उत्प॑लम् । शुक्लं वस्त्र॑म्। अतिङ इति किम् ? भवति पच॑ति॥

न लुट्॥ ८.१.२९॥

पूर्वेणातिप्रसक्ते प्रतिषेध आरभ्यते। लुडन्तं तिङन्तं नानुदात्तं भवति। श्वः क॒र्ता। श्वः क॒र्तारा॑ै। मासेन क॒र्तारः॑। तासेः परस्य लसार्वधातुकस्यानुदात्तत्वे सति सर्वतासिरेवोदात्तः। यत्र तु टिलोपः, तत्रोदात्तनिवृत्तिस्वरो भवति॥

निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम्॥ ८.१.३०॥

नेति वर्तते। यत् यदि हन्त कुवित् नेत् चेत् चण् कच्चित् यत्र इत्येतैर्निपातैर्युक्तं तिङन्तं नानुदात्तं भवति। यत्-यत् क॒रोति॑। यत् पच॑ति। यदि-यदि क॒रोति॑। यदि पच॑ति। हन्त-हन्त क॒रोति॑। हन्त पच॑ति। कुवित्-कुवित् क॒रोति॑। कुवित् पच॑ति। नेत्-नेज्जि॒ह्माय॒न्त्यो न॑र॒के प॑ताम (खि० १०.१०६)। चेत्-स चेद् भु॒ङ्क्ते। स चेदधी॒ते। चण्-णिद्विशिष्टोऽयं चेदर्थ वर्तते। अयं च म॒रि॒ष्यति॑। अयं चेद् मरिष्यतीत्यर्थः। समुच्चयादिषु तु यश्चशब्दः, तेन योगे विधिरयं न भवति। कच्चित्- कच्चिद् भु॒ङ्क्ते। कच्चिदधी॒ते। यत्र-यत्र भु॒ङ्क्ते। यत्राधी॒ते। निपातैरिति किम्? यत् कू॒ज॒ति॒ शकटम्। गच्छत् कूजति शकटमित्यर्थः। इणः शतरि रूपमेतत्। युक्तमिति किम् ? यत्र्ा क्व॑ च ते॒ मनो॒ दक्षं॑ दधस॒ उत्त॑रम् (ऋ० ६.१६.१७)॥

नह प्रत्यारम्भे॥ ८.१.३१॥

नह इत्येतेन युक्तं प्रत्यारम्भे तिङन्तं नानुदात्तं भवति। चोदितस्यावधीरणे उपालिप्सया प्रतिषेधयुक्तः प्रत्यारम्भः क्रियते। नह भो॒क्ष्यसे॑। नह अ॒ध्ये॒ष्यसे॑। प्रत्यारम्भ इति किम् ? न॑ह व॑ै त॑स्मिन्नमु॑ष्मिन् लोके॑ द॑क्षिणामिच्छन्ति (काठ० सं० ९.१२)॥

सत्यं प्रश्ने॥ ८.१.३२॥

सत्यमित्यनेन युक्तं तिङन्तं नानुदात्तं भवति प्रश्ने। सत्यं भो॒क्ष्यसे॑ ? सत्यम् अ॒ध्ये॒ष्यसे॑ ? प्रश्न इति किम् ? स॒त्यं व॑क्ष्यामि॒ नानृ॑तम् (शौ० सं० ४.९.७)॥

अङ्गाप्रातिलोम्ये॥ ८.१.३३॥

अङ्ग इत्यनेन युक्तं तिङन्तमप्रातिलोम्ये गम्यमाने नानुदात्तं भवति। अङ्ग कु॒रु। अङ्ग पच॑। अङ्ग पठ॑। अप्रातिलोम्य इति किम् ? अङ्ग कू॒ज३ वृषल, इदानीं ज्ञास्यसि जाल्म। कूजनमनभिमतमसौ कुर्वन् प्रतिलोमो भवति॥

हि च॥ ८.१.३४॥

हि इत्यनेन युक्तं तिङन्तमप्रातिलोम्ये नानुदात्तं भवति। स हि कु॒रु। स हि पच॑। स हि पठ॑। अप्रातिलोम्य इत्येव-स हि कू॒ज३ वृषल, इदानीं ज्ञास्यसि जाल्म॥

छन्दस्यनेकमपि साकाङ्क्षम्॥ ८.१.३५॥

हि चेति वर्तते। छन्दसि विषये हियुक्तं तिङन्तं साकाङ्क्षमनेकमपि नानुदात्तं भवति, एकमपि। कदाचिदेकं कदाचिदनेकमित्यर्थः। तत्रानेकं तावत्-अनृतं हि मत्तो वद॑ति, पाप्मा एनं विपुनाति॑। तिङन्तद्वयमप्येतद् न निहन्यते। एकं खल्वपि-अग्निर्हि पूर्वमुदज॑यत्, तमिन्द्रोऽनू॒द॒ज॒य॒त्। तिङन्तद्वयमपि हिशब्दयुक्तमेतत्। तत्रैकमुदजयदित्याद्युदात्तम् अपरमनुदात्तम्। अ॒जा ह्य॑ग्नेरज॑निष्ट॒ गर्भा॒त् सा वा अ॑पश्यज्जनि॒तार॒मग्॑रे (तै० सं० ४.२.१०.४)। अजनिष्टेत्याद्युदात्तम्, अपश्यदित्यनुदात्तम्॥

यावद्यथाभ्याम् ॥ ८.१.३६॥

यावद् यथा इत्येताभ्यां युक्तं तिङन्तं नानुदात्तं भवति। यादव् भु॒ङ्क्ते। यथा भु॒ङ्क्ते। यावद॒धी॒ते। यथा अ॒धी॒ते। देवदत्तः पच॑ति यावत्। देवदत्तः पच॑ति यथा। परेणापि योगे भवति प्रतिषेधः॥

