कुत्सा (निन्दा / घृणा / गर्हणम्) इति शब्दे चुरादिगणस्य “कुत्स् (अवक्षेपणे निन्दने च)” इति धातुः । अस्मात् धातोः णिच्-प्रत्ययः विधीयते येन “कुत्सि” इति णिजन्तधातुः सिद्ध्यति । तदुपरि “३.३.१०७ ण्यासश्रन्थो युच्” इति सूत्रेण युच्-प्रत्ययः भवति, येन कुत्सना इति रूपं सिद्ध्यति ।
परन्तु वार्त्तिककारेण “४.१.१६७ यूनश्च कुत्सायाम्” इत्यत्र कुत्सा इति शब्दः प्रयुक्तः अस्ति । अतः अयं शब्दः अपि साधु । अस्य साधुत्वम् कृदन्तरूपमालायां त्रिभिः प्रकारैः उच्यते —
“४.१.१६७ यूनश्च कुत्सायाम्” इति निर्देशसामर्थ्यात् एव ण्यन्तः “कुत्स्” धातुः बाहुलकात् अङ्-प्रत्ययं स्वीकरोति ।
अनित्यण्यन्ताः चुरादयः इति आश्रित्य कुत्स्-धातुः णिच्-प्रत्ययः विकल्पेन स्वीकरोति, अतः णिच्-प्रत्ययस्य अभावे अस्य हलन्त-गुरुमत्त्वम् स्वीकृत्य ३.३.१०३ गुरोश्च हलः इत्यनेन अ-प्रत्यये कृते “कुत्सा” इति शब्दः सिद्ध्यति ।
३.३.१०५ चिन्तिपूजिकथिकुम्बिचर्चश्च इति सूत्रेण चिन्ति-आदिभ्यः धातुभ्यः अङ्-प्रत्ययः विधीयते । अस्मिन् सूत्रे विद्यमानं चकारम् अनुक्तसमुच्चयार्थं स्वीकृत्य “तुलँ”, “कुत्सँ” इत्येतेभ्यः धातुभ्यः अपि अनेनैव सूत्रेण अङ्-प्रत्ययः क्रियते, येन “तुला”, “कुत्सा” इति शब्दाः सिद्ध्यन्ति — इति क्षीरस्वामीमतम् ।