२२७ उपसम् (उप+सम्)

अस्

  • {उपसमस्}
  • अस् (असु क्षेपे)।
  • ‘निघाते सहस्रम्’ (गौ० ध० ३।५।२१)। अत्राह हरदत्तः–उपसमस्तं वर्षपदमपेक्षत इति। उपसमस्तं समासस्य पूर्वावयवभूतमित्यर्थ इति भाति।

  • {उपसमि}
  • इ (इण् गतौ)।
  • ‘ते देवतायै देवतामुपसंयन्ति’ (श० ब्रा० १२।२।३।१२)। उपसंयन्ति उपसंक्रामन्ति।
  • ‘विश्वे वो देवा उपसंयन्तु’ (अथर्व० ३।८।४)। उपसंयन्तु समुदिताः संहिता उपयान्तु।

इन्ध्

  • {उपसमिन्ध्}
  • इन्ध् (इन्धी दीप्तौ)।
  • ‘इत्याहवनीयमुपसमिन्धे’ (आप० श्रौ० १।१।४)। धारणाय समर्थमिन्धनमुपसमिन्धनम्, महाकाष्ठाधानमिति धूर्तस्वामी।

ऊह्

  • {उपसमूह्}
  • ऊह् (ऊह वितर्के)।
  • ‘सो ऽनुपसमुह्यानुपाधायोदपिपतिषत्’ (श० ब्रा० १०।२।१।१)। अनुपसमुह्य=असंकोच्य।
  • ‘तद्यावदेवोपसमूहति तावद् व्युदूहति’ (श० ब्रा० १०।२।१।४)। व्युदूहति प्रसारयति। तद्विरोधादुपसमूहति संकोचयतीति व्यक्ततरोऽर्थः।
  • ‘प्रजाभ्यस्त्वेत्युप समूहति’ (तै० सं० ६।१।९)। उपसमूहति एकराशी करोति।
  • ‘वयांसि यदैव पक्षा उपसमूहन्ते’ (श० ब्रा० १०।२।१।१)। उपसमूहन्ते प्रतिसंहरन्ते संकोचयन्ति।

कृ

  • {उपसंस्कृ}
  • कृ (डुकृञ् करणे)।
  • ‘जन्यार्थमन्नं द्रुपदेन राज्ञा विवाहहेतोरुपसंस्कृतं च’ (भा० आदि० १९४।१)। उपसंस्कृतं संस्कृतम्, सुष्ठु संस्कृतम्।

क्रम्

  • {उपसंक्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘एतमानन्दमयमात्मानमुपसङ्क्रामति’ (तै० उ० २।८)। उपसङ्क्रामति प्राप्नोति।

ख्या

  • {उपसंख्या}
  • ख्या (ख्या प्रकथने, चक्षिङ आदेशो वा)।
  • ‘समापूर्यन्त चासङ्ख्यैरुपसंख्यामुपस्थितैः। सापत्नै राजपुत्रैश्च… दिशः’ (कथा० ७४।२७८)॥ इतरैः सह संख्यानमुपसंख्यानम्। अत एव पाणिनीये शासने वार्तिकमुपसंख्यानमुच्यते। अत एव चोपसंख्येयमधिकं संख्येयमित्यर्थमाचष्टे।

गम्

  • {उपसंगम्}
  • गम् (गम्लृ गतौ)।
  • ‘सर्वा हि देवताः पशुमालभ्यमानमुप संगच्छन्ते’ (श० ब्रा० ३।८।३।४)। उपसंगच्छन्ते उपसङ्गच्छन्ति समुदिता उपतिष्ठन्ति।
  • ‘ब्राह्मणं ब्राह्मणीं चैव मिथुनायोपसंगतौ’ (भा० आदि० १८२।१०)। निधुवनाय मिथः संगतावित्यर्थः।
  • ‘भगवांस्तास्तथाभूता विविक्त उपसङ्गतः’ (भा० पु० १०।८२।४१)। उपसङ्गतः (ताभिः) सम्पृक्तः, संप्रयुक्तः।