पूजायां नानन्तरम् ॥ ८.१.३७॥

यावद् यथा इत्येताभ्यां युक्तमनन्तरं तिङन्तं पूजायां विषये नानुदात्तं न भवति। किं तर्हि ? अनुदात्तमेव। यावत् प॒च॒ति॒ शोभनम्। यथा प॒च॒ति॒ शोभनम्। यावत् क॒रो॒ति॒ चारु। यथा क॒रो॒ति॒ चारु। पूजायामिति किम् ? यावद् भु॒ङ्क्ते। यथा भु॒ङ्क्ते। अनन्तरमिति किम् ? यावद् देवदत्तः पच॑ति शोभनम्। यथा देवदत्तः क॒रोति॑ चारु। पूर्वणात्र निघातः प्रतिषिध्यते॥

उपसर्गव्यपेतं च ॥ ८.१.३८॥

यावद्यथाभ्यां युक्तम् उपसर्गव्यपेतं च पूजायां विषये नानुदात्तं न भवति। किं तर्हि? अनुदात्तमेव भवति। पूर्वमनन्तरमित्युक्तम् , उपसर्गव्यवधानार्थोऽयमारम्भः। यावत् प्रप॒च॒ति॒ शोभनम्। यथा प्रप॒च॒ति॒ शोभनम्। यावत् प्रक॒रो॒ति॒ चारु। यथा प्रक॒रो॒ति॒ चारु। अनन्तरमित्येव - यावद् देवदत्तः प्रपच॑ति शोभनम्। यथा विष्णुमित्रः प्रक॒रोति॑ चारु॥

तुपश्यपश्यताहैः पूजायाम् ॥ ८.१.३९॥

तु पश्य पश्यत अह इत्येतैर्युक्तं तिङन्तं नानुदात्तं भवति पूजायां विषये। तु-माणवकस्तु भु॒ङ्क्ते शोभनम्। पश्य-पश्य माणवको भु॒ङ्क्ते शोभनम्। पश्यत-पश्यत, माणवको भु॒ङ्क्ते शोभनम्। अह-अह माणवको भु॒ङ्क्ते शोभनम्। पूजायामिति किम् ? पश्य मृगो धा॒व॒ति॒। पूजायामिति वर्तमाने पुनः पूजायामित्युच्यते निघातप्रतिषेधार्थम्। तद्धि प्रतिषेधस्य प्रतिषेधेन संबद्धमिति॥

अहो च ॥ ८.१.४०॥

अहो इत्यनेन युक्तं तिङन्तं नानुदात्तं भवति पूजायां विषये। अहो देवदत्तः पच॑ति शोभनम्। अहो विष्णुमित्रः क॒रोति॑ चारु। पृथग्योगकरणमुत्तरार्थम्॥

शेषे विभाषा ॥ ८.१.४१॥

अहो इत्यनेन युक्तं तिङन्तं शेषे विभाषा नानुदात्तं भवति। कश्च शेषः? यदन्यत् पूजायाः। कटमहो क॒रि॒ष्यसि॑। मम गेहमहो ए॒ष्यसि॑। असूयावचनमेतत्। पूजायामित्यस्य पूर्वत्र चानुकृष्टत्वाद् अनधिकारे सिद्धे शेषवचनं विस्पष्टार्थम्॥

पुरा च परीप्सायाम् ॥ ८.१.४२॥

पुरा इत्यनेन युक्तं तिङन्तं परीप्सायामर्थे विभाषा नानुदात्तं भवति। परीप्सा त्वरा। अधीष्व माणवक, पुरा विद्योत॑ते विद्युत्। पुरा स्त॒नय॑ति स्तनयित्नुः। पुराशब्दोऽत्र भविष्यदासत्तिं द्योतयति। परीप्सायामिति किम् ? नडेन स्म पुरा अधी॒य॒ते॒। अत्र भूतकालविप्रकर्षं पुराशब्दो द्योतयति। ऊर्णया स्म पुरा अधी॒य॒ते॒॥

नन्वित्यनुज्ञैषणायाम् ॥ ८.१.४३॥

ननु इत्यनेन युक्तं तिङन्तं नानुदात्तं भवत्यनुज्ञैषणायां विषये। अनुज्ञाया एषणा प्रार्थना अनुज्ञैषणा। अनुज्ञाप्रार्थनेत्यर्थः। ननु क॒रोमि॑ भोः। ननु गच्छा॑मि भोः। अनुजानीष्व मां करणं प्रतीत्यर्थः। अनुज्ञैषणायामिति किम् ? अकार्षीः कटं देवदत्त ? ननु क॒रो॒मि॒ भोः। पृष्टप्रतिवचनमेतत्, नानुज्ञैषणा॥

किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम् ॥ ८.१.४४॥

किमित्येतत् क्रियाप्रश्ने यदा वर्तते तदानेन युक्तं तिङन्तमनुपसर्गमप्रतिषिद्धं नानुदात्तं भवति। किं देवदत्तः पच॑ति, आहोस्विद् भु॒ङ्क्ते। किं देवदत्तः, शेते॑, आहोस्विद॒धी॒ते। अत्र केचिदाहुः-पूर्वं किंयुक्तमिति तद् न निहन्यते, उत्तरं तु न किंयुक्तमिति तद् निहन्यत एवेति। अपरे त्वाहुः- यद्यप्येकस्याख्यातस्य समीपे किंशब्दः श्रूयते, तथापि सर्वस्य संशयविषयस्य तेन योग इत्युभयत्र प्रतिषेधेन भवितव्यमिति। क्रियाग्रहणं किम् ? साधनप्रश्ने मा भूत्-किं देवदत्त ओदनं प॒च॒ति॒ आहोस्विच्छाकमिति। प्रश्न इति किम् ? किमधी॒ते॒ देवदत्तः। क्षेपे किंशब्दोऽयम्, न प्रश्ने। अनुपसर्गमिति किम्? किं देवदत्तः प्रप॒च॒ति॒,आहोस्वित् प्रक॒रो॒ति॒। अप्रतिषिद्धमिति किम् ? किं देवदत्तो न प॒ठ॒ति॒ आहोस्विद् न क॒रो॒ति॒॥

