मङ्गलाचरणम्।
विश्वास-प्रस्तुतिः
यस्य ज्ञान-दया-सिन्धोर्
अगाधस्यानघा गुणाः।
सेव्यताम् अक्षयो धीराः
स श्रिये चामृताय च॥१॥
विस्तारः (द्रष्टुं नोद्यम्)
बल्लवी-वल्लभं नत्वा
गुरुं (गिरं) भट्टोजि-दीक्षितम् ।
आ(अ)मरे विदधे व्याख्यां
मुनित्रयमतानुगाम् ॥
प्रारिप्सित-प्रत्यूहापनुत्तये
कृतं मङ्गलं
शिष्य-शिक्षार्थम् आदौ निबबन्ध – यस्येति ।
हे अनघाः, भवद्भिः स धीराः सेव्यताम् ।
न अघं पापं तेऽनघा निष्पापाः ।
सुकृतिन इति यावत् ।
सुकृतिन एव तं सेवितुं प्रभवन्तीति
त एव सम्बोध्यन्ते
‘धर्मेण पापम् अपनुदति’ इति श्रुतेः ।
धियं राति ददाति ।
‘रा दाने’ (अ० प० अ०) अस्मात् ‘क्विप् च’ (३.२.७६) इति क्विप् ॥
धीरा ज्ञानप्रदो गुरुः ।
अनेन
‘तद्-विज्ञानार्थं स गुरुम् एवाभिगच्छेत्’
इति श्रुत्यर्थ उपदिष्टः।
प्रयोजनमनुद्दिश्य
न मन्दोऽपि प्रवर्तते
इति गुरुसेवायाः फलम् आह – श्रिये चामृताय चेति ।
च-द्वयम् उभयोः प्राधान्य-द्योतनाय ।
भुक्ति-मुक्ति-प्राप्तिर् गुरु-सेवातो भवति ।
‘क्रियार्थोपपदस्य’ (२.३.१४) इति चतुर्थी ।
तादर्थ्ये (वा० २.३.१३) वा ।
तदुक्तं भागवते -
‘योग-र्द्धिम् आपुर् उभयीं यदु-हैहयाद्याः'
इति ।
ननु गुरोः श्रियो ऽभावात्
ततः कथं सा प्रार्थ्य(प्य)त इत्य् आशङ्क्याह – यस्येति ।
अस्य गुरोरी+++(=??)+++ लक्ष्मीर् अस्ति, गुणाश् च सन्ति ।
तद् उक्तं भागवते -
‘ऋते भवत्-पाद-परायणान्
न मां विन्दन्त्य् अहं त्वद्-धृदयायतोऽजित'
इति ।
‘सत्यं शौचं दया क्षान्तिस्
त्यागः सन्तोष आर्जवम् ।
शमो दमस् तपः साम्यं
तितिक्षोपरतिः श्रुतम् ॥
ज्ञानं विरक्तिर् ऐश्वर्यं
शौर्यं तेजो बलं स्मृतिः ।
स्वातन्त्र्यं कौशलं कान्तिर्
धैर्यं मार्दवमेव च'
इत्यादयो गुणाः ।
कीदृशस्यास्य ज्ञान-दया-सिन्धोः ।
ज्ञायतेऽनेनेति ज्ञानं शास्त्रम्,
दया निष्कारण-पर-दुःख-प्रहाणेच्छा ।
तयोः सिन्धोर् इव ।
शास्त्र-सम्पन्नस्य,
दयापूर्णस्य च ।
अनेन ‘श्रोत्रियं ब्रह्मनिष्ठम्’
इति विशेषणयोर् मध्ये
श्रोत्रियत्वम् उक्तम् ।
स ज्ञानवान् अपि किम्-अर्थं दास्यतीत्य् अतो
दयावत्त्वम् उक्तम् ।
‘दयालोर् असमर्थस्य
दुःखायैव दयालुता'
इत्यतो ज्ञानवत्त्वम् उक्तम् ।
कीदृशस्य – अगाधस्य ।
न गाधस् तल-स्पर्शो यस्य गम्भीरस्य ।
