लेखन इष्टानि
- पठनसौकर्यम्
- अवगमन-सौकर्यम्
- सार-ग्रहण-सौकर्यम्
- प्रियांश-स्मरण-सौकर्यम्
- ग्रन्थ-भाग-प्राप्ति-सौकर्यम्
- अन्वेषणसौकर्यम्
- शिक्षणसौकर्यम्
कदाचिद् एतानि परस्परविरोधकानि स्युर् ध्येयानि।
स्वाभीष्टोट्टङ्कन-विधानम्
इमे ऽंशा अवगमन-सौकर्याय कल्पन्ते -
- पद-भेद-कलनम्
- समस्तपदय् उपपदविभागे
-+
चिह्नयोः प्रयोगः। यथा - “नैमिषारण्य-वासिनाम्”। - स्थूलतर–पद-खण्ड–भेद-दर्शनार्थम्
--
-प्रयोगः, यथाऽस्मिन्नेव वाक्ये। - रिक्तस्थान-प्रयोगः पदयोर् मध्ये - `पदयोर् मध्ये’ इत्यत्र।
- समस्तपदय् उपपदविभागे
- वाक्यखण्डभेददर्शनार्थम् नूतन-पङ्क्तेर् आरम्भः।
- सूचि-लेखने पङ्क्तेर् आदौ
-
इत्यादेः प्रयोगो ऽपि।
- सूचि-लेखने पङ्क्तेर् आदौ
- ग्रन्थ-विभागाङ्कनम्
- रिक्तपङ्क्तिनिवेशनेन paragraph-भेदः
- विभागानुसारेण शीर्षिका-निवेशनम्
- मूल-टीकादि-विभाग-कल्पनम् (html collapsible details tag प्रयोगेण, markdown footnotes प्रयोगेण वा यथा)।
- अन्यत उदाहृतस्य पाठस्य भिन्नरूपेण दर्शनम्। यथा - markdown quotation रीत्या,
"
-आदि-चिह्नैश् च।
- श्लोकवाक्ये मुख्यपदानां (नामात्र क्रियापदस्य, कर्तृपदस्य, कर्मपदस्य) चोद्दर्शनम् स्थूलाक्षरैः।
- टिप्पनी-निवेशनम्, यद् अन्यत्र वर्णितम्।
इमे ऽंशाः पठन-सौकर्याय कल्पन्ते -
- ‘।॥,’ इति विराम-चिह्नानाम् प्रयोगः
- श्लोकेषु
- पाद-भेद-दर्शनाय नूतन-पङ्क्तेर् आरम्भः।
- यतिस्थान-दर्शनाय
,,
-चिह्न-प्रयोगः। +
-चिह्न-प्रयोगसहित-सन्धिविभागः।
- यथाव्याकरणं प्रयोगो ऽनुनासिकानाम्।
- यथाभाषणं लेखनं सन्धियुक्तम्।
- अवगमनसौकर्याय वा पठनसौकर्याय वा सन्धिविग्रहे कृते,
+
-चिह्न-प्रयोगः। यथा - “सु॒+उ॒प॒स्था दे॒वो वन॒स्पति॑र्…”
इमे ऽंशा अन्वेषणसौकर्याय कल्पन्ते -
- व्याकरणविकल्पे सति प्रसिद्धस्य ग्रहणम्। यथा - “सूर्य्य” इत्यस्यापेक्षया “सूर्य” इति लेखनम्।
इमे ऽंशा लेखनसौकर्याय कल्पन्ते -
वा पदान्ते
इति व्याकरणविकल्पानुसारेण पदान्ते ऽन्यानुनासिकस्थाने ऽनुस्वारप्रयोगः। यथा - “ग्रामं गच्छ” इति।
उदाहरणानि
विस्वरपाठेभ्यः
तम् आश्रमम् अनुप्राप्तं
नैमिषारण्य-वासिनाम् ।
चित्राः श्रोतुं कथास् तत्र
परिवव्रुस् तपस्विनः ॥
अत्रावगमनसौकर्याय वाक्यखण्डभेदः प्रदर्शितः -
हस्तौ प्रक्षाल्य
कमण्डलु मृत्पिण्डं च गृह्य
तीर्थं गत्वा
त्रिः पादौ प्रक्षालयते
त्रिर् आत्मानम् ।
यथोच्चारणलेखनम्
- अस्मिन् पक्षे लेखनं भाषणम् अनुकुर्याद् अधिकश्रमं विना। तद् एव पठनसौकर्याय कल्पते।
- कदाचित् त्व् अन्यानीष्टानि भवन्ति लेखने यानि यथोच्चारणलेखन-प्रतिबन्धकानि भवन्ति - यथा ऽन्वेषणसौकर्यम्, शिक्षणसौकर्यम् इति।
- यत्र भाषणे विरामो भवति, तदनुसारेण सन्धिश् च न भवति, तत्र लेखने विरामचिह्नप्रयोगस् स्यात्, सन्ध्यभावश्च।
- यत्र तु भाषणे स्वभावतो विरामं विना सन्धिर् भवति, लेखने ऽपि तद् दृश्येत।
- यद्यधिकश्रमं विना वर्गीयव्यञ्जनपञ्चमानि लेखितुं शक्यानि (यथा सङ्गणकोट्टङ्कने सुकॢप्ते), तर्हि तान्येव प्रयोक्तव्यानि, नानुस्वाराणि।
संस्कृतेऽपि यथा उच्चार्यते तथा न लिख्यते इति भ्रमो दृश्यते। एतस्यैकं कारणञ्च देश्यभाषासु अपभ्रंशोच्चारणेऽपि संस्कृतानुरूपमेव लिखितव्यमिति अस्मत्परम्पराविरुद्धो नियमोऽपि वर्तते।
- सम्मोदाचार्यः
दुरुच्चारणाद् व्यभिचाराः
“यथाप्रति तथा लिखितं, मम दोषो न दीयते”
इत्यस्य स्थाने
“जथाप्रति तथा लिषितं मम दोशो न दियते” [Manuscript of भगवद्गीता written by ‘सुषः भारती’ (सुख भारती?) for देव भारती.]
लालचन्दसङ्ग्रहे
तत्रैव सपतमीति “सप्तमी”-स्थाने।
सङ्क्षेपलेखनम्
- अनुस्वारा असकृत् वर्हीय-पञ्चमानां स्थाने प्रयुक्ता दृश्यन्ते
- एवं जिह्वामूलीयोपध्मानीययोस् स्थाने विसर्गः
अन्वेषण-सौकर्यम्
The fact that there is no separate sign in roman scripts for independent vowel (eg आ) vs dependent vowel (eg the mAtrA in ा) helps easier searching. I generally get by quite well searching for a substring (वेक्ष्य instead of अवेक्ष्य or ावेक्ष्य) though.
Misc conventions
- ४ं is चतुर्वारं (four times डं, हं, णं etc.)