लोपे विभाषा॥ ८.१.४५॥

किमो लोपे क्रियाप्रश्ने तिङन्तमनुपसर्गमप्रतिषिद्धं विभाषा नानुदात्तं भवति। क्व चास्य लोपः? यत्र गम्यते चार्थः, न च प्रयुज्यते किंशब्दः। देवदत्तः पच॑ति, आहोस्वित् पठ॑ति। विनैव किमा प्रश्नोऽवगम्यते। प्राप्तविभाषेयं किमर्थेन योगात्। पूर्ववत् प्रत्युदाहरणानि॥

एहि मन्ये प्रहासे लृट्॥ ८.१.४६॥

एहि मन्य इत्यनेन युक्तं लृडन्तं नानुदात्तं भवति प्रहासे। प्रकृष्टो हासः प्रहासः, क्रीडा। एहि मन्य ओदनं भो॒क्ष्यसे॑, नहि भोक्ष्यसे, भुक्तः सोऽतिथिभिः। एहि मन्ये रथेन या॒स्यसि॑, नहि यास्यसि, यातस्तेन ते पिता। प्रहास इति किम् ? एहि मन्यस ओदनं भो॒क्ष्य॒ इति, सुष्ठु मन्यसे, साधु मन्यसे। ‘गत्यर्थलोटा लृट्०’ (८.१.५१) इत्येव सिद्धे, सत्यारम्भो नियमार्थः- एहिमन्येयुक्ते प्रहास एव यथा स्यात्, अन्यत्र मा भूदिति। एहि मन्यस ओदनं भो॒क्ष्य॒ इति। एहि मन्य इत्युत्तमोपादानमतन्त्रम्। प्रहास एव हि मन्यतेरुत्तमो विहितः, ततोऽन्यत्र मध्यम एव भवति। तत्रानेन नियमेन निवृत्तिः क्रियते-एहि मन्यस ओदनं भो॒क्ष्य॒ इति॥

जात्वपूर्वम्॥ ८.१.४७॥

जातु इत्येतदविद्यमानपूर्वम्, तेन युक्तं तिङन्तं नानुदात्तं भवति। जातु भो॒क्ष्यसे॑। जातु क॒रि॒ष्यामि॑। अपूर्वमिति किम्। कटं जातु क॒रि॒ष्य॒ति॒॥

किंवृत्तं च चिदुत्तरम्॥ ८.१.४८॥

किमो वृत्तं किंवृत्तम्। किंवृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयात्, डतरडतमौ च प्रत्ययौ, तत् किंवृत्तं चिदुत्तरमविद्यमानपूर्वं यत् तेन युक्तं तिङन्तं नानुदात्तं भवति। कश्चिद् भु॒ङ्क्ते। कश्चिद् भो॒जय॑ति। कश्चिदधी॒ते। केचनित् क॒रोति॑। कस्मैचिद् ददा॑ति। कतरश्चित् क॒रोति॑। कतमश्चिद् भु॒ङ्क्ते। चिदुत्तरमिति किम् ? को भु॒ङ्क्ते। अपूर्वमित्येव-देवदत्तः किंचित् प॒ठ॒ति॒॥

आहो उताहो चानन्तरम्॥ ८.१.४९॥

निघातप्रतिषेधोऽनुवर्तते, अपूर्वमिति च। आहो उताहो इत्येताभ्यामपूर्वाभ्यां युक्तमनन्तरं तिङन्तं नानुदात्तं भवति। आहो भु॒ङ्क्ते । उताहो भु॒ङ्क्ते। आहो पठ॑ति । उताहो पठ॑ति। अनन्तरमिति किम्? शेषे विभाषां (८.१.५०) वक्ष्यति। अपूर्वमित्येवदेवदत्त आहो भु॒ङ्क्ते। देवदत्त उताहो भु॒ङ्क्ते॒॥

शेषे विभाषा॥ ८.१.५०॥

आहो उताहो इत्येताभ्यां युक्तं तिङन्तं नानुदात्तं शेषे विभाषा भवति। कश्च शेषः? यदन्यदनन्तरात्। आहो देवदत्तः पच॑ति, प॒च॒ति॒। उताहो देवदत्तः पच॑ति, प॒च॒ति॒। आहो देवदत्तः पठ॑ति, प॒ठ॒ति॒। उताहो देवदत्तः पठ॑ति, प॒ठ॒ति॒॥