विषयानाकृष्टस्येति यावत् ।
यद् वा अगं शैलं वृक्षं वा आप्नोति ।
‘अन्येभ्योऽपि दृश्यते’ (वा० ३.२.१०१) इति आप्नोतेः (आप्लृ व्याप्तौ) (स्वा० प० अ० ) डः। टिलोपः (६.४.१४३) । सवर्णदीर्घः (६.१.१०१) ।
तम् अगं दधाति मनसेत्य् अगाधः । तस्य ।
परमेश्वरभक्तस्येति यावत् ।
कीदृशो धीराः अक्षयः ।
अः वासुदेवः;
तस्मिन् क्षयो ज्ञानं निवासो वास्य सो ऽक्षयः ।
अनेन ब्रह्म-निष्ठता-रूपं द्वितीयं विशेषणम् उक्तम् ।
यद् वा - न क्षयो हिंसा यस्य ।
‘क्षीष हिंसायाम् (क्र्या० प० अ०) ।
‘एरच्’ (३.३.५६) ।
पूर्वत्र तु ‘क्षि निवासगत्योः’ (तु० प० अ०) ।
परपीडापहारकः।
‘यस्मान्नोद्विजते लोकः’ इति गीता ।
अथवा स धीरा मया सेव्यताम् ।
स कः ।
यस्य गुणा अनघाः ।
न अघं येभ्यस्तेऽनघाः ।
पापनिवर्तका इति यावत् ।
‘यशः कलिमलापहम्’ इति भागवतात् । शेषं समानम् ।
‘आशिषि लिङ्लोटौ’ (३.३.१७३) इति कर्मणि लोट् ।
इत्थं हि गुरु-सेवापरान् प्रति कर्तव्यत्वेनोपदिश्यते,
स्वयं वा प्रार्थ्यते ।
गुरु-सेवा-माहात्म्यं च ब्रह्म-वैवर्तादौ प्रसिद्धम् ।
भागवतेऽपि
‘यथाऽहं ज्ञानदो गुरु’ इति,
‘तुष्येयं सर्वभूतात्मा गुरुशुश्रूषया यथा’
इति च ।
एवं
‘लक्ष्मीवान्, कल्याण-(निर्मल)-गुणः, शास्त्रसम्पन्नो, दयापूर्णो, विषयानाकृष्टो, विष्णुभक्तो, विष्णु-साक्षात्कारवान्, ज्ञान-दो, गुरुः
सम्पत्-प्राप्त्य्-अर्थं मोक्ष-प्राप्त्य्-अर्थं च निष्पापैर् अधिकारिभिः, मया वा
सेव्यताम्’
इति परेभ्यो हितमुपदिशन्, स्व-हितम् आशंसमानो वा
ग्रन्थकृद्-आशीर्वाद-लक्षणम्
(इति) लक्ष्मी-स्मरण-लक्षणं च मङ्गलम् आचचार ।
यत्तु मुकुटः
‘स्वेष्ट-देवता-सङ्कीर्तनाद्
विशिष्ट-दृष्टम् उत्पिपादयिषुः’
इत्य् अवोचत् । तन्न । देवता-वाचक-पदस्यात्रादर्शनात्,
आशीर्लोटो दर्शनाच्च ।
स्वामी तु-‘जिनम् अनुस्मृत्य’ इति
स्मरण-लक्षणं मङ्गलम् आह ।
तन्न । जिन-वाचक-पदस्यात्रादर्शनात्,
सामान्य-शब्दानां जिन-लक्षण-विशेष-परत्वेन व्याख्यानस्य
वैदिकानाम् अनुचितत्वात्,
अमर-कर्तुर् जैनत्वे प्रमाणाभावाच्च ।
प्राञ्चस्तु -
‘हे धीराः,
स भगवान् सेव्यताम् आराध्यताम् ।
धैर्यशालिन एव सेवितुं शक्नुवन्तीति
तान् एव सम्बोधयति ।
प्रकृतत्वाद् युष्माभिर् हितेच्छुभिः ।
स कः?