ग्रह्

  • {उपसंग्रह्}
  • ग्रह् (ग्रह उपादाने)।
  • ‘देवदत्तस्य यद् धान्यं संगृहीतं पुरस्ताल्लवनेनोपसंगृह्णन्ति’ (पा० १।३।१४ इत्यत्र न्यासः)।
  • ‘यानन्यान् पश्यतोऽस्याचार्य उपसंगृह्णीयात् तदा त्वेत उपसङ्ग्राह्याः’ (सत्या० श्रौ० २६।२।७०)। उपसङ्गृह्णीयात् पादग्रहणं कुर्यात्।
  • ‘प्रत्युत्थायोपसंगृह्य’ (भा० शां० ७१।४)। उक्तोऽर्थः। उपसंग्रहेः प्रयोगे चरणाविति कर्म कामं त्यज्यताम्, न तेन व्यवहारोऽतीयते।
  • ‘तमुपसंगृह्य पप्रच्छाधीहि भोः कः सविता का सावित्री’ (गो० ब्रा० पूर्व० १।३२ )। अत्र तच्चरणोपसङ्ग्रहणं तदुपसङ्ग्रहणमुक्तम्, वाचां वैचित्र्यात्।
  • ‘उपसंगृह्य पप्रच्छुः’ (भा० पु० ११।२।१३)। उक्तोऽर्थः।
  • ‘अभिगम्योपसंगृह्य जगाम शिरसा महीम्’ (भा० आदि० १३२।५२)। शिरसा महीं जगाम शिरसा भुवं पस्पर्श।
  • ‘पाणिभ्यां तूपसंगृह्य स्वयमन्नस्य वर्धितम्’ (मनु० ३।२२४)। उपसंगृह्य सम्यग् गृहीत्वा।
  • ‘समिधमुपसंगृह्य’ (श० ब्रा० १२।४।४।६)। उक्तोऽर्थः।
  • ‘गाण्डीवमुपसंगृह्य बभूव मुदितो ऽर्जुनः’ (भा० आदि० २२५।२०)। उपसंगृह्य प्रतीष्य आदाय वित्त्वा।
  • ‘स्फ्येनोपसंगृह्याविविञ्चन् हरति’ (आप० श्रौ० १।५।१६।६)। उपसंगृह्य समुपश्लेष्य। एकीकृत्य।
  • ‘धर्मरक्षितां नाम शाक्यभिक्षुकीं चीवरपिण्डदानादिनोपसंगृह्य’ (दशकु० पृ० ११०)। उपसङ्गृह्य=वशे कृत्वा।
  • ‘प्रतिभामुपसर्गांश्चाप्युपसंगृह्य’ (दशकु० पृ० ११०)। उपसङ्गृह्य=वशे कृत्वा।
  • ‘प्रतिभामुपसर्गांश्चाप्युपसंगृह्य योगतः। तांस्तत्त्वविदनादृत्य आत्मन्येव निवर्तयेत्’ (भा० शां० २४०।२४)॥ उक्तोऽर्थः।
  • ‘परिष्वज्योपसंगृह्य’ (स्नुषां तां देवीं मायावतीम्) (हरि० २।१०८।३५)। परिष्वञ्जनोपसङ्ग्रहणयोः क्रिययोः कर्त्री रुक्मिणी।
  • ‘समावृत्तेन सर्वे गुरव उप सङ्ग्राह्याः’ (आप० ध० १।४।१४।७ )। उपसङ्ग्राह्याः पादयोरभिवादनीयाः।
  • ‘भर्तुर्भार्योपसङ्ग्राह्या’ (मनु० २।१३२)। उक्तोऽर्थः।
  • ‘स्फुरति रभसात्पाणिः पादोपसङ्ग्रहणाय च’ (महावीर० २।३०)। पादोपसङ्ग्रहणम् पादग्रहणम्। सम्शब्दप्रयोगः प्रायिकः।
  • ‘व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः। सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः’ (मनु० २।७२)॥
  • ‘यदुच्यते द्विजातीनां शूद्राद्दारोपसङ्ग्रहः’ (याज्ञ० १।५६)। उपसङ्ग्रहो ग्रहणं वेदनम्।
  • ‘धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसङ्ग्रहात्’ (वा० प० ३।३३६)। उपसङ्ग्रहोऽन्तर्भावः।
  • ‘अथ यस्यागमादर्थपृथक्त्वमह विज्ञायते…स कर्मोपसङ्ग्रहः’ (नि० १।४)। कर्म=अर्थः। उपसंगृह्यत आक्षिप्यते यः स उपसंग्रहः। कर्म (अर्थः) उपसंग्रहो यस्य स कर्मोपसङ्ग्रह इति महेश्वरः।
  • ‘बलानामुपसंग्रहम्’ (रा० १।३।२५)। उपसंग्रहः संमेलनम्।
  • ‘उपातिष्ठत मेघाभः पर्यङ्के सोपसङ्ग्रहे’ (भा० वि० १७।१६)। उपसङ्ग्रहस्तूलिका, उपधानम्।