गत्यर्थलोटा लृण्न चेत् कारकं सर्वान्यत्॥ ८.१.५१॥

गमिना समानार्था गत्यर्थाः। गत्यर्थानां लोट् गत्यर्थलोट्। तेन गत्यर्थलोटा युक्तं लृडन्तं तिङन्तं नानुदात्तं भवति, न चेत् कारकं सर्वान्यद् भवति। यत्रैव कारके कर्तरि कर्मणि वा लोट्, तत्रैव यदि लृडपि भवतीत्यर्थः। कर्तृकर्मणी एवात्र तिङन्तवाच्ये कारकग्रहणेन गृह्येते, न करणादि कारकान्तरम्। आगच्छ देवदत्त ग्रामं द्॒रक्ष्यसि॑ एनम्। आगच्छ देवदत्त ग्राममोदनं भो॒क्ष्यसे॑। उह्यन्तां देवदत्तेन शालयः, तेनैव भो॒क्ष्यन्ते॑। उह्यन्तां देवदत्तेन शालयः, यज्ञदत्तेन भो॒क्ष्यन्ते॑। गत्यर्थग्रहणं किम् ? पच देवदत्तौदनं भो॒क्ष्य॒स॒ एनम्। लोटेति किम् ? आगच्छेर्देवदत्त ग्रामं द्॒रक्ष्य॒सि॒ एनम्। लृडिति किम् ? आगच्छ देवदत्त ग्रामं प॒श्य॒सि॒ एनम्। न चेत् कारकं सर्वान्यदिति किम्? आगच्छ देवदत्त ग्रामम्, पिता त ओदनं भो॒क्ष्य॒ते॒। उह्यन्तां देवदत्तेन शालयः, सक्तवस्तेन पा॒स्य॒न्ते॒। सर्वग्रहणं किम् ? आगच्छ देवदत्त ग्रामम्, त्वं चाहं च द्र॒क्ष्याव॑ एनमित्यत्रापि निघातप्रतिषेधो यथा स्यात्। लृडन्तवाच्ये हि सर्वस्मिन् कारके ऽन्यस्मिन् न भवितव्यम् , इह तु यत् लोडन्तस्य कारकं तत् चान्यत् च लृडन्तेनोच्यत इति॥

लोट् च॥ ८.१.५२॥

लोडन्तं तिङन्तं गत्यर्थलोटा गत्यर्थलोटा युक्तं नानुदात्तं भवति, न चेत् कारकं सर्वान्यद् भवति। लोडन्तयोरेकं कारकं यदि भवतीत्यर्थः। आगच्छ देवदत्त, ग्रामं पश्य॑। आगच्छ विष्णुमित्र, ग्रामं शा॒धि। आगम्यतां देवदत्तेन ग्रामो दृ॒श्यतां॑ यज्ञदत्तेन। गत्यर्थानामित्येव-पच देवदत्तौदनं।भु॒ङ्क्ष्व॒ एनम्। लोटेत्येव-आगच्छेर्देवदत्त ग्रामं प॒श्य॒ एनम्। न चेत् कारकं सर्वान्यदित्येव-आगच्छ देवदत्त ग्रामं प॒श्य॒तु॒ एनं यज्ञदत्तः। सर्वग्रहणानुवृत्तेस्त्विह भवत्येव- आगच्छ देवदत्त ग्रामं त्वं चाहं च प॒श्याव॑। पृथग्योगकरणमुत्तरार्थम्॥

विभाषितं सोपसर्गमनुत्तमम् ॥ ८.१.५३॥

पूर्वं सर्वमनुवर्तते। प्राप्तविभाषेयम्। लोडन्तं सोपसर्गमुत्तमवर्जितं गत्यर्थलोटा युक्तं तिङन्तं विभाषितं नानुदात्तं भवति, न चेत् कारकं सर्वान्यद् भवति। आगच्छ देवदत्त ग्रामं प्र॒वि॒श, प्रवि॑श। आगच्छ देवदत्त ग्रामं प्र॒शा॒धि,प्रशा॑धि। सोपसर्गमिति किम्? आगच्छ देवदत्त ग्रामं पश्य॑। अनुत्तममिति किम्? अगच्छानि देवदत्त ग्रामं प्रवि॒शानि॑॥

हन्त च ॥ ८.१.५४॥

पूर्वं सर्वमनुवर्तते गत्यर्थलोटं वर्जयित्वा। हन्त इत्यनेन युक्तं लोडन्तं सोपसर्गमुत्तमवर्जितं विभाषितं नानुदात्तं भवति। हन्त प्र॒वि॒श, प्रवि॑श। हन्त प्र॒शा॒धि, प्रशा॑धि। सोपसर्ग््मित्येव-हन्त कु॒रु। ‘निपातैर्यद्यदिहन्त०’ (८.१.३०) इति नित्यमत्र निघातप्रतिषेधो भवति। अनुत्तममित्येव-हन्त प्र॒भु॒नजा॑वहै। हन्त प्र॒भु॒नजा॑महै॥

आम एकान्तरमामन्त्रितमनन्तिके ॥ ८.१.५५॥

आम उत्तरमेकपदान्तरमामन्त्रितान्तमनन्तिके नानुदात्तं भवति। आम् पचसि देव॑द॒त्त३। आम् भो॒ देव॑द॒त्त३। भो इत्यामन्त्रितान्तमपि ‘नामन्त्रिते समानाधिकरणे सामान्यवचनम्’ (८.१.७३) इति नाविद्यमानवद् भवति। आम इति किम्? शाकं पचसि दे॒व॒द॒त्त३। एकान्तरमिति किम्? आम् प्रपचसि दे॒व॒द॒त्त३। आमन्त्रितमिति किम्? आम् देवदत्तः प॒च॒ति॒। अनन्तिक इति किम्? आम् पचसि दे॒व॒द॒त्त॒। आम एकान्तरमामन्त्रितं यत् तस्य एकश्रुतेरनुदात्तस्य च प्रतिषेध इष्यते। तदुभयमनेन क्रियत इति केचिदाहुः। प्लुतोदात्तः पुनरसिद्धत्वाद् न प्रतिषिध्यते। अपरेषां दर्शनम्-अनन्तिक इत्यनेन यद् न दूरं न सन्निकृष्टं तत् परिगृह्यते, तेनास्मिन्नेकश्रेतुः। प्राप्तिरेव नास्ति, प्लुतोदात्तोऽपि नोदाहर्तव्य इति॥