यस्य गुणा मैत्री-मर्यादादयो ऽणिमादयो वा
अनघा निष्पापाः -
रागाद्य्-असंवलिता इति यावत् ।
यद् वा, हृद्याः ।
तथा च धरणिः- ‘अनघोऽपाप-हृद्ययोः’ इति ।
किम्-भूतस्य ज्ञान-दया-सिन्धोः ?
ज्ञानं समस्त-विद्या(षया)वबोधः ।
दृष्टं स्वार्थम् अनपेक्ष्य पर-दुःख-प्रहाणेच्छा दया ।
तयोर् अम्बु-तुल्ययोः सिन्धोर् इव सिन्धोर् विपुलाधारस्य,
अगाधस्य अनवच्छिन्नमहिम्नः । अन्यैर् अनधिगत ज्ञानपारत्वादपरिच्छेद्यगाम्भीर्य (द्यं गाम्भीर्यं) यस्य वा । स किम्भूतः - परहितापादनेषु नास्ति क्षयो विरामो यस्य, मरणादिराहित्याद्वा । फलाधीनैव प्रेक्षावतां प्रवृत्तिरत आह श्रिये चेत्यादि । श्रीरत्र त्रिवर्गसम्पत्तिः, तां प्राप्तुम्, अमृताय मोक्षाय च । यद्वा–स सिन्धुः सेव्यताम् । स कः – यस्य अगाधस्यातलस्पर्शस्य, अक्षयस्य सदा परिपूर्णस्य, अस्य विष्णोः क्षयस्य निवासस्य वा गुणाः अनघा रत्नादिमत्त्वानैर्मल्यादयः, श्रिये लक्ष्म्यै, अमृताय च पीयूषाय च इत्याहुः । अत्र समुद्रपक्षस्तु न सम्यगिव । ज्ञानेत्यस्यानन्वयात् । ‘अक्षयः’ इत्यस्य प्रथमान्तस्य षष्ठ्यन्तत्वेन व्याख्यानस्यानुचितत्वात् । ‘अभीष्टदेवतानमस्काराद्युपनीतमदृष्टं हि-’ इत्यादि स्वग्रन्थविरोधाच्च । आशीर्नमस्क्रियावस्तुनिर्देशेष्वनन्तर्भावात् । ‘ज्ञानदययोः स्यन्दते प्रवर्तते देवतारूपत्वात्’ इति वा, ‘ज्ञानदये स्यन्देते प्रवर्तेते देवतारूपेऽस्मिन्’ इति वा समाधेयम् । षष्ठ्यर्थोऽप्यार्थिकार्थत्वेन समाधातुं शक्यः । ‘स्यन्दतेः सम्प्रसारणं धश्च’ (उ० १.११) इत्युः । यत्तु मुकुटः-‘ताभ्यां सिन्धुरिवेति प्रकृत्यादित्वात् (२.३.१८ वा०) तृतीया । ‘तृतीया’ (२.१.३०) इति ‘योगविभागात्समासः’ इति ‘सर्वधरादयः’ इति । तदपि न सम्यक् । अर्थासङ्गतेः । प्रातिपदिकार्थे हि सा, तस्य न भेदेनाभेदेन वात्रान्वयः सम्भवति । अभेदे हि तृतीया व्यर्था । प्रथमाया एवौचित्यात् ॥ १ ॥
मूलम्
यस्य ज्ञान-दया-सिन्धोर्
अगाधस्यानघा गुणाः।
सेव्यताम् अक्षयो धीराः
स श्रिये चामृताय च॥१॥
प्रस्तावना
विश्वास-प्रस्तुतिः
समाहृत्यान्य-तन्त्राणि
संक्षिप्तैः प्रति-संस्कृतैः।
संपूर्णम् उच्यते वर्गैर्
नामलिङ्गानुशासनम्॥२॥
मूलम्
समाहृत्यान्य-तन्त्राणि
संक्षिप्तैः प्रति-संस्कृतैः।
संपूर्णम् उच्यते वर्गैर्
