०९ कन्यादातृनिर्णयः

अथ कन्यादातृनिर्णयः

तत्र याज्ञवल्क्यः ।

पिता पितामहो भ्राता सकुल्यो जननी तथा ।
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥

प्रकृतिस्थ उन्मादादिदोषरहितः । अप्रकृतिस्थत्वे तु पित्रादिनापि कृतम् अकृतम् एव । यद् आह नारदः ।

स्वतन्तो ऽपि हि यत् कार्यं कुर्याद् अप्रकृतिं गतः ।
तद् अप्य् अकृतम् एव स्याद् अस्वातन्त्यस्य हेतुतः ॥

यत् पुनर् मनुनोक्तम् ।

यस्मै दद्यात् पिताप्य् एनां भ्राता चानुमतौ पितुः ।
तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ॥ इति ।

तत् तयोः प्रधान्यप्रतिपादनार्थं न पुनर् अन्यनिषेधाय (?) । अत एव नारदः ।

पिता दद्यात् स्वयं कन्यां भ्राता वानुमतौ पितुः ।
मातामहो मातुलश् च सकुल्यो बान्धवस् तथा ॥
माता त्व् अभावे सर्वेषां प्रक्र्तौ यदि वर्तते ।
तस्याम् अप्रकृतिस्थायां दद्युः कन्यां स्वजातयः ॥ इति ।

यदा तु सर्वेषाम् अभावस् तदा राजा दद्यात् । तद् आह स एव ।

यदा तु नैव कश्चित् स्यात् कन्या राजानम् आव्रजेत् ।

यदासाव् अपि क्षितिपालनाद्याकुलतया न ददाति तदा कन्यैव तदनुज्ञया स्वसदृशं भर्तारं वरयेत् । तद् अपि तेनैवोक्तम् ।

अनुज्ञया वरं तस्य प्रतीत्य वरयेत् स्वयम् ।

याज्ञवल्क्यो ऽपि ।

गम्यं त्व् अभावे दातॄणां कन्या कुर्तात् स्वयंवरम् ।

गम्यं गमनार्थम् इत्य् अर्थः । तथा च वरयेद् इत्य् अनुवृत्तौ नारदः ।

सवर्णम् अनुरूपं च कुलशीलबहुश्रुतैः ।
सहधर्मं चरेत् तेन पुत्रांश् चोत्पादयेत् ततः ॥ इति ।

**इति स्मृतिचन्द्रिकायां कन्यादातृनिर्णयः **