यद्धितुपरं छन्दसि ॥ ८.१.५६॥

आमन्त्रितमित्येतदस्वरितत्वाद् नानुवर्तते। तिङिति वर्तत एव। यत्परं हिपरं तुपरं च तिङन्तं छन्दसि नानुदात्तं भवति। यत्परं तावत्-गवां॑ गो॒त्रमु॒दसृ॑जो॒ यद॑ङ्गिरः (ऋ० २.२३.१८)। हिपरम्-इन्द॑वो वामु॒शन्ति॒ हि (ऋ० १.२.४)। तुपरम्-आ॒ख्या॒स्यामि॑ तु ते। ‘निपातैर्यद्यदिहन्त०’ (८.१.३०) इति, ‘हि च’ (८.१.३४) इति, ‘तुपश्यपश्यताहैः०’ (८.१.३९) इति च निघातप्रतिषेधे सिद्धे वचनमिदं नियमार्थम्-एभिरेव परैर्योगे प्रतिषेधो भवति, नान्यैरिति। इह न भवति- जाये स्वो रो॒हा॒वैहि॑। एहीत्यनेन गत्यर्थलोटा युक्तस्य रोहावेत्यस्य लोडन्तस्य निघातो भवत्येव॥

चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः॥ ८.१.५७॥

चन चिद् इव गोत्रादि तद्धित आमे्रडित इत्येतेषु परतोऽगतेरुत्तरं तिङन्तं नानुदात्तं भवति। चन-देवदत्तः पच॑ति चन। चित्-देवदत्तः पच॑ति चित्। इव-देवदत्तः पच॑तीव। गोत्रादि-देवदत्तः पच॑ति गोत्रम्। देवदत्तः पच॑ति ब्रुवम्। देवदत्तः पच॑ति प्रवचनम्। इहापि गोत्रादयः कुत्सनाभीक्ष्ण्ययोः (८.१.२७) एव गृह्यन्ते। तद्धित- देवदत्तः पच॑तिकल्पम्। देवदत्तः पच॑तिरूपम्। अनुदात्तस्तद्धित इहोदाहरणमन्यत्र तद्धितस्वरेण तिङ्स्वरो बाध्यते। प॒च॒ति॒देश्यः॑। आमे्रडित-देवदत्तः पच॑तिपचति। अगतेरिति किम्? देवदत्तः प्रप॒च॒ति॒ चन। अत्रागतिग्रहणे ‘सगतिरपि तिङ्’ (८.१.६८) इत्यत्र चोपसर्गग्रहणं द्रष्टव्यम्। इह मा भूत्-शुक्लीक॒रोति॑ चन। यत् काष्ठं शुक्लीक॒रोति॑। यत् काष्ठं कृष्णीक॒रोति॑॥

चादिषु च ॥ ८.१.५८॥

चादिषु च परतः तिङन्तमगतेः परं नानुदात्तं भवति। चादयो ‘न चवाहाहैवयुक्ते’ (८.१.२४) इत्यत्र ये निर्दिष्टाः, त इह परिगृह्यन्ते। चशब्दे तावत्-देवदत्तः पच॑ति च, खाद॑ति च। वा-देवदत्तः पच॑ति वा, खाद॑ति वा। ह-देवदत्तः पच॑ति ह, खाद॑ति ह। अह-देवदत्तः पच॑त्यह, खाद॑त्यह। एव-देवदत्तः पच॑त्येव,खाद॑त्येव। अगतेरित्येवदेवदत्तः प्र॒पच॑ति च, प्र॒खाद॑ति च। प्रथमस्यात्र तिङन्तस्य ‘चवायोगे प्रथमा’ (८.१.५९) इति निघातः प्रतिषिध्यत एव, परं तु निहन्यते॥

चवायोगे प्रथमा ॥ ८.१.५९॥

अगतेरिति पूर्वसूत्रे चानुकृष्टमित्यत्र नानुवर्तते। च वा इत्येताभ्यां योगे प्रथमा तिङ्विभक्तिर्नानुदात्ता भवति। गर्दभांश्च का॒लय॑ति, वीणां च वा॒द॒य॒ति॒। गर्दभान् वा का॒लय॑ति, वीणां वा वा॒द॒य॒ति॒। योगग्रहणं पूर्वाभ्यामपि योगे निघातप्रतिषेधो यथा स्यादिति। प्रथमाग्रहणं द्वितीयादेस्तिङन्तस्य मा भूदिति। चवायोगे हि द्विसमुच्चये विकल्पे च सति भवति। स चानेकस्य धर्म इति॥

हेति क्षियायाम् ॥ ८.१.६०॥

ह इत्यनेन युक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता भवति क्षियायां गम्यमानायाम्। क्षिया धर्मव्यतिक्रमः, आचारभेदः। स्वयं ह रथेन याति॑३, उपाध्यायं पदातिं ग॒म॒य॒ति॒। स्वयं हौदनं भु॒ङ्क्ते॑३, उपाध्यायं सक्तून् पा॒य॒य॒ति॒। प्रथमस्य तिङन्तस्यात्र निघातः प्रतिषिध्यते। ‘क्षियाशीःप्रैषेषु तिङाकाङ्क्षम्’ (८.२.१०४) इति च प्लुतो भवति॥

अहेति विनियोगे च ॥ ८.१.६१॥

अह इत्यनेन युक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता भवति विनियोगे गम्यमाने, चशब्दात् क्षियायां च। नानाप्रयोजनो नियोगो विनियोगः। त्वमह ग्रामं गच्छ॑, त्वमहारण्यं ग॒च्छ॒। क्षियायाम्-स्वयमह रथेन याति॑३, उपाध्यायं पदातिं ग॒म॒य॒ति॒। स्वयमहौदनं भुङ्क्ते॑३, उपाध्यायं सक्तून् पा॒य॒य॒ति॒। पूर्ववद् निघातप्रतिषेधः, प्लुतश्च॥