चक्ष्

  • {उपसंचक्ष्}
  • चक्ष् (चक्षिङ् व्यक्तायां वाचि)।
  • ‘तथा सूचिसूत्रिमूत्रीणामिन्नन्तानामनेकस्वरत्वाद्यशब्दो न सिध्यतीत्याचार्या उपसंचक्षते’ (शिष्यहितान्यासे (३।६।४३)। अधिकं पठन्तीत्युक्तं भवति।

चर्

  • {उपसंचर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘दैत्यान् गृहीतकलशो वञ्चयन्नुपसञ्चरैः’ (भा० पु० ८।९।२१)। उपसञ्चरै र्बहुमानप्रियवाक्यादिनेति श्रीधरः। कटाक्षादिभिरिति हिन्दीटीका। उपचारार्थे उपसञ्चरशब्दं प्रयुङ्क्ते कविः पुराणकारः। अत्रास्य नूत्नशब्दनिर्मित्सैव प्रयोजिका।

तन्

  • {उपसंतन्}
  • तन् (तनु विस्तारे)।
  • ‘ब्रह्मणैव हि तद् ब्रह्मोपसन्तनोति’ (शां० ब्रा० ११।४)। अनुबध्नाति, आनन्तर्येण पठति।
  • ‘एतमाग्नेयं गायत्रमुपसन्तनुयात्’ (आश्व० श्रौ० ६।५)। पूर्वेणाव्यवहितं पठेदित्याह।
  • ‘प्र वो देवायेत्याज्यमुपसन्तनुयात्’ (आश्व० श्रौ० ५।९)।

दो

  • {उपसंदो}
  • दो (दो अवखण्डने)।
  • ‘समर्थस्यैवासामर्थ्यं विरुद्धमिति चेन्न। उपसन्दानजीवित्वात्सामर्थ्यस्य’ (का० प्र० ७।५० प्रदीपे)। उपसन्दानं सम्बन्धः।

धा

  • {उपसंधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘न्यायप्रवृत्तो नृपतिरात्मानमथ च प्रजाः। त्रिवर्गेणोपसन्धत्ते’ (शुक्र० १।६७)। उपसन्धत्ते सन्धत्ते संयुनक्ति। उपप्रयन्तो अध्वरम् इत्युपसन्दधाति। उपसन्दधाति=अधिकं हव्यं प्रक्षिपति।
  • ‘तस्मादेनानिन्द्रेणोपसंहितान्यजति’ (गो० ब्रा० उत्तर० १।२३)। उपसंहितान्संहितान्सहितान्।
  • ‘विरक्तं शोध्यते वस्त्रं न तु कृष्णोपसंहितम्’ (भा० शां० २९१।१०)।
  • ‘प्रज्ञासंभावितो नूनमप्रज्ञैरुपसंहितः’ (भा० अनु० १२४।१६)। उपसंहितः संगतः, संसृष्टः, उपश्लिष्टः।
  • ‘ब्राह्मणश्चेन्न विद्येत श्रुतवृत्तोपसंहितः’ (भा० अनु० १२१।११)। उपसंहितः सम्पन्नोऽन्वितः।
  • ‘रहस्यं चैव धर्माणां देशकालोपसंहितम्’ (भा० आदि० २।३३५)। उपसंहितं सम्बद्धम्।
  • ‘सहायानानुरक्तांश्च नयज्ञानुपसंहितान्। परस्परमसंसृष्टान् विजिगीषूनलोलुपान्’ (भा० शां० १११।२३)॥ उपसंहितान् कृतसन्धीन् संमिश्रान्, परतन्त्रान्, आधीश्वरे वर्तमानान् इति वा।
  • ‘सुनृशंसमिदं कर्म तेषां क्रूरोपसंहितम्’ (भा० आदि० १४१।१८)। (कणिकेन ) क्रूरेणोपदिष्टमित्यर्थः।
  • ‘मूलत उत्तरारणिमुपसन्धाय’ (कौ० सू० ६९)। उपरि संयोज्येत्यर्थः।
  • ‘योनिं तदुपसन्धाय रेतः सिञ्चति’ (ऐ० ब्रा० २।३८)। उपसन्धानमुपसंश्लेष इति भट्टभास्करः। योनिमुपसन्धाय गर्भस्थानमभिलक्ष्येति तु सायणः।
  • ‘पशुमेवोपसन्धाय वनस्पतिरावाह्यः’ (शां० ब्रा० १२।७)। इह तु स्पष्टमभिलक्ष्येत्येवार्थः।
  • ‘अस्मान्वाह्युपसन्धाय कुर्युर्मत्स्येन सङ्गतम्’ (भा० वि० ४७।१२)। बहिरस्माभिः सन्धाय सन्धिं कृत्वा। उपसन्धायेत्यर्जुनमिश्रधृतः पाठः। उपसंगम्येति च तदर्थः इति च सः। अपसन्धायेति च पाठान्तरं तेनैव धृतम्। अपगतसन्धीन् कृत्वेस्येवमर्थापयते सः। नीलकण्ठस्तु अतिसन्धायेति पाठमूरी करोति।