नामलिङ्गानुशासनम्॥२॥
विस्तारः (द्रष्टुं नोद्यम्)
अन्यतन्त्राणि, समाहृत्य, संक्षिप्तैः, प्रतिसंस्कृतैः, वर्गैः, (युक्तं), सम्पूर्णम्, नामलिङ्गानुशासनम् (मया ) उच्यते ॥ २ ॥ अभिधेयप्रयोजने दर्शयति – समेति । मया, अन्येषां व्याड्यादीनां तन्त्राणि नामलिङ्गानुशासनानि, सिद्धान्तान्वा । समाहृत्यैकीकृत्य, संगृह्य वा । नामान्याख्याः, लिङ्गानि च स्त्रीपुंनपुंसकानि, अनुशिष्यन्ते विविच्य बोध्यन्तेऽस्मिन्ननेन वेति नामलिङ्गानुशासनम्, ‘करणाधिकरणयोश्च’ (३.३.१७) इति ल्युट् । सम्पूर्णं न्यूनत्वदोषरहितम् । उच्यते । कीदृशम्-वर्गैः प्रकरणैर्युक्तम् । कीदृशैः-संक्षिप्तैः स्वल्पशब्दैः। पुनः कीदृशैः | प्रतिसंस्कृतैः प्रत्येकं क्रमकथनेन कृतोत्कर्षैः । यद्वा असारांश रहितैः शब्दरचनाविशेषवद्भिः। त्रिकाण्डोत्पलिन्यादीनि नाममात्रप्रतिपादकानि । वररुच्यादिकृतानि तु लिङ्गमात्रप्रतिपादकानि । अत्र तुभयार्थसंग्रहादिदमेव सर्वैः पाठ्यमिति भावः ॥ २ ॥
परिभाषा
विश्वास-प्रस्तुतिः
प्रायशो रूपभेदेन
साहचर्याच् च कुत्रचित्।
स्त्री-पुं-नपुंसकं ज्ञेयं
तद्-विशेष-विधेः क्वचित्॥३॥
मूलम्
प्रायशो रूपभेदेन साहचर्याच् च कुत्रचित्।
स्त्री-पुं-नपुंसकं ज्ञेयं तद्-विशेषविधेः क्वचित्॥३॥
विस्तारः (द्रष्टुं नोद्यम्)
- सुधा * अन्वयः – अत्र, प्रायशः, रूपभेदेन, च, (पुनः), कुत्रचित्, साहचर्यात्, क्वचित्, तद्विशेषविधेः, स्त्री-पुं-नपुंसकं ज्ञेयम् ॥ ३ ॥
लिङ्गज्ञानोपायं परिभाषते - प्रायश इति । ‘वह्वल्पार्थाच्छस्’ (५.४.४२) इति शस् प्रायशो बाहुल्येन, रूपभेदेन ड्याब्विसर्गबिन्दुरूपेण स्त्रीपुंनपुंसकं बोध्यम् । यथा-‘पद्मालया पद्मा’ ‘पिनाकोऽजगवं धनुः । क्वचिद्विशेषणपदस्थेन सर्वनामपदस्थेनापि रूपभेदेन स्त्रीपुंनपुंसकं ज्ञेयम् । यथा-‘तत्परो हनुः । अत्र तत्पर इति विशेषणाद्धनोः पुंस्त्वम् । (कुतूः कृत्तेः स्नेहपात्रम्) सैवाल्पा कुतुपः पुमान्’। (अत्र) ‘सा’ इत्युक्त्या कुत्वाः स्त्रीत्वम् । निश्चितलिङ्गेनानन्तर्यं साहचर्यम् । रूपभेदाभावेऽपि क्वचित्तेनापि लिङ्गं ज्ञेयम् । यथा-‘अश्वयुगश्विनी’ ‘भानुः करः’ ‘वियद्विष्णुपदम्’ । अत्राश्वयुग्भानुवियन्ति साहचर्या स्त्रीपुंनपुंसकानि ज्ञेयानि । क्वचित् तस्य स्त्रीपुंनपुंसकस्य विशेषोपादानात्तज्ज्ञेयम् । यथा-‘भेरी स्त्री दुन्दुभिः पुमान्’ ‘रोचिः शोचिरुभे क्लीबे’ ॥ ३ ॥
