१२ वर्णोपदेशः

अथ किमर्थो वर्णानामुपदेशः?

शास्त्रप्रवृत्त्यै

“वृत्तिसमवायार्थ उपदेशः” ॥ वृत्तिसमवायार्थो वर्णानाम् उपदेशः कर्तव्यः।
किमिदं वृत्तिसमवायार्थ इति? वृत्तये समवायः - वृत्तिसमवायः । वृत्त्यर्थो वा समवायः - वृत्तिसमवायः। वृत्तिप्रयोजनो वा समवायः - वृत्तिसमवायः॥
का पुनर् वृत्तिः? (व्याकरण)शास्त्र-प्रवृत्तिः ॥
अथ कः समवायः? वर्णानाम् आनुपूर्व्येण संनिवेशः॥
अथ क उपदेशः? उच्चारणम् ॥ कुत एतत् ? दिशिर् उच्चारण-क्रियः । उच्चार्य हि वर्णान् आह - उपदिष्टा इमे वर्णा इति ॥

अनुबन्धेभ्यः

“अनुबन्धकरणार्थश् च” ॥ (अइउण् इत्यत्र णकारकरणम् इव) अनुबन्धकरणार्थश् च वर्णानाम् उपदेशः कर्तव्यः । अनुबन्धान् आसङ्क्ष्यामीति । न ह्य् अनुपदिश्य वर्णान् अनुबन्धाः शक्या आसङ्क्तुम् ॥

स एष वर्णानाम् उपदेशो वृत्तिसमवायार्थश् चानुबन्ध-करणार्थश् च । वृत्ति-समवायश् चानुबन्धकरणं च प्रत्याहारार्थम् । प्रत्याहारो वृत्त्यर्थः॥

इष्टोपदेशार्थः

इष्टबुद्ध्यर्थश् च वर्णानाम् उपदेशः। ‘इष्टान् वर्णान् भोत्स्यामहे’ इति । न ह्य् अनुपदिश्य वर्णान् इष्टा वर्णाः शक्या विज्ञातुम् ॥

पूर्णता

“इष्टबुद्ध्यर्थश्चेति चेद् उदात्तानुदात्तस्वरितानुनासिक-दीर्घप्लुतानाम् अप्य् उपदेशः” ॥
इष्टबुद्ध्यर्थश् चेति चेद् उदात्तानुदात्तस्वरितानुनासिकदीर्घप्लुतानाम् अप्युपदेशः कर्तव्यः । एवंगुणा अपि हि वर्णा इष्यन्ते ॥
“आकृत्युपदेशात् सिद्धम् ॥” आकृत्युपदेशात् सिद्धम् एतत् । अवर्णाकृतिर् उपदिष्टा सर्वम् अवर्णकुलं ग्रहीष्यति । तथेवर्णाकृतिः। तथोवर्णाकृतिः॥

अनिष्टप्रतिषेधः

“आकृत्युपदेशात् सिद्धम् इति चेत् संवृतादीनां प्रतिषेधः”॥
आकृत्युपदेशात् सिद्धम् इति चेत् संवृतादीनां प्रतिषेधो वक्तव्यः॥ के पुनः संवृतादयः ? संवृतः, कलः(=स्थानान्तरनिष्पन्नः), ध्मातः, एणीकृतः(=किमयमोकारोऽथौकार इति यत्र संदेहः), अम्बूकृतः(=यो व्यक्तोऽप्यन्तर्मुखमिव श्रूयते), अर्धकः(=ह्रस्वीकृतः), ग्रस्तः, निरस्तः(=निष्ठुरः), प्रगीतः, उपगीतः(=समीपवर्णान्तरगीत्यानुरक्तः ), क्ष्विण्णः(=कम्पमान इव), रोमशः(=महशब्धवान्) - इति ॥ अपर आह - ‘ग्रस्तं निरस्तम् अवलम्बितं(=वर्णान्तरसंभिन्नम्) निहतम्(=रूक्षम्), अम्बूकृतं ध्मातम् अथो विकम्पितम्। संदष्टम्(=वर्धितम्) एणीकृतम् अर्धकं, द्रुतं विकीर्णम्(=एकोऽप्यनेकनिर्भासि) एताः स्वरदोषभावनाः ॥’ इति । अतोऽन्ये व्यञ्जनदोषाः॥