नम्

  • {उपसंनम्}
  • नम् (णम प्रह्वत्वे शब्दे च)।
  • ‘तदस्मै देवा उप सं नमन्तु’ (अथर्व० १९।४०।१)। तद्राष्ट्रादिकं देवा अस्मै पुरुषाय उपसंनमन्तु प्रापयन्तु। अन्तर्णीतण्यर्थको नमिः। नार्थः समा। उपनमन्तु उपनमयन्त्वित्यनेनैव विवक्षितार्थलब्धेः।

नुद्

  • {उपसंनुद्}
  • नुद् (णुद प्रेरणे)।
  • ‘अस्मभ्यं क्षत्रमजरं सुवीर्यं गोमदश्ववदुपसंनुदेह’ (तै० ब्रा० ३।१।१।१०)। उप समीपे सम्यक् प्रेरयेत्यर्थः।

पद्

  • {उपसंपद्}
  • पद् (पद गतौ)।
  • ‘वासाय स्वनिलयमुपसम्पेदे’ (रा० २।११६।२५)। उपसम्पेदे प्राप। उपेयाय।
  • ‘स ग्रामाद् ग्रामं पृच्छन् पण्डितो मेधावी गन्धारानेवोपसम्पद्येत’ (छा० उ० ६।१४।२)। उप सम्पद्येत प्राप्नुयात् आसादयेत्।
  • ‘यावता वा समयेन चलितः परमाणुः पूर्वदेशं जह्यादुत्तरप्रदेशमुपसम्पद्येत स कालः क्षणः’ (यो० सू० ३।५२ भा०)। उक्तोऽर्थः।
  • ‘तमहं वेद नान्यस्तमुपसम्पादयामि ते’ (भा० उ० १३६।९)। त उपसम्पादयामि त्वय्यर्पयामि।
  • ‘मृद्धर्मी पिण्डाकाराद् धर्माद् धर्मान्तरमुपसम्पद्यमानो धर्मतः परिणमते’ (यो० सू० ३।१३ भा०)। उपसम्पद्यमानः प्राप्नुवन्।
  • ‘अज्ञानादुपसम्पन्ना रज्जुरुद्बन्धनो यथा’ (रा० २।१२।८०)। उपसम्पन्ना संगता।
  • ‘एकत्वमुपसम्पन्नो न त्वासेऽहं त्वया’ (भा० उ० ३५।१४)। एकत्वं प्राप्तः।
  • ‘पाण्डवैरुपसम्पन्ना द्रौपदी पतिभिः सह’ (भा० आदि० २००।१)। उपसम्पन्ना युक्ता।
  • ‘जरारोगोपसम्पन्नां जीर्णां वापीमिवाजलाम्’ (भा० अनु० ७७।६)।
  • ‘वर्णंरूपोपसम्पन्नैः’ (मनु० ४।६८)। उक्तोऽर्थः।
  • ‘भ्रातृत्वमुपसम्पन्नौ परिष्वज्य परस्परम्’ (रा० ७।३५।२)। उपसम्पन्नौ सम्प्राप्तौ। प्रणीतमुपसम्पन्नम् इत्यमरः। तत्र प्रणीतमिति सुसंस्कृतमाह। उपसम्पन्नमद्दिष्टे निहते च सुसंस्कृत इति मेदिनी।