विश्वास-प्रस्तुतिः
+++(लिङ्ग-)+++भेदाख्यानाय न द्वन्द्वो,
नैकशेषो, न +++(व्यस्त-प्रयोगेऽपि)+++ सङ्करः।
कृतोऽत्र भिन्न-लिङ्गानाम्
अनुक्तानां +++(यत्-किञ्चिल्-लिङ्ग-)+++क्रमाद् ऋते॥४॥
मूलम्
भेदाख्यानाय न द्वन्द्वो नैकशेषो न सङ्करः।
कृतोऽत्र भिन्न-लिङ्गानाम् अनुक्तानां क्रमादृते॥४॥
विस्तारः (द्रष्टुं नोद्यम्)
अन्वयः – अन्न, अनुक्तानां, भिन्नलिङ्गानां, भेदाख्यानाय, द्वन्द्वः, न, कृतः, एकशेषः, न, (कृतः), क्रमात्, ऋते, सङ्करः, न, (कृतः) ॥ ४ ॥
अत्र कोशे,
अनुक्तानां स्वपर्यायेष्व् अपठितानाम्,
भिन्नं लिङ्गं येषां तेषाम्, लिङ्गभेदमाख्यातुम्, द्वन्द्व एकशेषश्च न कृतः । यथा-‘देवतादैवतामराः’ इति न कृतम् ।
परवल्लिङ्गता स्यात् ।
यथा वा-‘खं नभः श्रावणो नभाः’ इत्यत्र ‘खश्रावणौ तु नभसी’ इति न कृतम् । शिष्यमाणलिङ्गतैव स्यात् ।
समानलिङ्गानां तु तौ कृतावेव ।
यथा- ‘स्वर्गनाकत्रिदिवत्रिदशालयाः’ ‘पादा रश्म्यङ्घ्रितुर्यांशाः’ ।
स्थानान्तरनिर्दिष्टानां तु भिन्नलिङ्गानामपि तौ कृतावेव । यथा-‘अप्सरोयक्षरक्षोगन्धर्वकिन्नराः’ ‘मातापितरौ पितरौ’ ।
एते स्वस्वपर्यायेषुक्ता एव ।
तथा तेषां
क्रमाद् ऋते
कर्म विना
सङ्करो न कृतः ।
स्त्रीपुंनपुंसकानि क्रमेण पठितानि,
तेषु क्रमेण पठ्यमानेषु
नान्तरीयकस् तु सङ्करो न दोष इति भावः । सङ्करो नाम भिन्नलिङ्गानां मिश्रतारूपः । यथा-‘स्तवः’ इति पुंलिङ्गमुक्त्वा, ‘स्तोत्रं नपुंसकमुक्त्वा, ‘नुतिः स्तुतिः’ इति स्त्रीलिङ्गावुक्तौ । न तु ‘स्तुतिः स्तोत्रं स्तवो नुतिः’ इति कृतम् । एवं ‘जनुर्जननजन्मानि’ इति नपुंसकलिङ्गान्निरूप्य, ‘जनिरुत्पत्तिः इति स्त्रीलिङ्गावुक्त्वा, उद्भवशब्दः पुंलिङ्ग उक्तः । यत्तु स्वामिनोक्तम् - ‘एतच्च क्रमादृते । यत्र संग्रहश्लोकादौ क्रममात्रं विवक्षितम्, तत्र अनुक्तानां भिन्नलिङ्गानां द्वन्द्वादयः कृता एव । यथा ‘वर्गाः पृथ्वीपुरक्ष्माभृद्वनौषधि-’ इत्यादौ द्वन्द्वसङ्करौ, ‘भ्रात्रादावेकशेषश्च कृतः’ इति । तन्न । इत्थं हि ‘पृथ्वीपुर इत्यादिनिर्वाहेऽपि भ्रात्रादावनिर्वाह एव । तत्र क्रममात्रस्याप्रति पिपादयिषितत्वात् । अत एव ‘अप्सरोयक्षरक्षोगन्धर्वकिन्नराः’ इत्यादावप्यनिर्वाहः । यदपि ‘उपाध्यायश्च क्रमादृते’ इत्यन्तर्गडुमन्वानः ‘क्रमेणादृते परिपाट्योपादेये ग्रन्थे’ इति व्याख्यत् इति स्वामी । तदपि न । अन्तर्गडुमानस्य निजत्वात् । अस्मदुक्तरीत्या तस्य सामञ्जस्यात् ॥ ४ ॥
