“केवल” इति शब्दः — एकः (असहायः), कृत्स्नम् (समग्रम्) तथा च अवधारणम् (तदेव नान्यत्) एतेषु अर्थेषु प्रयुज्यते ।
निर्णीते केवलमिति
त्रिलिङ्गे एककृत्स्नयोः
— इति अमरकोशः ।
केवलः एकः कृत्स्नः स्यात्
केवलश्चावधारणे — इति विश्वः ।
एतेषु त्रिषु अपि अर्थेषु विशेषणरूपेण (त्रिषु लिङ्गेषु) प्रयोगः भवति । यथा —
- एकार्थे केवलशब्दः — सः केवलां तां सूचितवान् ।
- कार्त्स्न्यार्थे केवलशब्दः — अयं पण्डितः केवलं शास्त्रं जानाति ।
- अवधारणार्थे केवलशब्दः — गणेशेन केवलस्य मोदकस्य सेवनं कृतम् ।
“न केवलम्” इति शब्दप्रयोगः तु नपुंसके एव विद्यते । यथा, वृक्षे न केवलं पुष्पाणि, अपि तु फलानि अपि सन्ति । भगवद्गीता न केवलं भारतस्य किञ्च विश्वस्य माता ।
“केवलम्” इति शब्दस्य अव्ययरूपेण प्रयोगः प्रायेण न दृश्यते । अतः “एतं विषयं केवलं केचन जानन्ति” इत्यादीनाम् अपेक्षया “एतं विषयं केवलाः केचन जानन्ति” इति प्रयोगः एव उचिततरः ।
साहित्ये
- एकार्थे केवलशब्दः — न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक् (कुमारसम्भवम् ५.८३)
- कार्त्स्न्यार्थे केवलशब्दः — बुभुजे पृथिवीपालः पृथिवीमेव केवलाम् (रघुवंशम् १५.१)
- कार्त्स्न्यार्थे केवलशब्दः — अनन्यगुर्व्यास्तव केन केवलः पुराणमूर्तेर्महिमावगम्यते (शिशुपालवधम् १.३५)
- अवधारणार्थे केवलशब्दः — न केवलानां पयसां प्रसूतिम् अवेहि मां कामदुघां प्रसन्नाम् (रघुवंशम्, २.६३)
- अवधारणार्थे केवलशब्दः — बाणभिन्नहृदया निषेदुषी सा स्वकाननभुवं न केवलाम् (रघुवंशम् ११.१९)
- अवधारणार्थे केवलशब्दः — न केवलं सद्मनि मागधीपतेः पथि व्यजृम्भन्त दिवौकसामपि (रघुवंशम् ३.१९)
- अवधारणार्थे केवलशब्दः — न केवलं गच्छति तस्य काले ययुः शरीरावयवा विवृद्धिम् (रघुवंशम् १८.४९)