  • ‘श्रोत्रिये चोपसम्पन्ने’ (गौ० ध० २।५।२०, मनु० ५।८१)। उपसम्पन्ने तत्समीपवर्तिनि, तद्गृहवासिनि (मृते सति)। पूर्वस्माच्छ्लोकात् संस्थित इत्यनुवर्तते। अपि उपसम्पन्न इति मृतमाचक्षीत तद् गृहवासीति चाध्याह्रियेत। उभयथा हि शास्त्रार्थः शक्यो लापयितुम्। आभिधानिकास्तु उपसम्पन्नं हतमाहुर्न मृतम्। वाच्यलिङ्गाः प्रमीतोपसम्पन्नप्रोक्षिता हते इत्यमरः। तथा च श्रीहर्षे प्रयोगः–स बाल एव विधेर्बलवतो वशादुपसम्पन्नया व्ययुज्यत जनन्या (४१ पृ०)। स आयुष्मता शारिपुत्रेण प्रव्राजित उपसम्पादित आगमचतुष्टयं च ग्राहितः। उपसम्पादितः सुष्ठु संस्कृतः।
  • ‘प्रथमोऽचिरोपसम्पत्तौ’ (पा० ६।२।५६)। उपसम्पत्तिरुपश्लेष उपगमनम्। विनेयेन विनेतुरुपगमनम्।

प्रच्छ्

  • {उपसंप्रच्छ्}
  • प्रच्छ् (प्रच्छ ज्ञीप्सायाम्)।
  • ‘उपसम्प्रष्टुमर्हामि तमहं केन हेतुना’ (भा० शां० ३७।१९)। उपसम्प्रष्टुम् उपगत्य सम्यक् प्रष्टुम्।

भाष्

  • {उपसंभाष्}
  • भाष् (भाष व्यक्तायां वाचि)।
  • ‘भासनोपसंभाषा–’ (पा० १।३।४७)। उपसंभाषा उपसान्त्वनम्।

यम्

  • {उपसंयम्}
  • यम् (यम उपरमे)।
  • ‘पञ्चाङ्ग्यामुपसंयतस्याश्वस्य’ (सुश्रुत० १।२८।६)। उपसंयतस्य बद्धस्य।

यु

  • {उपसंयु}
  • यु (यु मिश्रणामिश्रणयोः)।
  • ‘…काञ्चनं कल्पपादपम्। पलादूर्ध्वं यथा शक्त्या तण्डुलैस्तूपसंयुतम्’ (मात्स्य पु० १०१।५०)। नार्थ उपेन।

रुध्

  • {उपसंरुध्}
  • रुध् (रुधिर् आवरणे)।
  • ‘यूयमित उपसंरोत्स्यथ’ (श० ब्रा० ११२।४।११)। उपसंरोत्स्यथ रोधं परिवेष्टनं करिष्यथेत्याह। उपसम्भ्यां विनापि स एवार्थः। अरुणद् यवनः साकेतमित्यत्र यथा।

रुह्

  • {उपसंरुह्}
  • रुह् (रुह बीजजन्मनि)।
  • ‘व्रणश्चिरादुपसंरोहति’ (सुश्रुत० १।१८)।

वद्

  • {उपसंवद्}
  • वद् (वद व्यक्तायां वाचि)।
  • ‘उपसंवादाशङ्कयोश्च’ (पा० ३।४।८)। उपसंवादः परिभाषणं कर्तव्ये पणबन्धः। यदि मे भवानिदं कुर्यादहमपि भवत इदं दास्यामीति तत्र वृत्तिग्रन्थः।

