०४ मातुलसुतापरिणयनसमर्थनम्

नन्व् एवं तर्हि ब्राह्मादिभिर् विवाहैर् निवृत्तपितृ-सपिण्डभावायां पुत्रस्य मातुलसुता परिषेया स्यात् । सत्यम्, केन चोक्तं न परिणेयेति । ननु मन्वादिभिर् एव । यद् आह शातातपः ।

उद्वहेत सगोत्रां यस् तनयां मातुलस्य च ।
ऋषिभिश् चैव तुल्यां च स तु चान्द्रायणम् चरेत् ॥

मनुर् अपि ।

पैतृष्वसेयीं भगिनीं स्वस्रीयां मातुर् एव च ।
मातुश् च भ्रातुर् अप्तस्य गत्वा चान्द्रायाणं चरेत् ॥
एतास् तिस्रस् तु भार्यार्थे नोपयच्छेत बुद्धिमान् ।
ज्ञातित्वेनानुपेयास् ताः पतति ह्य् उपयन्न् अधः । इति ।

आप्तस्य संनिकृष्टस्य सपिण्डस्येत्य् अर्थः । व्यासो ऽपि ।

तृतीयां मातृतः कन्यां तृतीयां पितृतस् तथा ।
शुल्केन चोद्वहिष्यन्ति विप्राः पापविमोहिताः ॥

मातृतो मातृपक्षे तृतीयां मातुलसुताम्, पितृपक्षे त्र्तीयां पैतृष्वसेयीम् इत्य् अर्थः । शुल्कं मूल्यम् । अनेन कूट्स्थम् आरभ्य गणयेद् इत्य् उक्तं भवति । तथा च पुराणे ययातिवाक्यम् ।

यो मे त्वं हृदयाज् जातो वयस् त्वं न प्रयछसि ।
पापान् मातुलसंबन्धत् प्रजा वै ते भविष्यति ॥

सुमन्तुर् अपि - “पितृपत्न्यः सर्वा मातरः, तद्भ्रातरो मातुलाः, तद्दुहितरश् च भगिन्यः, तदप्त्यानि भागिनेयानि, अन्यथा संकरकारीणि स्युः” इति । उच्यते । सत्यम् एतानि मातुलदुहितृविवाहनिषेधपराणि । तथाप्य् आसुरादिविवाहेन पित्रादिभिर् अनिवृत्तसपिण्डभावायाः पुत्रस्य मातुलसुता परिणेतुर् मातुश् च सपिण्डेति सा तावद् अविवाह्या । तथैवंविधायाः पितृष्वसुर् दुहिता परिणेतुः पितुश् च सपिण्डा सगोत्रा चेति सापि न परिणेया । या तु ब्राह्मादिविवाहोढा तस्याः स्वपित्रादिभिः सापिण्ड्यनिवृत्तेस् तत्पुत्रस्य मातुलसुआपरिणयणं न वार्यते । एवं पैतृष्वसेय्याम् अपि द्रष्टव्यम् । तद् इदम् उक्तं मनुना ।

असपिण्डा च या मातुर् असगोत्रा च या पितुः ।
सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥ इति ।

या मातृतः पितृतो वा सपिण्डा सगोत्रा च सैव परित्याज्या नान्येत्य् अभिप्रायः । अत एव व्यासः ।

मातुः सपिण्डा यत्नेन वर्जनीया द्विजातिभिः । इति ।

अत एव शातातपो ऽपि मातृसगोराया एव निषेधम् आह ।

मातुलस्य सुताम् ऊढ्वा मातृगोत्रां तथैव च ।
समानप्रवरां चैव द्विजश् चान्द्रायणम् चरेत् ॥

न चात्र मातृगोराम् इत्य् अनेनैव सपिण्डमातुलदुहितृनिषेधसिद्धेः किम् अर्थं मातुलसुताग्रहणम् इति वाच्यम्, पक्षान्तरत्वे ऽपि समानत्वात् । तत्रापि मातृगोत्रादिप्रतिषेधेनैव मातुलदुहितृमात्रनिषेधसिद्धेः । अथ पक्षद्वयेनोभयविधमातुलदुहितृनिषेधः, तर्हि मातुलसुताग्रहणेनैवालम्, किं मातृगोरग्रहणेन । किं च मनुर् अपि पैतृष्वसेय्याः पितृसपिण्डाया एव पर्युदासम् आह ।