चाहलोप एवेत्यवधारणम्॥ ८.१.६२॥

चलोपेऽहलोपे प्रथमा तिङ्विभक्तिर्नानुदात्ता भवति, एवेत्येतत् चेदवधारणार्थं प्रयुज्यते। क्व चास्य लोपः? यत्र गम्यते चार्थो न च प्रयुज्यते, तत्र लोपः। तत्र चशब्दः समुच्चयार्थः, अहशब्दः केवलार्थ इति समानकर्तृके चलोपः, नानाकर्तृकेऽहलोपः। चलोपे-देवदत्त एव ग्रामं गच्छ॑तु, स देवदत्त एवारण्यं ग॒च्छ॒तु॒। ग्रामं चारण्यं च गच्छत्वित्यर्थः। अहलोपे-देवदत्त एव ग्रामं गच्छ॑तु, यज्ञदत्त एवारण्यं ग॒च्छ॒तु॒। ग्रामं केवलम्, अरण्यं केवलमित्यर्थः। अवधारणमिति किम्? देवदत्तः क्वेव भो॒क्ष्य॒ते॒। अनवक्ऌप्तावयमेवशब्दः। न क्वचिद् भोक्ष्यत इत्यर्थः। ‘एवे चानियोगे’ (६.१.९४ वा०) इति पररूपम्॥

चादिलोपे विभाषा॥ ८.१.६३॥

चादयो ‘न चवाहाहैवयुक्ते ’ (८.१.२४) इति सूत्रनिर्दिष्टा गृह्यन्ते। तेषां लोपे प्रथमा तिङ्विभक्तिर्नानुदात्ता भवति विभाषा। चलोपे-शुक्ला व्रीहयो भव॑न्ति, भ॒व॒न्ति॒, श्वेता गा आज्याय दु॒ह॒न्ति॒। भवन्तीत्येतद् विकल्पेन न निहन्यते। वालोपे-व्रीहिभिर्यजे॑त, य॒जे॒त॒, यवैर्य॒जे॒त॒। एवं शेषेष्वपि यथादर्शनमुदाहार्यम्॥

वैवावेति चच्छन्दसि॥ ८.१.६४॥

वै वाव इत्येताभ्यां युक्ता प्रथमा तिङ्विभक्तिर्विभाषा नानुदात्ता भवति छन्दसि विषये। अह॑र्वै दे॒वाना॒मासी॒द् रात्रि॒रसु॑राणा॒म् (तै०सं० १.५.९.२)। बृह॒स्पति॑र्वै दे॒वानां॑ पु॒रोहि॑त आसी॒त् शण्डा॒मर्का॒वसु॑राणा॒म् (तै०सं० ६.४.१०.१)। वाव-अ॒यं वाव हस्त॒ आसी॑त् (काठ० सं० ३६.७)। नेतर आ॒सी॒त्॥

एकान्याभ्यां समर्थाभ्याम्॥ ८.१.६५॥

एक अन्य इत्येताभ्यां समर्थाभ्यां युक्ता प्रथमा तिङ्विभक्तिर्विभाषा नानुदात्ता भवति छन्दसि विषये। प्र॒जामेका॒ जिन्व॒त्यूर्ज॒मेका॑ रा॒ष्ट्रमेका॑ रक्षति देवयूनाम् (शौ०सं० ८.९.१३)। जिन्वतीत्येतत् पक्षे न निहन्यते। तयो॑र॒न्यः पिप्प॑लं स्वा॒द्वत्त्यन॑श्नन्न॒न्यो अ॒भि चा॑कशीति (ऋ० १.१६४.२०)। अत्तीत्येतत् पक्षे न निहन्यते। समर्थाभ्यामिति किम्? एको देवानुपा॒ति॒ष्ठ॒त्। एक इति संख्यापदमेतद् अन्यार्थे न वर्तते। एकशब्दस्य व्यवस्थार्थं च समर्थग्रहणम्, व्यभिचारित्वात् तस्य ॥

यद्वृत्तान्नित्यम्॥ ८.१.६६॥

प्रथमा छन्दसीति च निवृत्तम्। निघातप्रतिषेध इत्येव। यदो वृत्तं यद्वृत्तम्। यत्र पदे यच्छब्दो वर्तते तत् सर्वं यद्वृत्तम्। इह वृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयात् डतरडतमौ च प्रत्ययौ इत्येतद् नाश्रीयते। तस्माद् यद्वृत्तादुत्तरं तिङन्तं नानुदात्तं भवति नित्यम्। यो भु॒ङ्क्ते। यं भो॒जय॑ति। येन भु॒ङ्क्ते। यस्मै ददा॑ति। यत्का॑मास्ते जु॒हु॒मः (ऋ०१०.१२१.१०)। य॒द्रिय॑ङ् वा॒युर्वाति॑ (तै०सं० ५.५.१.१)। यद्वायुः पव॑ते। पञ्चमीनिर्देशेऽप्यत्र व्यवहिते कार्यमिष्यते॥ याथाकाम्ये वेति वक्तव्यम्॥ यत्र क्व चन यज॑न्ते॥