नैष दोषः। गर्गादिबिदादिपाठात् संवृतादीनां निवृत्तिर् भविष्यति॥ (यद्यपि प्रत्ययविध्यर्थो गर्गादीनां पाठः) अस्त्य् अन्यत् गर्गादि-बिदादि-पाठे प्रयोजनम् ॥ किम् ? (पदगत-वर्ण)समुदायानां साधुत्वं यथा स्याद् (न पुनर् एकदेशस्य) इति ॥

प्रत्येकोपदेशे प्रत्यवायः

एवं तर्ह्य् अष्टादशधा भिन्नां निवृत्त-कलादिकाम् अवर्णस्य प्रत्यापत्तिं वक्ष्यामि ॥ सा तर्हि वक्तव्या ॥
“लिङ्गार्था तु प्रत्यापत्तिः”॥ लिङ्गार्था सा तर्हि भवति ॥ तत् तर्हि वक्तव्यम् ॥
यद्य् अप्य् एतद् उच्यते, अथवैतर्हि अनेकम् अनुबन्धशतं नोच्चार्यम्, इत् संज्ञा च न वक्तव्या, (हल् अन्त्यम् इति) लोपश् च न वक्तव्यः । यद् अनुबन्धैः क्रियते तत् कलादिभिः करिष्यते ॥
(शास्त्रं) सिद्ध्यत्य् एवम् । अपाणिनीयं तु भवति ॥

गर्गादिबिदादिपाठात् समाधानम्

यथान्यासमेवास्तु ॥ ननु चोक्तम् - आकृत्युपदेशात् सिद्धम् इति चेत् संवृतादीनां प्रतिषेधः इति ॥
परिहृतमेतत् -गर्गादिबिदादिपाठात् संवृतादीनां निवृत्तिर् भविष्यति॥ (यद्यपि प्रत्ययविध्यर्थो गर्गादीनां पाठः) अस्त्य् अन्यत् गर्गादि-बिदादि-पाठे प्रयोजनम् ॥ किम् ? (पदगत-वर्ण)समुदायानां साधुत्वं यथा स्याद् (न पुनर् एकदेशस्य) इति ॥

एवं तर्ह्य् उभयम् अनेन क्रियते - पाठश् चैव विशेष्यते, कलादयश् च निवर्त्यन्ते ॥ कथं पुनर् एकेन यत्नेनोभयं लभ्यम् ? लभ्यम् इत्याह । द्विगता अपि हेतवो भवन्ति । तद् यथा - (तर्पणेन) आम्राश्च सिक्ताः पितरश् च प्रीणिता इति ।(5) तथा वाक्यान्य् अपि द्विष्ठानि भवन्ति (श्लेषालङ्कारयुक्ताः) - श्वेतो(=श्वा+इतः इत्यपि) धावति, अलम्बुसानां(=देशविशेषाणां ‌/ बुसानाम्=पलालानां [वर्णप्राप्तौ] समर्थानाम्‌) (समीपे) यातेति ॥

श्रवणाभावात् समाधानम्

अथवा - इदं तावद् अयं प्रष्टव्यः - क्वेमे संवृतादयः श्रूयेरन्न् इति?
आगमेषु । आगमाः शुद्धाः पठ्यन्ते ॥
विकारेषु(=आदेशेषु) तर्हि । विकाराः शुद्धाः पठ्यन्ते ॥
प्रत्ययेषु तर्हि । प्रत्ययाः शुद्धाः पठ्यन्ते ॥
धातुषु तर्हि । धातवोऽपि शुद्धाः पठ्यन्ते ॥
प्रातिपदिकेषु तर्हि। प्रातिपदिकान्य् अपि शुद्धानि पठ्यन्ते ॥
यानि तर्ह्य् अग्रहणानि प्रातिपदिकानि । एतेषाम् अपि स्वरवर्णानुपूर्वीज्ञानार्थ उपदेशः कर्तव्यः । शशः षष इति मा भूत् । पलाशः पलाष इति मा भूत् । मञ्चको मञ्जक इति मा भूत् ॥(5)
‘आगमाश्च विकाराश्च, प्रत्ययाः सह धातुभिः। उच्चार्यन्ते ततस् तेषु, नेमे प्राप्ताः कलादयः ॥ १॥

इति श्रीमद्-भगवत्-पतञ्जलि-विरचिते व्याकरण-महाभाष्ये प्रथमस्याध्यायस्य प्रथमे पादे प्रथमम् आह्निकम् ॥