पतिऋष्वसेयीं भगिनीं स्वस्त्रीयां मातुर् एव च ।
मातुश् च भ्रातुर् आप्तस्य गत्वा चान्द्रायणं चरेत् ॥
एतास् तिस्रस् तु भार्यार्थे नोपयच्छेत बुद्धिमान् । इति ।

अन्यथा भगिनीशब्दवैयर्थं स्यात्, पैतृष्वसेहीम् इत्य् अनेनैव पितृष्वसृदुहितृमात्रनिषेधसिद्धेः । भगिनीवद् भगिनी सपिण्डेत्य् अर्थः । एवम् आप्तशब्दे ऽपि द्रष्टव्यम् । न च भगिनीशब्दः पैतृष्वसेयीं न विशिनष्टीति वाच्यम्,

एतास् तिस्रस् तु भार्यार्थे नोपयच्छेत बुद्धिमान् ।

इति त्रित्वे सङ्ख्यापनात् । पतिठिनसिर् अपि - “पितृमातृष्वसृदुहितरो मातुलसुता धर्मतस् ता भगिन्यो वजयेत्” इति । न चात्र संदेहनिवृत्त्यर्थं भगिनीग्रहणम् इति वाच्यम्, “वर्जयेत्” इत्यदिविधिबलेनैव संदेहनिवृत्तेः । ननु च “असपिण्डा च या मातुः” इत्य् अनेनैव मातृसपिण्डादिपर्युदासे सिद्धे किम् इति पुनः “पैतृष्वसेयीं भगिनीम्” इत् तस्या एव निषेध उच्यते । सत्यम् एवम् । तथाप्य् अत्र पातित्यादिदोषप्रतिपदनमुखेनैकान्ततो निवृत्तिसिद्ध्यर्थम् । “सा प्रशस्ता” इति वचनान् मातृसपिण्डासगोत्रयोर् अप्राशस्त्यमात्रम् स्यात् । न सर्वथा वर्जनीयत्वन्, तथा,

चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः ।

इति चतुर्णां विवाहानां प्राशस्त्य उक्ते ऽपि न गान्धर्वादीनाम् एकान्ततः परित्यागः किं त्व् अप्राशस्त्यमात्रं तथेहापि स्यात् । ततश् च या मन्वादिवचनैर् मातृसपिण्डा मातुलसुता या च पैतृष्वसेयी पितृसपिण्डा सैवोद्वाहकर्मणि परित्याज्या नान्येति सिद्धम् । अत एवोक्तं चतुर्विंशतिमते ।

तृतीयां वा चतुर्थी वा पक्षयोर् उभयोर् अपि ।
विवाहयेन् मनुः प्राह पाराशर्यो ऽङ्गिरा यमः ॥ इति ।

उभयोर् मातापित्रोर् इत्य् अर्थः । एवं च यानि मातुलदुहितृपरिणयनिषेधपराणि तान्य् अनिवृत्तस्वमातृसपिण्डभावाभिप्रायाणीति मन्तव्यम् । किं चैवं सत्य् एतेषां मन्वादिवाक्यानां चैकम् एव मूलं परिकल्पितं भवति । अन्यथा तेषां मूलान्तरकल्पनागौरवं स्यात् । तेन विशेषविषयतैव न्याय्या । ननु यदि च मातुर् असपिण्डतया मातुलसुता परिणेया तर्हि तथाविधा मातृष्वशा तद्दुहिता च किम् इति न परिणेया । उच्यते । सत्यम्, न ब्रूमः शास्त्रतो न परिणेयेति, किं तु लोकविरुद्धत्वात् । यच् च धर्म्यम् अपि लोकविरुद्धम् तन् नानुष्ठेयम् । तद् उक्तं मनुना ।

अस्वर्ग्यं लोकविद्विष्टं धर्म्यम् अप्य् आचरेन् न तु । इति ।

वराहमिहिरो ऽपि ।

देशाचारस् तावद् आदौ विचिन्त्यः देशे देशे या स्थितिः सैव कार्या ।
लोकद्विष्टं पण्डिता वर्जयन्ति दैवज्ञो ऽतो लोकमार्गेण यायात् ॥ इति ।