पूजनात् पूजितमनुदात्तं काष्ठादिभ्यः॥ ८.१.६७॥

पूजनवचनेभ्यः काष्ठादिभ्य उत्तरपदं पूजितमनुदात्तं भवति। काष्ठ-काष्ठाध्यापकः। काष्ठाभिरूपकः। दारुण-दारुणाध्यापकः। दारुणाभिरूपकः। अमातापुत्र-अमातापुत्राध्यापकः। अयुत-अयुताभिरूपकः। अयुताध्यापकः। अद्भुत-अद्भुताध्यापकः। अनुक्त - अनुक्ताध्यापकः। भृश-भृशाध्यापकः। घोर-घोराध्यापकः। परम-परमाध्यापकः। सु-स्वध्यापकः। अति-अत्यध्यापकः॥ मलोपश्च॥ इति वार्त्तिककारमतम्। मयूरव्यंसकादित्वात् समासः। समासे चैतदनुदात्तत्वम्। समासान्तोदात्तत्वापवाद इष्यते। दारुणमध्यापक इत्येवमादिषु न भवति। मलोपश्चेत्यनेनाप्ययमेव विषय आख्यायते। यत्र विभक्तेरभावाद् मकारो न श्रूयते, तत्रानुदात्तत्वमिति। असमासे हि मलोपो नैवेष्यते। दारुणमधीते दारुणमध्यापक इति। पूजनादित्येव पूजितपरिग्रहे सिद्धे पूजितग्रहणमनन्तरपूजितप्रतिपत्त्यर्थम्। एतदेव ज्ञापकमिह प्रकरणे पञ्चमीनिर्देशेऽपि नानन्तर्यमाश्रीयत इति। तथा च ‘यद्वृत्तान्नित्यम्’ (८.१.६६) इत्यत्रोदाहृतम्। अनुदात्तमिति वर्तमाने पुनरनुदात्तग्रहणं प्रतिषेधनिवृत्त्यर्थम्॥

सगतिरपि तिङ्॥ ८.१.६८॥

सगतिरगतिरपि पूजनेभ्यः काष्ठादिभ्यः परं पूजितं तिङन्तमनुदात्तं भवति। यत् काष्ठं प॒च॒ति॒। यत् काष्ठं प्र॒प॒च॒ति॒। यद् दारुणं प॒च॒ति॒। यद् दारुणं प्र॒प॒च॒ति॒। ‘तिङ्ङतिङः’ (८.१.२८) इति निघातस्य ‘निपातैर्यद्यदिहन्त०’ (८.१.३०) इति प्रतिषेधे प्राप्ते पुनर्विधानम्। सगतिग्रहणात् च गतिरपि निहन्यते। गतिग्रहणे चात्रोपसर्गग्रहणमिष्यते। इह न भवति-यत् काष्ठं शुक्लीक॒रोति॑। यत् काष्ठं कृष्णीक॒रोति॑॥

कुत्सने च सुप्यगोत्रादौ॥ ८.१.६९॥

पदादिति निवृत्तम्। सगतिरपि तिङिति वर्तते। कुत्सने च सुबन्ते गोत्रादिवर्जिते परतः सगतिरपि तिङ् अगतिरप्यनुदात्तो भवति। प॒च॒ति॒ पूति। प्र॒प॒च॒ति॒ पूति। प॒च॒ति॒ मिथ्या। प्र॒प॒च॒ति॒ मिथ्या। कुत्सन इति किम्? पच॑ति शोभनम्। सुपीति किम्? पच॑ति क्लिश््नाति। अगोत्रादाविति किम्? पच॑ति गोत्रम्। पच॑ति ब्रुवम्। पच॑ति प्रवचनम्॥ क्रियाकुत्सन इति वक्तव्यम्॥ कर्तुः कुत्सने मा भूत्। पच॑ति पूतिर्देवदत्तः। प्रप॑चति पूतिः॥ पूतिश्चानुबन्धो भवतीति वक्तव्यम्॥ तेनायं चकारानुबन्धकत्वादन्तोदात्तो भवति॥ विभाषितं चापि बह्वर्थमनुदात्तं भवतीति वक्ततव्यम्॥ प॒च॒न्ति॒ पू॒तिः, पच॑न्ति॒ पूतिः॑। प्र॒प॒च॒न्ति॒ पू॒तिः, प्रप॑चन्ति॒ पूतिः॑।

	सुपि कुत्सने क्रियाया मलोप इष्टोऽतिङीति चोक्तार्थम्।

	पूतिश्च चानुबन्धो विभाषितं चापि बह्वर्थम्॥

गतिर्गतौ॥ ८.१.७०॥

गतिर्गतौ परतोऽनुदात्तो भवति। अ॒भ्युद्ध॑रति। स॒मु॒दान॑यति। अ॒भि॒सं॒प॒र्याह॑रति। गतिरिति किम्? दे॒व॒द॒त्तः प्रप॑चति। गताविति किम्? आ म॒न्द्रैरि॑न्द्र हरि॑भिर्या॒हि म॒यूर॑रोमभिः (ऋ० ३.४५.१)। याहीत्येतत् प्रति क्रियायोगादाङित्येष गतिः। तस्य गतावित्येतस्मिन्नसति गतिरित्यनाश्रितपरनिमित्तकमनुदात्तत्वं स्यात्॥

तिङिचोदात्तवति॥ ८.१.७१॥

गतिरिति वर्तते। तिङन्त उदात्तवति परतो गतिरनुदात्तो भवति। यत् प्र॒पच॑ति। यत् प्र॒क॒रोति॑। तिङ्ग्रहणमुदात्तवतः परिमाणार्थम्। अन्यथा हि यं प्रति गतिः, तत्रानुदात्तो भवतीति धातावेवोदात्तवति स्यात्, प्रत्यये न स्यात्- यत् प्र॒क॒रोति॑ इति। ‘यत्क्रियायुक्ताः प्रादयस्तेषां तं प्रति गत्युपसर्गसंज्ञे भवतः’ (महाभाष्य १.७५) इति तिङन्ते धातुमेव प्रति गतिसंज्ञा। आमन्ते तर्हि न प्राप्नोति- प्रपचतितराम्, प्रपचतितमामिति? अत्र केचिदामन्तेन गतेः समासं कुर्वन्ति। तेषामव्ययपूर्वपदप्रकृतिस्वरत्वे (६.२.२) सत्यक्रियमाणेऽपि तिङ्ग्रहणे परमनुदात्तवद् भवतीति गतिनिघातो नैव सिध्यति। अथ तरबन्तस्य गतिसमासः? एवमपि सतिशिष्टत्वादाम एव स्वरे सति गतेः ‘अनुदात्तं पदमेकवर्जम्’(६.१.१५८) इत्येवानुदात्तत्वं सिद्धम्। येषां ‘गतिकारकोपपदानां कृद्भिः समासवचनं प्राक् सुबुत्पत्तेः’ इत्यनेन वचनेन कृदन्तेनैव प्राक् सुबुत्पत्तेः समासो भवति नान्येनेति दर्शनम्, तेषामेवंविधे विषये समासेन नैव भवितव्यमिति। पृथक्स्वरप्रवृत्तौ सत्यामनेन निघातेन प्रयोजनमस्ति। तदर्थं यत्नः कर्तव्यः। उदात्तवतीति किम्? प्रप॑चति। प्रक॑रोति॥

