Whitespace

उच्चारणेन सम्बन्धः

प्रायः सर्वत्र वस्तुतो वाक्यानां लेखने रिक्तस्थानेषु दर्शितेष्व् अपि,
उच्चारणे तत्कारणाद् विरामो न लक्ष्यते।
उदाहरणाय, गतवाक्यम् उक्त्वा पश्यतु, साधारण-रीत्या।
केवलम्, ‘।॥’ इति चिह्नेन ‘,’ चिह्नेन च सूचितयोस् स्थानयोश् च विरामो ऽनुभूयते।
स्वर-व्यत्ययस् तु यथा साधारणं भिन्नपदेषु दृश्यते -
तत्र न किमप्य् उच्यते।
कदाचित् तदृश-छिह्नाभावेऽपि विरामो लक्ष्येत, परन्तु “तद् रिक्तस्थानस्य कारणाद् एव” इति न वक्तुम् अर्हामः। प्रायः तत्र विरामचिह्नयोजनं श्रेयस इति वचनन्तु साधु स्यात्।

आङ्ग्लिके ऽपि तथैव। “I went to hear the conference call. But it was so noisy that I quit.” इति वाक्यं सस्वरं यथासाधारणम् उक्त्वा परीक्षताम्। तत्रापि न कुत्रापि विरामो लक्ष्यते। एवं “रिक्तस्थानात् पृथक्पठनं” नाम विरामस्वीकृतिर् इति सूचिता चेत् तर्हि, “हरिर् आगतः” इत्यादौ पृथक्पठनस्य संभावना एव नास्ति।

सर्वासु भाषास्व् इयम् एव स्थितिः।

No spacing

  • Pre 1800 manuscripts did not use whitespaces.
  • Rarely, one sees people following this convention.

यथा तालपत्राद्यवेक्षणेन जानीयात् - २००-वर्षाभ्याम् पूर्वं भारतीया न हि विदुर् एव रिक्तस्थानप्रयोजनम्। पश्चाद् आङ्ग्लेयेभ्यो ऽवगत्य किञ्चित् प्रयोक्तुम् प्रारभन्त।

Some spacing

Here space is avoided in case of most sandhis (makAra to anusvAra being an exception), but is introduced everywhere else between pada-s. This is popular with the advent of printing.

  • कुजपस्यापल्यम्‌ इत्यणान्तावेतौ । Source: TW
  • स्थानसाम्याद्‌ अकारस्य Source: TW

Extra spacing

  • I sometimes like to follow the convention shown here: “व्याख्यातुं कुशलाः केचिद् ग्रन्थान् धारयितुम् परे॥”. Whatever helps the reader.

इयं पाश्चात्य-लेखनशैली पदविभागम् प्रकटीकरोतितराम्।
तत्-तत्-समुदायगतपाठकस्य तत्र तत्र पठने सौकर्यस्यानुभवः।
इयं हि शैली ममेष्टं पठनसौकर्यात्।

रिक्त-स्थानान्वितं स्वर-व्यञ्जन-पृथग्-लेखनम् अस्मद्-रीत्या पद-पार्थक्यं सूचयति।
तद् एव -चिह्नान्वितं समस्त-पद-गतोपपद-भेदं दर्शयति।
अतो ऽत्र रिक्तस्थानस्य -चिह्नस्यार्थो ऽधिकः।

यथा “अवभ्रियन्ते उत्सृज्यन्ते कानिचिद् द्रव्याण्य् अस्मिन्न् इत्य् अवभृथः कर्मविशेषः” इति वाक्यम् पश्यतु।
रीत्यन्तरेण लिखितं तदेव वाक्यम् एवम् अभविष्यत् - “अवभ्रियन्ते उत्सृज्यन्ते कानिचिद्द्रव्याण्यस्मिन्नित्यवभृथः कर्मविशेषः ।”
वीक्षताम् - “कानिचिद् द्रव्याण्य् अस्मिन्नित्य् अवभृथः” इति पठितुं सरलतरम्,
“कानिचिद्द्रव्याण्यस्मिन्नित्यवभृथः” इति पठितुम् अधिकः श्रमः - विशिष्य प्रारम्भिकावस्थायाम्,
यद्य् अपि पण्डितेषु रिक्तस्थानाभावे हि सौकर्यम्।

Objection to uniformity

अप्राचीनता

An objection I’ve come across multiple times is as follows:

“The break up of words is fine for your conversational exchanges, news reporting, indology word analysis, personal study, and to teach students, but not for the original texts. They should not be disturbed.”

To this, my response is to note as follows: If you want to “keep it original” -

you should remove EVERY bit of whitespace (and even very many avagrahas) - that was how all indian scripts were written 200 years ago as may be verified from palm leaf manuscripts, inscriptions and engravings. There is no shAstra requiring anyone to follow some arbitrary, modern and inconsistent rule for breaking up words. As such personal convenience trumps such shaky conventions.