ननु च याज्ञवल्क्येन,

पञ्चमात् सप्तमाद् ऊर्ध्वं मातृतः पितृतस् ततः ।

इति मातृपक्षे पञ्चमाद् ऊर्ध्वम् उद्वाहविधानात् कथं मातुलदुहितृपरिणयनम् । उच्यते । “मातुर् असपिण्डाम् उद्वहेत्” इत्य् अनेन मातृबन्धुxव् अप्य् विशेषेण विवाहप्राप्तौ तन् मा प्रसाङ्क्षीद् इति मातृतो मातृबन्धुभ्यः पञ्चमाद् ऊर्ध्वम् उद्वहेद् इत्य् अविरोधः । एवं पितृबन्धुष्व् अपि द्रष्टव्यम् । अत एव गौतमः - “ऊर्ध्वं सप्तमात् पितृबन्धुभ्यो बीनिनश् च मातृबन्धुभ्यः पञ्चमात्” इति । बीनिनो यो नियोगाद् उत्पादयति तस्माद् अप्य् ऊर्ध्वं सप्तमाद् इत्य् अर्थः । बान्धवा अपि स्मृत्यन्तरे दर्शिताः ।

पितुः पितृष्वसुः पुत्राः पितृमातृषवस्वुः सुताः ।
पितुर् मातुअलपुत्राश् च विज्ञेयाः पितृबान्धवाः ॥
मातुः पितृष्वसुः पुत्रा मातुर् मातृष्वःसुताः(?) ।
मातुर् मातुलपुत्राश् च विज्ञेया मातृबान्धवाः ॥

यत् पुनर् वसिष्ठेनोक्तम्,

पञ्चमीं मातृबन्धुभ्यः सप्तमीं पितृबन्धुतः ।

इति तद् गौतमीयैकवाक्यत्वाय पञ्चमीं सप्तमीं चातीत्योद्वहेद् इत्य् एतवंपरम्, न पुनः पञ्चमीसप्तम्योर् वेदोवाहावधिपरम् । यद् अपि नारदेनोक्तम्,

पञ्चमात् सप्तमाद् अर्वाग् बधुभ्यः पितृमातृतः ।
अविवाह्या सगोत्रा च समानप्रवरा तथा ॥

इति, यद् अपि विष्णुना,

पञ्चमात् सप्तमाद् धीनां यः कन्याम् उद्वहेद् द्विजः ।
गुरुतल्पी च विज्ञेय्ः सगोत्रां चैवम् उद्वहन् ॥

इति, तत्रापि पञ्चमीसप्तम्योर् नाभ्यनुज्ञा तत्र निषेढश्रवणात् । यद् आह मरीचिः ।

पञ्चमे सप्तमे चैव येषां वैवाहिकी क्रिया ।
क्रियापरा अपि ह्य् एते पतिताः सूद्रतां गताः ॥ इति ।

एतेन यत् कैश्चिद् उक्तम्,

ऊर्ध्वं सप्तम्या अलाभे सप्त्मीम् उद्वहेत् ।

इति, तद् अप्य् अपास्तम् । यद् अपि पतिठीनसिनोक्तम्,

त्रीन् मातृतः पञ्च पितृतः पुरुषान् अतीत्य विवाहः ।

इति, तद् अप्य् अर्वाङ् निषेधपरम् । न पुनश् चतुर्थीषष्ठ्योर् विवाहाभिप्रायम्, विष्ण्वादिवचनविरोधप्रसङ्गात् । ननु च “असपिण्डा च या मातुः” इत्य् अनेन या मातुर् असपिण्डा ताम् उद्वहेद् इत्य् उक्तेः स्वमातृपक्षे ऽप्य् अविशेषेण विवाहप्राप्तौ तन् मा भूद् इति मातृतो मातृपक्षे पञ्चमाद् ऊर्ध्वम् उद्वहेद् इति नियमः किं न स्यात् । अतः कथं मातुलदुहितृपरिणयनम् । एवं पितृपक्षे ऽपि द्रष्टव्यम् । उक्तं च विष्णुपुराणे ।

पञ्चमीं मातृपक्षाच् च पितृपक्षाच् च सप्तमीम् ।
गृहस्थ उद्वहेत् कन्यां न्यायेन विधिना नृप ॥ इति ।