आमन्त्रितं पूर्वमविद्यमानवत्॥ ८.१.७२॥

आमन्त्रितं पूर्वमविद्यमानवद् भवति। तस्मिन् सति यत् कार्यं तद् न भवति, असति यत् तद् भवति। कानि पुनरविद्यमानवत्त्वे प्रयोजनानि? आमन्त्रिततिङ्निघात-युष्मदस्मदादेशाभावाः। देव॑दत्त॒ यज्ञ॑दत्त इत्यत्रामन्त्रितस्य पदात् परस्य (८.१.१९) इति निघातो न भवति। षाष्ठिकामन्त्रिताद्युदात्तत्वं (६.१.१९८) भवति। देव॑दत्त॒ पच॑सि इत्यत्र ‘तिङ्ङतिङः’ (८.१.२८) इति निघातो न भवति। देवदत्त तव ग्रामः स्वम्, देवदत्त मम ग्रामः स्वमित्येवमादिषु युष्मदस्मदादेशा न भवन्ति। पूजायामनन्तरप्रतिषेधः प्रयोजनम्। यावद् देवदत्त प॒च॒सि॒ इत्यत्रापि ‘पूजायां नानन्तरम्’ (८.१.३७) इत्येव प्रतिषेधो भवति। ‘जात्वपूर्वम्’ (८.१.४७) इत्येतद् देवदत्त जातु पच॑सि इत्यत्रापि भवति। ‘आहो उताहो चानन्तरम्’ (८.१.४९) इति, आहो देवदत्त पच॑सि, उताहो देवदत्त पच॑सि इत्यत्रापि भवति। ‘आम एकान्तरमामन्त्रितमनन्तिके’ (८.१.५५) इति आम् भो॑ पचसि॒ देव॑दत्त इत्यत्रापि भवति। आमन्त्रितमिति किम्? देवदत्तः प॒च॒ति॒। पूर्वमिति किम्? देव॑दत्त इत्येतस्यामन्त्रिताद्युदात्तत्वे कर्तव्ये नाविद्यमानवद् भवति। पूर्वत्वं च परापेक्षं भवतीति परस्यैव कार्ये स्वनिमित्तेऽन्यनिमित्ते वा तदविद्यमानवद् भवति, न तु स्वकार्ये। देव॑दत्त॒ पच॑सि इत्यत्रापि ह्यामन्त्रिताद्युदात्तत्वं भवत्येव। इह इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ इति गङ्गेशब्दः पूर्वमामन्त्रितम् ततः परस्य यमुनेशब्दस्यानुदात्तत्वे कर्तव्ये स्वयमविद्यमानवत्त्वाद् निमित्तं न भवति। मेशब्दस्य निमित्तभावं न प्रतिबध्नाति॥

नामन्त्रिते समानाधिकरणे सामान्यवचनम्॥ ८.१.७३॥

अविद्यमानवत्त्वस्य प्रतिषेधः। आमन्त्रितान्ते समानाधिकरणे परतः पूर्वमामन्त्रितान्तं सामान्यवचनं नाविद्यमानवद् भवति। किं तर्हि? विद्यमानवदेव। अग्ने॑ गृहपते (तै०सं० २.४.५.२)। माण॑वक जटिलकाध्यापक। पूर्वस्य विद्यमानवत्त्वात् परमनुदात्तमेव भवति। आमन्त्रित इति किम् ? देव॑दत्त॒ पच॑सि। समानाधिकरण इति किम्? देव॑दत्त॒ पण्ि॑डत यज्ञदत्त। अत्र यज्ञदत्तविशेषणं पण्डितशब्दः, न पूर्वेण समानाधिकरणः। सामान्यवचनमिति किम्? पर्यायेषु मा भूत्। अघ्न्ये॑ देवि॑ सर॑स्वति ईडे॑ काव्ये॑ विह॑व्ये। पर्यायशब्दा एते। एवं ह्युक्तम् - ए॒ता ते॑ अघ्न्ये॒ नामा॑नि (मा० सं० ८.४३) इति॥

विभाषितं विशेषवचने बहुवचनम्॥ ८.१.७४॥

पूर्वेणाविद्यमानवत्त्वे प्रतिषिद्धे विकल्प उच्यते। विशेषवचने समानाधिकरण आमन्त्रितान्ते परतः पूर्वमामन्त्रितं बहुवचनान्तं विभाषितमविद्यमानवद् भवति। देवाः॒ शर॑ण्याः, देवाः॑ शरण्याः। ब्राह्म॑णा॒ वैया॑करणाः, ब्राह्म॑णा वैयाकरणाः। सामान्यवचनाधिकारादेव विशेषवचन इति सिद्धे विशेषवचनग्रहणं विस्पष्टार्थम्। बहुवचनमिति किम्? माण॑वक जटिलक। नित्यमेतद् विद्यमानवदेव॥

॥ इति श्रीवामनविरचितायां काशिकायां वृत्तावष्टमाध्यायस्य प्रथमः पादः॥