जयन्ती

“जयन्ती” इति शब्दः
[[२२४]]

संस्कृते जयन्ती इति शब्दः भिन्नेषु अर्थेषु प्रयुज्यते —‌
जयन्ती वृक्षभिद्-गौर्यौ इन्द्रपुत्री-पताकयोः — इति मेदिनीकोशः ।
विशिष्टः वृक्षः (ओषधिविशेषः), गौरी, इन्द्रस्य पुत्री, ध्वजः — इति भिन्नाः अर्थाः ।
जया जयन्ती तर्कारी नार्देयी वैजयन्तिका — इति अमरकोशे वनौषधिवर्गे ।

विशिष्टस्य शाकस्य इदं नाम ।
यस्यां रात्रौ श्रीकृष्णः जातः,
तस्याः रात्रेः नाम अपि जयन्ती इति स्वीक्रियन्ते ।

अभिजित् नाम नक्षत्रम्,
जयन्ती नाम शर्वरी,
मुहूर्तो विजयो नाम,
यत्र जातो जनार्दनः ॥
— इति हरिवंशे ।

अद्यतन काले जयन्ती इति शब्दः “जन्मदिनम् / जन्मोत्सवः” अस्मिन् अर्थे प्रयुज्यते । परन्तु कोशेषु अयं अर्थः न दृश्यते । तथापि नृसिंहजयन्ती, गीताजयन्ती, शङ्करजयन्ती आदयः शब्दाः संस्कृतपञ्चाङ्गेषु अपि दृश्यन्ते; अतः शिष्टप्रयोगात् अस्मिन् अर्थे अपि साधुत्वम् स्वीक्रियते । जयं पुण्यं च तनुते, जयन्तीं तेन तां विदुः — इति शिष्टवचनम् अपि अत्र स्वीक्रियते ।

व्युत्पत्तिः — जि + शतृ + ङीप् → जयन्ती । अथ वा — जि + झच् [तॄभूवहिवसिभासिसाधिगडिमण्डिजिनन्दिभ्यश्च ३.१२८ इति उणादिसूत्रम्) + ङीष् → जयन्ती ।