ग्रन्थेषु रिक्तावकाशं विना लेखनस्याभ्यास आसीत् पत्राणाम् व्ययो मा भूद् इति हेतोः।

इति च न तथ्यम्,
यतः सावकाशेष्व् अपि स्थलेषु शिलालेखादिषु न दृश्यते रिक्तावकाशः।
प्रत्य्-उतानुपयोगे कारणम् अज्ञानम् अन्तरा न किञ्चित्।
अन्यत्रापि यथा -

The use of spaces between words in European language writing began with Irish scribes in the late 7th century. They introduced spaces at irregular intervals to create what is referred to as “aerated” text, making it easier to read and understand written texts. This innovation was part of a broader shift away from the traditional scriptio continua, where texts were written without word separation, a common practice in ancient Greek and Roman manuscripts. …
The spread of word separation across Europe was gradual, becoming more widespread by the late 10th century as scholars began to master and disseminate classical texts. This development significantly contributed to the evolution of silent reading, allowing individuals to interpret texts independently rather than relying on oral recitation.

अनभ्यासः

अन्येभ्यो भारतीयेभ्यो बहुभ्यस् स्वसंस्कार-वशाद्
इयं (“कानिचिद् द्रव्याण्य् अस्मिन्न् इत्य् अवभृथः” इति) लिखन-पद्धतिर् न रोचत
इति वेद्मि।

रिक्त-स्थानान्वितं स्वर-व्यञ्जन-पृथग्-लेखनम् अस्मद्-रीत्या पद-पार्थक्यं सूचयति।
तत्र संस्कारवशाद् रिक्तस्थानस्यार्थ उच्चारणे विराम इत्य् अपार्थे सति,
अन्यथा भ्रमे सति, पठन-गति-बाधो जायते, नान्यथा।

तेषां कृते “कानिचिद्द्रव्याण्यस्मिन्नित्यवभृथः” इति पाठम्
पुनर् यान्त्रिक-रीत्या “कानिचिद् द्रव्याण्य् अस्मिन्न् इत्य् अवभृथः” इति पाठाज् जनयितुं सरलम्
(न तावद् विपरीतम् - यान्त्रिक-पद-विभाग-करणे दोष-सम्भवात्)।

अहम् अभ्यासेन संस्कृते नेटिवतां/ सहजतां च प्राप्तवान्
अतः एतादृश-लेखनं मम तथैव भासते
यथा भारतीयस्य कृत्रिमा आङ्ग्लभाषा आमरीकानां भासते।

इति विषमम् उक्तम्।
आङ्ग्लिकानाम् भारतीय-ध्वनित-भाषायाम् उपहासो, न तावल् लिखिते।
भवतश् च लिखिते हि वैचित्र्यानुभूतिः, न भाषिते।

“एवं लिखिते सत्य् अर्थबोधो न जायते।”
इति च न लेखनस्य दोषः -
अर्थबोधस् तु मनसि वैखरिताम् प्राप्ताया भाषाया भवेन् न वा,
नात्र लिखितस्य प्राधान्यम्।
लिखिता भाषा मनसि तान् तान् शब्दान् जनयति न वेत्य्-अत्र +अभास एव कारणम्।

एवम् उपलातिन-लिप्या लिखितम् अपि संस्कृतम्
अभास्याभावे पाठकेषु काठिन्यं जनयति,
यथा कश्चिद् “kaścit kāntāvirahaguruṇā " इति दृष्ट्वा संस्कृतज्ञः
नानारेखाबिन्द्वादीनाम् अर्थान् अजानन् कष्टेनोहित्वाऽवगच्छेत्।

शैलीयम् अभाससापेक्षा। अन्यत्र यथोच्यते

The spread of word separation across Europe was gradual, becoming more widespread by the late 10th century as scholars began to master and disseminate classical texts.

सन्धिः

सन्धिं मा करोतु - नूतनानां तथैव सौकर्यम्।

इति चेत् -
सन्धिर् व्याकरणेन विहितः, ध्वनित-भाषायां च स्वाभाविकः। न तं हातुम् ईहे।

पुनर् ये कथयन्ति “सन्धिं विना लिखामः” इति, तेऽपि “सन्धिम् विना लिखामः” इत्यस्य स्थाने “मोऽनुस्वार” इत्यादि प्रयुञ्जतय् एव।

देवनागर्य्-आदि-व्यभिचारः?

alphabets have ə schwa vowels seperately attached Ramə etc.
Devanagari cannot have that. अत्र तु लिपिमर्यादापि भज्यते।

