नन्दिनी

नन्दिनी इति शब्दः [[२११]]

३.१.१३४ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः
इति सूत्रेण नन्द्यादिगणस्य धातुभ्यः कर्त्रर्थे ल्यु-प्रत्ययः,
ग्रह्यादिगणस्य धातुभ्यः कर्त्रर्थे णिनि-प्रत्ययः विधीयते ।

नन्द् + णिच् + ल्यु → नन्दन । तत्र स्त्रीत्वे टाप्, नन्दना
नन्द् + णिच् + णिनि → नन्दिन् । तत्र स्त्रीत्वे ४.१.५ ऋन्नेभ्यो ङीप्, नन्दिनी

वस्तुतः ग्रह्यादिगणे नन्दि-धातुः न विद्यते ।
परन्तु मल्लिनाथेन ग्रह्यादिगणम् पचादिगणवत् आकृतिगणरूपेण स्वीकृत्य
तत्र नन्दि-धातुः स्वीकृतः दृश्यते ।

नन्दः (आनन्दः) अस्य अस्ति = नन्द + इनिँ (५.२.११५ अत इनिठनौ) → नन्दिन् । स्त्रीत्वे ४.१.५ ऋन्नेभ्यो ङीप्, नन्दिनी — इति कल्पद्रुमे ।

३.२.७८‌ सुप्यजातौ णिनिस्ताच्छील्ये
इति सूत्रेण अपि णिनि-प्रत्ययः दीयते,
परन्तु तत्र उपसर्गः, सुबन्तम् उपपदम् वा आवश्यकम् ।
अतः तस्य प्रयोगः नन्दिनीशब्दस्य सिद्धौ नैव सम्भवति ।

ल्यु तथा णिनि असरूपौ प्रत्ययौ ।
अतः ल्यु-प्रत्ययः णिनि-प्रत्ययं केवलं विकल्पेन बाधते ।
अपि च, द्वयोः गणयोः निर्देशसामर्थ्यात् उभयथा प्रत्ययविधानम् अवश्यम् शक्यम् ।