Source: TW
“वाग्ग्मी” इति (द्विगकारघटितः) शब्दः
[[२१४]]
वाचः “अस्य अस्ति”
= वाच् + ग्मिनि [५.२.१२४ वाचो ग्मिनिः]
→ वाक् + ग्मिन् [८.२.३० चोः कुः]
→ वाग् + ग्मिन् [८.२.३९ झलां जशोऽन्ते]
→ वाग्ग्मिन्
→ वाग्ग्ग्मिन् [८.४.४७ अनचि च]
चकारस्य कुत्वे जश्त्वे च कृते वाग्ग्मी वाग्ग्मिनौ इत्यादौ द्वयोः गकारयोः श्रवणं भवति । द्वित्वे तु त्रयाणाम् — ५.२.१२४ वाचो ग्मिनिः इत्यत्र तत्त्वबोधिनी ।
वाग्ग्मी → वाग्ग्ग्मी इति गकारस्य द्वित्वं भवति वा ?
८.४.४७ अनचि च
अचः परस्य यरः द्वे वा स्तः, न तु अचि ।
अतः विकल्पेन द्वित्वं भवति । इति पाणिनेः मतम् ।
८.४.५० त्रिप्रभृतिषु शाकटायनस्य
त्र्यादिषु संयुक्तेषु वा द्वित्वम् ।
अतः विकल्पेन द्वित्वं भवति ।
इति शाकटायनस्य मतम् ।
८.४.५१ सर्वत्र शाकल्यस्य
द्वित्वं न । इति द्वित्वं न भवति । इति शाकल्यस्य मतम् ।
८.४.५२ दीर्घादाचार्याणाम्
द्वित्वं न । इति द्वित्वं न भवति । इति भिन्नानाम् आचार्याणाम् मतम् ।
द्वित्वसम्बन्धे व्याख्यानेषु मतभेदाः
२१४
दीर्घादाचार्याणाम् इत्यत्र लघुशब्देन्दुशेखरे ।
अनचि च इत्यत्र प्रौढमनोरमायाम् ।
दीर्घादाचार्याणाम् इत्यत्र बालमनोरमायाम् ।
“वाग्मी” इति (एकगकारघटितः) शब्दः
“वाग्मी” इति एकगकारघटितं रूपं वस्तुतः असाधु । तादृशाः शिष्टप्रयोगाः अपि न सन्ति । परन्तु कुत्रचित् वैयाकरणैः अस्य रूपस्य साधुत्वं कथञ्चित् प्रदर्शितम् अस्ति —
कातन्त्रव्याकरणस्य दुर्गासिंहकृते उणादिपाठे वचेर्मिनिञ् चस्य गः ५.११ इति किञ्चित् सूत्रं विद्यते । वच्-धातोः मिनिञ्-प्रत्ययः, तत्र चकारस्य गकारः — इति अस्य अर्थः ।
वच् + मिनिञ् → वाच् + मिन् → वाग् + मिन् → वाग्मिन् ।
५.२.१२४ वाचो ग्मिनिः इति सूत्रस्य विग्रहः “वाचः ग् मिनि:” इति कृत्वा, “वाच्-शब्दात् मिनि-प्रत्ययः, गकारश्च अन्तादेशः भवति” इति अर्थः क्रियते ।
वाच् + मिनि → वाग् + मिनि → वाग्मिन् ।
प्रत्यये भाषायां नित्यम् इति गकारस्य अनुनासिको न, गकारस्य आदेशरूपेण स्पष्टविधानात् ।