Source: TW
“मनोरमा” इति शब्दः
[[२२०]]
मनोरमा = मनांसि रमयति सा मनोरमा । मनस् + रम् + णिच् + अण् + टाप् ।
परन्तु एतद् अनुचितम् !
कर्मणि उपपदे अण्-प्रत्यये कृते णिज्लोपः; ततः अत उपधायाः इत्यनेन उपधावृद्धिः भवेत्, येन मनोराम इति शब्दः सिद्ध्येत् ।
एवमेव अण्-प्रत्ययान्तशब्देभ्यः स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विधीयते;
अतः अत्र स्त्रीलिङ्गे मनोरामी इति रूपं स्यात्, न हि मनोरमा ।
३.१.१३४ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति सूत्रे निर्दिष्टः पचादिगणः आकृतिगणः अस्ति । तत्रैव सर्वधातुभ्यः अज्विधिः इति वार्त्तिकम् अपि पाठ्यते ।
अस्यैव आधारेण रम्+णिच् इति धातोः अच्-प्रत्यये कृते रमयति सा रमा इति रमा शब्दः सिद्ध्यति ।
अथ वा, मूलविभुजादिभ्यः कः प्रत्ययः इष्यते इति वार्त्तिके निर्दिष्टे मूलविभुजादिगणे अस्य धातोः ग्रहणं कृत्वा तस्मात् क-प्रत्यये कृते अपि रमा इति शब्दः सिद्ध्यति ।
एतादृशे रमा-शब्दे कृते ततः मनसाम् रमा इति षष्ठीतत्पुरुषसमासेन मनोरमा इति शब्दः सिद्ध्यति ।
परन्तु अत्र वृत्तिद्वयस्य आश्रयः स्वीक्रियते !
अतः, रम् + णिच् इत्यस्मात्
सर्वधातुभ्यः अज्विधिः
इति वार्त्तिकेन
कर्मणि उपपदस्य उपस्थितौ एव अणोऽपवादः अच् विधीयते ।+++(5)+++
मनांसि रमयति = मनस् + रम् + अच् । ततः टाप्-प्रत्ययं कृत्वा मनोरमा इति शब्दः सिद्ध्यति ।
लघुशब्दरत्नम् (प्रौढमनोरमाव्याख्या)
भैरवी (लघुशब्दरत्नव्याख्या)