पञ्चमीम् अतीत्येत्य् अर्थः । मैवम् गौतमादिभिर् बन्धुष्व् एव नियमविधानात् । अथ वा मा भूद् बन्धुष्व् एव नियमविधानम्, तथाप्य् उक्तप्रकारेण मन्वाधिभिर् एव मातुलदुहितृपैतृषवसेयीपरिणयनाभ्यनुजानात् व्यतिरेकेण पक्षद्वये ऽप्य् अयं नियमः क्रियत इत्य् अविरोधः । यद् वा “पञ्चमात् सप्तमात्” इति याज्ञवल्कीयं पुत्रिकाकरणदिविषयम् इत्य् अनुसंधेयम् । यद् अत्र युक्तं तद् ग्राह्यम् । यत् तु संग्रहकारेणोक्तम्,

स्त्रीसन्ततिस् तथा पुंसाम् अविवाह्ये उभे मते ।
स्त्रीपुंसोस् तु विवाह्या स्यात् पञ्चमात् सप्तमात् परम् ॥

इति, तद् अप्य् उक्तविषयम् एवेत्य् अनवद्यम् । तेन स्मृतितः सिद्धं मातुलदुहितृपैतृष्व्सेयीपरिणयनम् । किं च स्रुतिर् अपीमम् एवार्थं (?) श्रावयति । तथा वाजसनेये श्रूयते ।

तस्मात् समानाद् एव पुरुषाद् अत्ता चाद्यश् च जायते ।
उत तृतीये सङ्गच्छावहै चतुर्थे संगच्छावहै ॥ इति ।

अस्यार्थः - समानाद् एकस्मात् पुरुषाद् अत्ता भोक्ता भार्याया अद्यश् च भोग्यो भार्यालक्षणश् च जायते, जायापती जायेते इति यावत् । नन्व् एकस्माद् उत्पन्नयोर् जायापतित्वे भ्रातृभगिन्योर् एव जायापतित्वम् उक्तं स्यात् इत्य् आशङ्क्याह तर्हि तृतीये पुरुष इत्यादि । अनेन दौहित्रपुत्रयोर् मतुलदुहितृपैऋष्वसेयीपरिणयनम् उक्तं बहवति । तयोः कूटस्थम् आरभ्य तृतीयत्वात् । संगच्छावहै विवाहावहा इत्य् अर्थः । ननु च स्रग्व्य् ऊहनपरो ऽयम् अर्थवादो न स्वार्थे प्रमाणम् । उच्यते । सत्यम् अर्थवादो न स्वार्थे प्रमाणम्, किं तु यत्र प्रमाणान्तरम् अस्ति तत्र तत्प्रतिपादितार्थावलम्बनेन स्तुतिपरत्वं यथा “वायुर् वै क्षेपिष्टा (?) देवता” इति । यत्र तु नास्ति प्रमाणान्तरं यथा “तृतीये पुरुषे संगच्छावहै” इति तत्र तदनुवादान्यथानुपपत्त्या तथाविधविधिपरिकल्पनं केन वार्यते । अत एव, “त्रीणि ह वै यज्ञस्य उदराणि गायत्री बृहत्य् अनुष्टुब् अत्र ह्य् एवावपन्त्यावोद्वपन्ति” (?) इति अत्र गायत्र्यादिषु प्रतीतावापोद्वापान्य् अथानुपपत्त्या तत्प्रापको विधिः कल्प्यते । अत एव च “उपरि हि देवेभ्यो धारयति” इत्य् अत्रापि समिदुपरिधारणविधिः । अन्यथा तत्रापि न स्यात् । यत्र पुनः प्रमाणान्तरविरोधः न तत्र विधिकल्पनं यथा “आदित्यो यूपः” इति । अत एव “प्रजापतिर् वै स्वां दुहितरम् अभ्यधायत् (?)” इत्य् अत्रापि न विधिकल्पनाया अतिप्रसङ्गः, दुहितृगमने मन्वादिभिः प्रायश्चित्तविधानात् । अथ वा भवतु अर्थवादानुसारेण प्रजापतिः स्वां दुहितरं हच्चेद् इति विधिः । किम् आयातम् इतरेषाम् । न च महद्बिर् कार्यं कृतम् इत्य् अनेनापि कर्तव्यम् इत्य् अत्र प्रमाणम् अस्ति । न हीन्द्रेणाहल्यादिपरदारगमनं कृतम् इत्य् अनेनापि गन्तव्यम् । अत एव शङ्खलिखितौ ।

सुरां पिबन्ति त्रिदशाः सा चापेया द्विजातिभिः ।
हरन्ति वित्तं यत् सिद्धास् तव सिद्धिर् न् विद्यते ॥