विश्वास-प्रस्तुतिः
त्रिलिङ्ग्यां त्रिष्व् इति
पदं मिथुने+++(=स्त्रीपुंसोः)+++ तु द्वयोर् इति।
निषिद्ध-लिङ्गं शेषार्थं
त्व्-अन्ताथादि न पूर्वभाक्॥५॥
मूलम्
त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति।
निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक्॥५॥
विस्तारः (द्रष्टुं नोद्यम्)
- सुधा * अन्वयः – त्रिलिंग्यां, ‘त्रिषु’ इति, पदम्, तु, मिथुने, ‘द्वयोः’ इति, (पदम्), निषिद्धलिङ्गं, शेषार्थम्, (ज्ञेयम्), त्वन्ताथादि, पूर्वभाक्, न, (इति ज्ञेयम्) ॥ ५ ॥
त्रयाणां लिङ्गानां समाहारस् त्रिलिङ्गी, तत्र ‘त्रिषु’ इति पदं ज्ञेयम् । इति परिभाष्यते ।
यथा-
‘त्रिषु स्फुलिङ्गोऽग्निकणः ।
न्याससिद्धं चैतत् ।
त्रिलिङ्ग्यतिरिक्तस्यार्थ (र्थान्तर )स्यासम्भवात् । अयोगाच्च ।
स्त्रीपुंसौ मिथुनम्, तत्र ‘द्वयोः’ इति पदं ज्ञेयम् ।
यथा-‘द्वयोज्वालकीलौ’ । ‘द्वयोः’ इति द्विशब्दप्रयोगोपलक्षणम् ।
तेन ‘द्विहीनं प्रसवे सर्वम्’ ‘द्वयहीने कुकुन्दरे’ इत्याद्युपपद्यते । तथा निषिद्धं लिङ्गं यस्य तन्निषिद्धलिङ्गं पदं, शेषार्थं शेषलिङ्गकं ज्ञेयम् । इदमपि न्यायसिद्धम् । विशेषनिषेधे शेषाभ्यनुज्ञानात् । यथा-‘वज्रमस्त्री’ इति ।
तुर् अन्ते यस्य तत् त्वन्तम्, अथ आदिर्यस्य तदथादि, त्वन्तं च अथादि च नामपदं लिङ्गपदं सर्वनामपदं अव्ययपदं च पूर्वान्वयि न भवति । किं तूत्तरान्वयि । ‘नगरी त्वमरावती’ ‘जवोऽथ शीघ्रं त्वरितम्’ इति च नामपदम् । ‘पुंसि त्वन्तर्धिः ‘शस्तं चाथ त्रिषु द्रव्ये’ इति लिङ्गपदम् । ‘तस्य तु प्रिया’ इति सर्वनामपदम् । ‘वा तु पुंसि’ इत्यव्ययपदम् । अथशब्दोऽथोशब्दस्याप्युपलक्षणम् । यथा-‘अनुक्रोशोऽप्यथो हसः’ । न्यायसिद्धमिदम् । तुना पूर्वस्माद्विशेषद्योतनात् । अथशब्देन चार्थान्तरारम्भात् । भ्रमविषयं चैतत् । ‘उदपानं तु पुंसि वा’ इत्यादौ तु न दोषः । उत्तरस्यानामत्वात् । लिङ्गवाचिनाऽन्वयेऽपि दोषाभावात् । वस्तुतस्तु अत्र पादपूरणाय चकाराद्येव पठितुं युक्तम् ॥ ५ ॥