+३८ विवाहः

विवाहः

उक्ता गुरुकुला निवृत्तिर् उपकुर्वाणस्य । तस्येदानीं विवाह उच्यते । तत्र मनुः ।

गुरुणा समनुज्ञातः समावृत्तो यथाविधि ।
उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम् (?) ॥

याज्ञवल्क्यो ऽपि ।

अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियम् उद्वहेत् ।

विप्लुतिः स्खलनम् । लक्षण्या लक्षणयुक्ता । सा च किंलक्षणा भवतीत्य् उक्ते स एवाह ।

अनन्यपूर्विकां कान्ताम् असपिण्डां यवीयसीम् ।
अरोगिणीं भ्रातृमतीम् असमानार्षगोत्रजाम् ॥

अनन्यपूर्विका या दानेनोपभोगेन वा पुरुषान्तरपूर्विका न भवति सा । कान्ता कमनीया परिणेतुर् मनसः आनन्दकारिणीत्य् अर्थः । आपस्तम्बो ऽपि - “यस्यां मनश्चक्षुषोर् नीबन्धस् तस्याम् ऋद्धिः” इति ।