इति केचित्।
किञ्च, मुद्रितग्रन्थप्रचारात् परम्, बहुत्र दृश्यते व्यञ्जन-स्वरयोः पृथग् लेखनम्, यथा -

  • कुजपस्यापल्यम्‌ इत्यणान्तावेतौ । Source: TW
  • स्थानसाम्याद्‌ अकारस्य Source: TW

लिपेः काचन शक्तिर् अस्तीति कारणेन, सर्वत्र सा प्रयोक्तव्येति वा, क्वचिद् अपि न सा प्रयोक्तव्येति वा ऽऽग्रहो मा भूत्। यत्र प्रयोगेण सौकर्यम्, तत्र प्रयुज्यताम्, नान्यत्र।

आङ्ग्लादि-लेखानाननुकरणीयता

अपरं च यद् आङ्ग्ल-लेखने सर्वे शब्दाः पृथक् क्रियन्ते,
तत्र हेतुः विभक्तीनाम् बाहुल्यं नास्ति इति।
English is not a very inflectional language like Sanskrit.
संस्कृते तु विभक्ति-सामानाधिकरण्येनैव शब्द-सीमा शब्द-द्वय-संसर्गश् च भासते,
तथा आङ्ग्ले न संभवति।

इति चेन् न -
आधुनिकैस् सविभक्तिकभाषा लातिन-यावन-शौलपुरुषादयो ऽपि
पदयोर् मध्ये रिक्तावकाशेनैव सेव्यन्ते, यथा -

ἄνδρα μοι ἔννεπε, μοῦσα, πολύτροπον, ὃς μάλα πολλὰ
(andra moi ennepe, mousa, polutropon, hos mala polla)

अपरं च, देवनागरी-लिपिस् तु संस्कृतार्थे संपन्ना भवति,
किन्तु रोमन-लिप्यां सर्वाणि चिह्नानि न प्राप्यन्ते,
सा तु लातीन-भाषार्थम् निर्मिता
आङ्ग्लेपि बलात् प्रयुज्यते,
अतः वर्तनीषु बहुधा असाहज्यम् अनुभूयते,
सन्धिश्च लिपि-बद्धा न क्रियते।

इति चासत्।
देवनागरी ब्राह्मी वाङ्गी कार्णाटी वा -
प्रत्येकं संस्कृत-प्राकृतादि-लेखने प्राचीनकालाद् अपि प्रयुक्तम्।

सन्धिर् उच्चारण-विषयः

पूर्णसन्धिप्रक्रिया कर्तव्येत्य् अहम् अङ्गीकरोमि। किञ्च सन्धिर् उच्चारितवर्ण-विषयो, न लिखितवर्णविषय इत्य् एतावान् व्यत्यासः।

“हरिर् अत्र” इति च, “हरिरत्र” इति च समानम् एव शब्दम् उद्भावयतः खलु? को व्यत्यासः?

  • गद्य-लेखने सन्धिनियम-पालने च रिक्त-स्थान-योजने अत्र, अत्र च।
पूर्णानन्द-प्रतिस्पन्दः

भवतः यदि पठनसौलभ्यं लक्ष्यं
तर्हि तत्तु न जायते
यतो मत्सदृशा बहवो जना एवं भवते उक्तवन्तः।
मयापि काठिन्यम् अनुभूयते।
मया बहुलपनेनालं।
जनानाम् अनुभवो ऽत्र प्रमाणम्।
गतिर् अवरुध्यते, यथालिखितं पठामि चेत्,
सन्धयो यत्र कृतास्
तत्र झटिति पठित्वा सद्यो बोधो भवतीत्य् अनुभवः प्रमाणम्।
भवतो निर्णयो बलीयानिति नाधिकं ब्रवीमि।

ये तु आमरीक-जनाः
तेषाम् आङ्ग्लं तु नः एवं प्रतीयते
यत् सर्वम् अस्पष्टम् अस्ति,
शब्दाः परस्परं युक्ताः,
सर्वेषां शब्दानां सीमाः आद्यन्तरूपाः पृथक्त्वेन न भासन्ते।

नैवम् - स्वरज्ञाने सति, प्रतिपदम् एक एव व्याघातभाक् स्वर इति कारणेन व्यत्यासो ज्ञायते।
तच्चाभ्यासेन सम्भवतीति।

आङ्ग्लस्य ये जात-भाषिणः
ते अस्मान् उपहसन्ति,
तेभ्योऽस्माकं भाषणं कृत्रिमं भासते।

अत्र सन्ध्य्-अभावः कारणं न,
अपि तूच्चारण-व्यत्यासः, विशिष्य पद-स्वरेषु (accents), w-v-भेदादौ च। नूनम्, वयम् अपि

He’ll come on the ‘morrow

इति लिखामो ब्रूमश् च ।