प्रदक्षिणशब्दः

“प्रदक्षिण” (दक्षिणावर्त्तेन देवादिकमुद्दिश्य भ्रमणम्) इति शब्दः भिन्नैः प्रकारैः साहित्ये प्रयोगः दृश्यते —

  • “प्रदक्षिणः” इति पुंलिङ्गे — स च प्रदक्षिणः ज्ञेयः सर्वदेवौघतुष्टिदः । (कालिकापुराणम्)
  • “प्रदक्षिणा” इति स्त्रीलिङ्गे — एकं चण्ड्यां रवेः सप्त तिस्रो दद्यात् विनायके । चतस्रः केशवे दद्यात् शिवे त्वर्धप्रदक्षिणाम् ॥ (नारदपुराणम्)
  • “प्रदक्षिणम्” इति नपुंसकलिङ्गे — प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन् । (मनुस्मृतिः)
  • “प्रदक्षिणम्” इति अव्ययत्वेन — कुर्यात् प्रदक्षिणं देवमृद्गोविप्रवनस्पतीन् ।
    • “२.१.१७ तिष्ठद्गुप्रभृतीनि च” इति अव्ययीभावसमासः । “प्रगतं दक्षिणम्” / “प्रगता दक्षिणा” इति विग्रहः ।
  • “प्रदक्षिणी” इति च्व्यन्तप्रयोगः — विष्णुं प्रदक्षिणीकुर्वन् यस्तत्रावर्तते पुनः । (भक्तिसुधोदयः)

दक्षिणाद्वायवीं गत्वा दिशं तस्याश्च शाम्भवीम् । ततश्च दक्षिणां गत्वा नमस्कारस्त्रिकोणवत् ॥
— इति कालिकापुराणे त्रिकोणनमस्कारपद्धतिः ।