विश्

  • {उपसंविश्}
  • विश् (विश प्रवेशने)।
  • ‘जीना जीवन्तमुपसं विशेम’ (तै० ब्रा० ३।१।१।७)। उपसंविशेम प्राप्नुयाम।
  • ‘गृहानलुभ्यतो वयं संविशेमोप गोमतः’ (अथर्व० ३।१०।११)। उपसंविशेम उपेत्य सुखं निवसेम।
  • ‘ततः संज्ञाय तुरगं विधिवद्। याजकास्तदा। उपसंवेशयन्राजस्ततस्तां द्रुपदात्मजाम्’ (भा० आश्व० ८९।२)। उपसंवेशयन्=उपसमवेशयन्। उपाशाययन्।

व्ये

  • {उपसंव्ये}
  • व्ये (व्येञ् संवरणे)।
  • ‘रायश्च पोषमुपसंव्ययस्व’ (अथर्व० २।१३।२)।
  • ‘अन्तरं बहिर्योगोपसंव्यानयोः’ (पा० १।१।३६)। उपसंव्यानं परिधानीयमुच्यते। संव्यानं तूत्तरीयम्। यत्प्रावरणमुच्यते बृहतिका च। अन्तरीयोपसंव्यानपरिधानान्यधोंऽशुके इत्यमरः।

व्रज्

  • {उपसंव्रज्}
  • व्रज् (व्रज गतौ)।
  • ‘न तापसैः…। आकीर्णं भिक्षुकैर्वान्यैरागारमुपसंव्रजेत्’ (मनु० ६।५१)। उपसंव्रजेत् प्रविशेत्।

हृ

  • {उपसंहृ}
  • हृ (हृञ् हरणे)।
  • ‘सम्पन्नतरं प्रभूततरं च भैक्षमुपसंहरन्ति स्म’ (अवदा० जा० १२)। उपसंहरन्ति उपहरन्ति उपनयन्ति समर्पयन्ति।
  • ‘छेत्तुः पार्श्वगतां छायां नोपसंहरते द्रमः’ (हितोप० १।५९)। नोपसंहरते न प्रतिसंहरते।
  • ‘स ज्ञानविशेष परलोके जन्मान्तरे फलमभ्युदयलक्षणमुपसंहरन्परलोकप्रयोजनो भवति’ (पा० ६।१।४९ सूत्रे वृत्तौ)। उपसंहरन् प्रापयन्।
  • ‘आचष्ट मौसले वृष्णीनन्योन्योपसंहृतान्’ (भा० मौ० ५।१) अन्योन्योपसंहृतान् परस्परं विनिहतान्।
  • ‘न तु धर्मवैशसे सुरेन्द्रतार्थे प्युपसंहृतं मनः’ (अवदा० जा० १२।१९)। उपसंहृतमर्पितम्।
  • ‘ततो ऽग्निमुपसंहृत्य ब्राह्मणे विधिना मुनिः’ (भा० शा० १४१।९५)। उपसंहृत्य उपसमाधाय, समुह्य।
  • ‘इत्येनमभिसंराध्य शक्रस्तच्चास्य विभवसारमुपसंहृत्य’ (अवदा० अविषह्यश्रेष्ठि जा०)। उपसंहृत्य उपहृत्य उपनीय।
  • ‘क्रियतामुपसंहारो गुर्वर्थं द्विजसत्तम’ (भा० उ० ११६।१३)। उपसंहारो धनसङ्ग्रहः।
  • ‘न तु धर्मोपसंहारमधर्मफलसंहितम्’ (रा० ५।५१।२८)। धर्मोपसंहारं धर्मोपसङ्ग्रहवन्तं पुरुषमिति तिलकः।
  • ‘सामान्यमात्रोपसंहारे कृतोपक्षयमनुमानं न विशेषप्रतिपत्तौ समर्थमिति’ (यो० सू० १।२५ भाष्ये)। उपसंहारो निश्चयः। उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति यः।
  • ‘साध्यस्योपनयः’ (न्या० सू० १।१।३८)। उपसंह्रियते ऽनेनेत्युपसंहार उपन्यासः।
  • ‘ओष्ठोपसंहार उवर्णे’ (तै० प्रा० २।२४)। उपसंहारः=संकोचः।