अथ विवाहः
कन्या-वरणम्
विवाहं करिष्यमाणः स्वयं वा अन्यो वा
अमुक-गोत्रस्य अमुक-शर्मणः वरस्य
अमुक-गोत्रायाः अमुक-नाम्न्याः कन्यायाश् च
उभयोः उद्वाहकर्माङ्गम् अङ्कुरार्पणकर्म करिष्य
इति सङ्कल्प्य तत् कृत्वा,
तथैव सङ्कल्प्य प्रतिसरबन्धं च कुर्यात् ।
अथ वरो वरान् प्रेषयिष्य इति सङ्कल्प्य
सुहृदः समवेतान् वेदविदः चतुरो ब्राह्मणान्
‘प्रसुग्मन्ते’ति द्वाभ्याम् अभिमन्त्र्य
“यूयम् अमुक-गोत्रात् कन्यां मह्यं वृणीध्वम्” इति प्रेषयेत् ।
ततस् ते दुहितृ-मन्तं गत्वा
अमुक-गोत्राय अमुक-शर्मणे वराय
अमुक-गोत्राम् अमुक-नाम्नीं भवदीयां कन्यां धर्मप्रजार्थं वृणीमहे
(कन्यां प्रजा-सहत्व-कर्मभ्यो वृणीमह इति पाठान्तरम् ।)
इति ब्रूयुः ।
ततो दुहितृमान् दास्यामि इति प्रतिब्रूयात् ।
ततः प्रत्येत्य “सिद्धार्था वयम्” इति वराय आवेद्य
दुहितृमतो गृहं वरम् आनयेयुः ।
कन्या-दानम्
तत्र स्नाताम् अहत-वाससं गन्धानुलिप्तां स्रग्विणीं भुक्तवतीम् अलङ्कृतां कन्यां
स्वयं चैवम्भूतो वरः पश्येद्,
अथोपोषितो दुहितृमान् कृत-स्नानादिः “कन्या-दानं करिष्ये” इति सङ्कल्प्य
वराय आसनं दत्वा
भार्याऽऽवर्जितेन जलेन वरस्य पादौ प्रक्षाल्य
आचम्य वस्त्र-भूषण-गन्ध-पुष्पाणि गां भूमिं च यथाशक्ति दत्वा
अमुक-शर्मणो नप्त्रे, अमुक-शर्मणः पौत्राय, अमुक-शर्मणः पुत्राय, अमुक-शर्मणे वराय तुभ्यम्
अमुक-शर्मणो नप्त्रीम्, अमुक-शर्मणः पौत्रीम्, अमुक-शर्मणः पुत्रीम् अमुक-नाम्नीं मदीयम् इमां कन्यां
प्रजा-सहत्व-कर्मभ्यः प्रतिपादयामि
इति प्रत्यङ्-मुखस् तिष्ठन्
प्राङ्मुखम् अवतिष्ठतो वरस्य दक्षिणे हस्ते
कन्यकाया दक्षिणं हस्तं सहिरण्यम् उदकपूर्वं दद्यात्।
अत्नि-स्थापनम्
वरः तां प्रतिगृह्य
विवाहस्थाने उपविश्य
“उद्वाह-कर्म करिष्य” इति सङ्कल्प्य
मथितं श्रोत्रियागाराद् वाहृतम् अग्निं प्रतिष्ठाप्य
(प्राक्तोयान्तं कृत्वा इत्यपि पाठान्तरे ।)
परिस्तीर्य,
कन्याशालां गच्छेत् ।
मधु-पर्कः
आसनम्
आगताय वराय
दाता “मधु-पर्क-दानं करिष्य” इति सङ्कल्प्य
आसनार्थम् “अयं कूर्च” इति कूर्चं निक्षिपेत् ।
पाद्यम्
तस्मिन् वरे ‘राष्ट्रभृद् असि’ इति प्राङ्मुख उपविष्टे
पाद-प्रक्षालनार्थं जलम् आदाय
“आपः पाद्याः” इति ब्रूयात् ।
वरः तज् जलम् ‘आपः पादावनेजनीः’ इत्य् एतया अभिमन्त्र्य
प्रक्षालनार्थं दक्षिणं पादं पूर्वं प्रसारयेत् ।
दाता पूर्ववत् पादौ प्रक्षालयेत् ।
[[26]]
वरः अप उपस्पृश्य
प्रक्षालयितारं दक्षिणभुजे स्पृष्ट्वा
प्रतिलोमेन पाणिना ‘मयि मह’ इति स्वहृदयम् अभिमृश्याप उपस्पृश्याचामेत् ।
अर्घ्यम्
दाता मृण्मये पात्रे
