निर्वाण

Source: TW

निर्वाण इति शब्दः
२७२

वा (गतिगन्धनयोः) इति अदादिगणस्य अकर्मकः धातुः । to flow, to move rapidly इति अर्थः । वायुः वाति । अग्निः वाति । भिक्षुकः वाति । धातोः अकर्मकत्वात् ३.४.७० तयोरेव कृत्यक्तखलर्थाः इति सूत्रेण भावे क्तप्रत्ययः, तथा च ३.४.७२‌ गत्यर्थाकर्मक.. इति सूत्रेण कर्तरि क्तप्रत्ययः भवति । वा + क्त →‌ वात । वायुः वातः । वायुना वातम् ।

निर् + वा = Ceases to flow / ceases to move rapidly. वायुः निर्वाति । अग्निः निर्वाति । भिक्षुकः निर्वाति ।

“निर् + वा + क्त” इत्यत्र “वायुः” इत्यस्मात् भिन्ने अर्थे+++(5)+++
कर्ता प्रयुज्यते चेत् निष्ठातकारस्य नकारादेशे कृते
निर्वाण इति शब्दः सिद्ध्यति ।
यथा, मुनिः निर्वाणः / मुनिना निर्वाणम् । अग्निः निर्वाणः / अग्निना निर्वाणम् । वायुः अस्मिन् अर्थे तु नत्वं न भवति, अतः निर्वात इत्येव सिद्ध्यति । वायुः / पवनः / मरुत् निर्वातः । वायुना / पवनेन / मरुता निर्वातम् ।

८.२.५० निर्वाणोऽवाते — निर्पूर्वाद्वातेर्निष्ठातस्य नत्वं स्याद्वातस्चेत्कर्ता न । निर्वाणोऽग्निर्मुनिश्च । वाते तु निर्वातो वातः — इति कौमुदी ।

निर्वाणो मुनिवह्न्यादौ निर्वातस्तु गतेऽनिले - इत्यमरः ।

३.३.११४ नपुंसके भावे क्तः इत्यनेन नपुंसके, भावे, कालसामान्ये विहितस्य क्त-प्रत्ययस्य विषये अपि अयमेव नियमः । यथा, मुनिः निर्वाणं गतः (मृत्युं / मोक्षं प्राप्तवान् इत्यर्थः) । वायुः निर्वातं गतः ।

यत्र वायोः करणत्वम् अस्ति (कर्तृत्वं नास्ति), तत्र “निर्वाण” इत्येव शब्दः प्रयोक्तव्यः । यथा, दीपः वायुना निर्वाणः । वातेन हेतुना निर्वाणो दीपः इत्यत्र न निषेध इत्याहुः — तत्त्वबोधिनी ।

८.२.५० निर्वाणोऽवाते इति सूत्रम् शुद्ध-धातोः विषये एव । णिजन्तस्य विषये निष्ठानत्वं न भवति । यथा, वायुना दीपः निर्वापितः इति प्रयोगः । अत्र वापि इति भिन्नः धातुः अत्र ८.२.५० निर्वाणोऽवाते इति सूत्रं नैव प्रयुज्यते ।