प्रश्नेषु वाकारः सिद्धयति वा?
नेति भ्रमो मा भूत्। यतः कल्पद्रुमः -
वा …
वितर्कः । (यथा, महाभारते । १ । १५४ । २३ । “किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः । मामासादय दुर्ब्बुद्धे तरसा त्वं नराशन ! ॥”)
वितर्केऽभिव्यक्ते तद्-अपाकरणसमर्थान् न वोत्तरम् उत्पद्यते?
“2 stands for two or three” इति श्रवणमात्रेन ज्ञाता “But but you didn’t include an interrogative word or phrasing (‘Does’) in your sentence” इति वदति?
वितर्को हि जिज्ञासितार्थप्रकाशकः।
“अस्ति वात्र शालातुरीयः?”
उत्तरचोदनं तावद् ध्वनिना मुखभावेन वाऽलं व्यज्यते।
किम् बहुना - वितर्कोेऽपि तेनैव स्वरभावविशेषेणापि काशते।
तद् यथा - “अस्त्य् अत्र शालातुरीयः?”
“किम् अस्त्य् अत्र शालातुरीयः?” इति सककारवाक्यस्यानिवार्यतैव नास्ति।
बालोऽपि - “I have a question” इत्य्-अस्य स्थाने
“sir, I have a doubt …” इति,
“I wonder if this road leads to Rome.” इति वा
वितर्केणापि प्रष्टुम् उपक्रमते ।
प्रयोगोदाहरणानि
‘वा’ इत्यस्य प्रश्नवाचकत्वेन प्रयोगाः केचन यथा -
१. व्याकरणमहाभाष्ये -
‘अस्ति वा - इह कश्चित्पुरुषारम्भः’ (आद्यन्तौ टकितौ - १.१.४६)‘अस्ति वेति प्रश्नः । ‘च’ पाठस्त्वयुक्तः, तस्य प्रश्रेऽयुक्तत्वात्’ उद्योते नागेशः)
२. महाभाष्यस्य नागेशभट्टकृते व्याख्याने -
‘उक्तप्रयोजनविशिष्टं सूत्रं निर्दोषं वा ? इति काक्वा प्रश्नः ।’
(प्रत्ययलोपे प्रत्ययलक्षणम् - १.१.६२)३. लघुवासदेवमननाख्ये वेदान्तग्रन्थे -
१. राजादीनामपि शरीरपरिग्रहेण दुःखमस्ति वा ?
२. विवेकिनामपि शरीरपरिग्रहाद्दः खमस्ति वा ? (चतुर्थवर्णके)४. उत्तररामचरिते -
हा देवि ! स्मरसि वा तत्समयविस्त्रम्भातिप्रसङ्गस्य ? - षष्ठेऽङ्के