पुष्पाक्षत-संयुक्तम् अर्हणाय जलम् आनीय
सकूर्चाभ्यां सव्य-दक्षिणाभ्याम् अधस्ताद् उपरिष्टाच् च परिगृह्य
“अर्हणीया अप” इति ब्रूयात् ।
वरः तदा ‘आमागन्’ इत्येतया अभिमन्त्र्य
तद् एक-देशे दात्रा स्वाञ्जलौ दीयमाने
‘विराजो दोहोऽसीति’ जपित्वा
तच्छेषं दात्रा पुरस्तान् नीयमानं
‘समुद्रं वः प्रहिणोमी’त्य् एतया ऽभिमन्त्रयेत् ।
मधु-पर्क-दानम्
दाता वराय वस्त्र-कुण्डलाङ्गुलीयादि दत्वा
दधि मधु घृतं च कांस्य-पात्रे कस्मिंश्चित् पात्रे वा संसृज्य
बृहता कांस्य-पात्रेण पूर्ववत् गृह्य
“मधुपर्क” इति ब्रूयात् । त्रिः ब्रूयाद् इत्य् एके ।
वरः पाणिभ्यां तं प्रतिगृह्य
पिधान-पात्रम् अपनीय
‘त्रय्यै विद्यायै’ इति द्वाभ्याम् अभिमन्त्र्याचम्य
“अमृतोपस्तरणमसि” इत्यपः प्राश्य
‘यन् मधुनो मधव्यम्’ इति मधुपर्कं त्रिः प्राश्य
अमृतापिधानमसि इत्य् अपः प्राश्याचामेत् ।
गव्-उत्सर्गः
ततो दाता वराय गां प्रदर्श्य
गौर् इति ब्रूयात् ।
वरः पाणिभ्यां तं प्रतिगृह्य
‘यज्ञो वर्धताम्’ इत्य्-आदि-मन्त्रान् उपांशु जपित्वा
‘ओम् उत्सृजत’ इत्य् उच्चैः प्रतिब्रूयात् ।
भोजनम्
सिद्धेऽन्ने दाता तिष्ठन्
वराय “भूतम्” इति ब्रूयात् ।
वरः तद् अन्नं “सा विराट्” इति उपांशु अभिमन्त्र्य
“ओं कल्पयते"त्य् उच्चैः ब्रूयात् ।
ततो दाता वरं भोजयेत् ।
कन्या-वीक्षण-सङ्कल्पौ
ततो वरस् तण्डुल-राशिस्थां धान्य-राशिस्थां वा कन्यां दृष्ट्वा
‘अभ्रातृघ्नीम्’ इत्येतां जपित्वा
चक्षुर् उपसङ्गृह्य ‘अघोर-चक्षुर्’ इत्य् एतया कन्या-दृष्टौ स्व-दृष्टिं निपात्य
अवयवशः समीक्ष्य
तया सह दर्भेष्व् आसीन
“आवाभ्यां कर्माणि कर्तव्यानि, प्रजाश् चोत्पादयितव्या” इति सङ्कल्प्य,
वध्वा अपि एवं सङ्कल्पः ।
अङ्गुष्ठानामिकाभ्यां दर्भं सङ्गृह्य
तेन ‘इदम् अहं या त्वयि’ इति तस्या भ्रुवोः मध्यं सम्मृज्य
पश्चान् निरस्य
अप उपस्पृशेत् ।
तया एतन्-मात्रादिभिर् वा अन्योन्य-वियोग-चिन्तया रोदने कृते
‘जीवाँ रुदन्ति’ इति जपेत् ।
[[27]]
स्नपनम्
ततो वेदविदः समवेतान् चतुरो ब्राह्मणान्
वधू-स्नानार्थम् उद-कुम्भम् आहर्तुं
‘व्युक्षत् क्रूरम्’ इत्येतया उच्चैः प्रेरयेत् ।
ते च यत्र पूर्वं पुरुषाः स्नानादिषु न मृताः
तत उदकम् आनयेयुः ।
अथ वरो दर्भैः कृतं वलयम् “अर्यम्णो ऽग्निम्” इति तस्याः शिरसि निधाय
तदुपरि ‘खेनसः’ इत्येतया दक्षिणं बाह्य-युग-च्छिद्रं निधाय
तस्मिन् छिद्रे ‘शन्ते हिरण्यम्’ इत्येतया हिरण्यम् अन्तर्धाय
पूर्वम् आहृतेन जलेन ‘हिरण्यवर्णाः’ इति पञ्चभिः तां स्नापयित्वा
अलङ्करणम्
‘परि त्वा गिर्वणो गिर’ इत्येतया अहतं वासः परिधाप्य
