शाला

Source: TW

शाला = सभागृहम् / भवनम् / वास्तुः ।

वासः कुटी द्वयोः शाला
सभा सञ्जवनं त्विदम्

इत्यमरः ।
यथा, पाकशाला, भोजनशाला, युद्धशाला, गोशाला, शस्त्रशाला, अश्वशाला इत्यादयः ।

कुत्रचित् भवनैकदेशम् (प्रकोष्ठः)
अस्मिन् अर्थे अपि शालाशब्दः प्रयुज्यते ।
यथा, “गृहैः विशालैः अपि भूरिशालैः” इति शिशुपालवधे ३.५० इत्यत्र ।
भूरयः (अनेकाः) शालाः (प्रकोष्ठाः) यस्य तत् भूरिशालं गृहम् ।

शाला = वृक्षस्य मुख्या शाखा ।

समे शाखालते स्कन्ध-
शाखाशाले शिफाजटे

इत्यमरः ।

शाला द्रु-स्कन्ध-शाखाया
गृह-गेहैक-देशयोः

इति मेदिनीकोशः ।

विद्यालयः - अस्मिन् अर्थे शालाशब्दस्य प्रयोगः
आधुनिककाले एव प्रसिद्धः ।
सोऽपि प्रामुख्येण दक्षिणभारते ।
पाठशाला = पाठभवनम् इति भवनार्थे अयं साधु एव ।

भिन्नाः व्युत्पत्तयः

शलन्ति (गच्छन्ति) जनाः अत्र इत्यर्थे शल् (गतौ)
इति भौवादिकात् ३.३.१२१ हलश्च इत्यनेन अधिकरणे घञ्-प्रत्ययः ।
शल् + घञ् → शाल ।
स्त्रीत्वे ४.१.४ अजाद्यतष्टाप् इति टाप् ।
भवनम् - अस्मिन् अर्थे इयं व्युत्पत्तिः साधु ।

शलति (अग्रे सरति, आच्छादयति) इत्यर्थे शल् (चलनसंवरणयोः) इति भौवादिकात् ३.१.१४० ज्वलितिकसन्तेभ्यो णः इत्यनेन कर्त्रर्थे ण-प्रत्ययः ।
शल् + ण → शाल ।
स्त्रीत्वे ४.१.४ अजाद्यतष्टाप् इति टाप् ।
“वृक्षशाखा” अस्मिन् अर्थे इयं व्युत्पत्तिः साधु ।

श्यन्ति (तनूकुर्वन्ति, सम्पादयन्ति) कार्याणि अत्र इत्यर्थे
शो (तनूकरणे) इति दैवादिकात् ३.३.१ उणादयो बहुलम् इत्यनेन
बाहुलकात् अधिकरणे कालन् / लन् प्रत्ययः ।
शो + कालन् / लन् → शाल ।
स्त्रीत्वे ४.१.४ अजाद्यतष्टाप् इति टाप् ।
“भवनम्” / “विद्यालयः” अस्मिन् अर्थे इयं व्युत्पत्तिः साधु ।

३.४.७७ लस्य इत्यत्र प्रदीपे कैयटेन
“शामामलिभ्यः औणादिको लप्रत्ययः” इत्युक्त्वा शाला, माला, मल्ल — इत्येतेषां शब्दानाम् ल-प्रत्ययेन व्युत्पत्तिः दत्ता अस्ति ।

डलयोः भेदेन व्युत्पत्तिः

शाडृ (श्लाघायाम्) इति भ्वादिगणस्य धातौ विद्यमानः डकारः
‘डलयोः अभेदेन लकारस्यापि ग्रहणं करोति’ इति मत्वा,
“शाल्” इति पृथक् धातुं स्वीकृत्य तस्मात्, शाल्यते (श्लाघ्यते / स्तूयते यः) इत्यस्मिन् अर्थे ३.३.१०३ गुरोश्च हलः इति सूत्रेण कर्मणि अ-प्रत्ययः, ततश्च ४.१.४ अजाद्यतष्टाप् इति टाप्-प्रत्यये कृते अपि शाला-शब्दः सिद्ध्यति ।
एतत् क्षीरस्वामिनः मतम् ।

समानार्थकौ उभयथावर्णविशिष्टौ स्वतन्त्रौ धातू अवगन्तव्यौ,
प्राचीने काशकृत्स्नपाठे “ईड ईल स्तुतौ” इति उभौ धातू पठ्येते —
इति अत्र युधिष्ठिरमीमांसकः ।
प्राचीनकाले एतादृशाः डकारोपेताः लकारोपेताः धातवः पार्थक्येन परिगण्यन्ते स्म,
गच्छता कालेन लाघवार्थं तयोः अभेदम् अङ्गीकृत्य डान्तः एव धातुः निर्दिष्टः,
तेन लान्तस्यापि ग्रहणं भवत्येव — इत्याशयः ।

उपसंहारः

अनेन प्रकारेण, शालाशब्दस्य चतस्रः व्युत्पत्तयः सन्ति ।
एकया व्युत्पत्या अपरस्याः व्युत्पत्याः बाधः नैव भवति,
अपितु व्युत्पत्तिबाहुल्यात् अर्थविस्तरः सम्पद्यते ।
“उपायस्य उपायान्तर-अदूषकत्वम्” इति न्यायेन
साम्प्रतम् अस्माकं सर्वमपि प्रमाणमेव इति बोध्यम् — इति कृदन्तरूपमाला ।

सर्वाः अपि व्युत्पत्तयः प्रामाणिकाः एव स्वीकर्तव्याः इत्याशयः ।