पूर्वतन

Source: TW

पूर्वतन इति शब्दः
[[२३६]]

४.३.२३ सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च इति सूत्रेण सायम्, चिरम्, प्राह्णे, प्रगे इत्येतेभ्यः शब्देभ्यः, तथा च अव्ययसंज्ञकेभ्यः शब्देभ्यः शैषिकेषु अर्थेषु ट्यु, ट्युल् इति द्वौ प्रत्ययौ विधीयेते, तथा च तयोः तुट् इति आगमः अपि भवति ।

सायम् + तुट् + ट्यु / ट्युल् → सायन्तन ।
एवमेव — चिरन्तन, प्राह्णेतन, प्रगेतन ।
अव्ययसंज्ञकानाम् उदाहरणानि — श्वस्तन, ह्रस्तन, अद्यतन, पुरातन ।

पूर्वतन इति शब्दः वस्तुतः प्राचीनैः प्रयुक्तः न लभ्यते । परन्तु इदानीन्तने काले अयं शब्दः शिष्टैः अपि प्रयुक्तः दृश्यते, अतः अस्य कथञ्चित् व्युत्पत्तिः देया !+++(5)+++ तदर्थम् —

पूर्वम् इति मकारान्तस्य अव्ययत्वं स्वीक्रियते ।
यद्यपि वाचस्पत्ये, शब्दकल्पद्रुमे, अव्ययकोशेषु च अयं शब्दः अव्ययरूपेण नैव पाठितः अस्ति; तथापि कुत्रचित् संस्कृत-कन्नडकोशे, संस्कृत-तमिल-कोशे अयं शब्दः स्वीकृतः दृश्यते । पूर्वमेव मया ज्ञातम् (इति पञ्चतन्त्रे), पूर्वं मानादवज्ञाय (इति मृच्छकटीके) इत्यादीनि साहित्ये विद्यमानानि उदाहरणानि अपि एतेषु कोशेषु दत्तानि सन्ति ।

अव्ययसंज्ञकात् पूर्वम् इति शब्दात् ट्यु-प्रत्यये कृते “पूर्वम् + तन” इति स्थिते कथञ्चित् (पृषोदरादित्वात्) मकारलोपे कृते पूर्वतन इति शब्दः सिद्ध्यति ।