द्विर् आचम्य
‘माङ्गल्यतन्तुनाऽनेन’ इति तस्याः आसीनायाः कण्ठे माङ्गल्यसूत्रं बध्वा
‘आशासाना सौमनसम्’ इत्य् एतया
तस्या कटिदेशे योक्त्रेण सन्नह्य
सप्तपदी
स्वस्य दक्षिण-हस्तेन तस्याः दक्षिण-हस्तं गृहीत्वा
‘पूषा त्वेतो नयतु’ इत्य् एतया अग्नेर् अभिमुखम् आनीय
अग्नेः पश्चाद् उदग्रं कटम् आस्तीर्य
तस्मिन् दक्षिणतः वधूः, उत्तरतः स्वयं च युगपद् उपविश्य
पात्र-सादनान्ते अश्मानं लाजांश् च युगपत् सादयित्वा
आज्यभागान्ते ‘सोमः प्रथमः’ इत्य् एताभ्यां पत्नीम् अभिमन्त्र्य
तस्या उत्तानं साङ्गुष्ठं हस्तम् अवाचीनेन स्व-दक्षिण-हस्तेन ‘गृभ्णामि ते’ इति चतसृभिः गृहीत्वा
तया सहोत्थायाग्नेर् उत्तरतो गत्वा
तत आरभ्य, प्राग्-आयतनानि उदग्-आयतनानि वा सप्त-पदानि
‘एकम् इषे’ इत्यादिभिः सप्तभिः प्रतिमन्त्रं दक्षिणेन पदा प्रक्रम्य
सप्तमे पदे निहिते ‘सखा सप्तपदा भव’ इत्यादि ‘सूनृत’ इत्यन्तं जपित्वाग्निं प्रदक्षिणं कुर्यात् ।
सर्वेष्वपि प्रदक्षिणेषु आज्य-स्थालीं प्रणीतिम् अश्मानं लाजांश् च अभ्यन्तरे कृत्वा
दक्षिणतो निषादितस्य ब्राह्मणस्याग्नेश् चान्तरा गच्छेत् ।
आज्य-होमः
एवं पत्न्या सह प्रदक्षिणं कृत्वा
यथा-स्थानम् उपविश्य
हस्तं मुक्त्वा पत्न्या ऽन्वारब्धः
‘सोमाय जनिविदे स्वाहा’ इत्य्-आदि-षोडशभिः प्रतिमन्त्रं हुत्वा
अश्नारोहणम्, लाज-होमः
अग्नेर् उत्तरतो ऽश्मानम् ‘आतिष्ठेमम्’ इति पत्नीं दक्षिणेन पदा स्थाप्य
दर्वी-संस्कारवत् पत्न्य्-अञ्जलिं संस्कृत्य
तस्मिन्न् उपस्तीर्य,
द्विः लाजान् आवपेत्,
जमदग्नीनां त्रिः ।
पत्न्याः सोदर्यो लाजान् आवपतीत्य् एके ।
अभिघार्य वध्व्-अञ्जलिं गृहीत्वा
तेन देवतीर्थेन ‘इयं नार्य् उपब्रूते’ इत्य् एतया हुत्वा
तस्या हस्तं गृहीत्वोत्थाप्य
‘तुभ्यमग्रे पर्यवहन्’ इति तिसृभिः तया सहाग्निं प्रदक्षिणं कृत्वा
[[28]]
पूर्ववत् अश्मानम् आस्थाप्योपविश्य
‘अर्यमणं नु देवम्’ इति पूर्ववत् लाजान् हुत्वा
पूर्ववत् प्रदक्षिणं कृत्वा
पुनर् अप्य् अश्मानम् आस्थाप्योपविश्य
‘त्वम् अर्यमा भवसि’ इति पुनः लाजान् हुत्वा
पुनः प्रदक्षिणं कृत्वा
यथास्थानम् उपविश्य जयाद्य्-अग्न्य्-उपस्थानान्तं कृत्वा
‘प्र त्वा मुञ्चामि’ इत्येताभ्यां योक्त्रं विमुञ्चेत् ।
पश्चात् निरस्याप उपस्पृशेत् ।
एतम् एवाग्निं यावज्-जीवं धारयेत् ।
एतस्मिन्न् अग्नौ
‘यदृतेचित्’-इति-होम–प्रविश्यहोम–सर्व-स्थाली-पाक–शेष-होम–
पुंसुवन–सीमन्त–गृह-प्रवेश–
पार्वण–पिण्ड-पितृ-यज्ञौपासन–
वैश्वदेव–पञ्च-महा-यज्ञादीनि कुर्यात् ॥
॥ इति प्रयोगचन्द्रिकायां चतुर्दशः खण्डः ॥