वृद्धमनुर् अपि ।

अनुष्ठितं तु यद् देवैर् मुनिभिर् यद् अनुष्ठितम् ।
नानुष्ठेयं मनुष्यैस् तद् उक्तं कर्म समाचरेत् ॥ इति ।

श्रुत्यन्तरे ऽपि - “गर्भे नु नौ जनिता दम्पती तद् एव स्रष्टा सविता विश्वरूपम्” इति । नौ आवयोः गर्भे जठरे जनिता जगतः स्रष्टा देवो दम्पती जायापती अकरोद् इत्य् अर्थः । मन्त्रो ऽपि ।

आयाहीन्द्र पथिभिर् ईडितभिः
यज्ञम् इमं नो भागधेयं जुषस्य ।
तृप्तां जुहुर् मातुलस्येवं योषा
भागस् ते पैतृस्वसेयी वपाम् इव ॥

इति \

हे इन्द्र पथिभिर् मार्गैर् ईडितेभिः प्रशस्तैर् नः अस्माकं इमं यज्ञम् आयाहि आगच्छ । आगत्य चेदम् अस्माभिर् दीयमानं भागधेयं जुषस्य सेवस्व । अत एव यजमानास् तृप्ताम् आज्यादिना संस्कृतां वपाम् अवदानाख्यां त्वाम् उद्दिश्य जुहुः त्यक्तवन्तः । अत्र दृष्टान्तद्वेषम्, यथा मातुलस्य योषा दुहिता दौहित्रस्य भागो भजनीया परिणेतुं योग्या, यथा च पैतृष्वसेयी पौत्रस्य तथायं ते तत्र भागोवआख्य इत्य् मन्त्रार्थः । तेन श्रुतितो ऽपि सिद्धं मातुलादिसुतापरिणयनम् । किं चाचाराद् अप्य् अवगच्छामः यथा ह्य् आचरन्ति तावद् दाक्षिणात्यास् त्रैविद्यवृद्धा वेदार्थनुष्ठातारः शिष्टा एव मतुलादिसुता परिणयनम् । उक्तं च तदाचारप्रामाण्यं मनुना ।

शिष्टाचारः स्मृतिर् वेदास् त्रिविधं धर्मलक्षणम् । इति ।

लक्षणं प्रमाणम् इत्य् अर्थः । देवलो ऽपि ।

येषु देशेषु ये देवा येषु देसेषु ये द्विजाः ।
येषु देशेषु यत् तोयं या च यत्रैव मृत्तिका ॥
येषु स्थानेषु यच् छौचं धर्माचारस् च यादृशः ।
तत्र तान् नावमन्येत धर्मस् तत्रैव् तादृशः ॥
यस्मिन् देशे पुरे ग्रामे तैविद्यनगरे ऽपि वा ।
यो यत्र विहितो धर्मस् तं धर्मं न विचालयेत् ॥ इति ।

ननु देशाचारस्यापि प्रमाणान्तराविरोधिन एव प्रामान्यम् उक्तं वसिष्ठेन - “देशाचारकुलधर्मा आम्नायैर् अविरुद्धाः प्रमाणम्” इति । सत्यम्, आम्नायो वेदस् तदविरोधिन एव प्रामाण्यम् इति । न चात्र वेदविरोधो ऽस्ति प्रत्युतानुकूल एवेत्य् उक्तम् अधस्तात् । ननु स्मृतुविरोधे ऽप्य् आचारो दुर्बल एव, “श्रुतिस्म्र्तिविहितो धर्मस् तदलाभे शिष्टाचारः प्रमाणम्” इत् वसिष्ठस्मरणात् । अस्ति चात्र “मातुलस्य सुताम् ऊढ्वा” इत्यादिस्मृतिविरोधः । तेनात्र कथम् आचारस्य प्रामान्यम् । मैवम्, तेषां मातृसापिण्डाविषयत्वेन विरोधस्य परिहृतत्वात् । अथ वा मा भूत् तेषां विशेषविषयत्वम्, किं तूदीच्यदेशे ये मातुलादिदुहितृसंबन्धान् आचरन्ति तद्विxअयाणीत्य् अविरोधः, तेषाम् एव दोषश्रवणात् । तथा च बौधायनः - “पञ्चधा विप्रतिपत्तिर् दक्षिणतः अनुपनीतेन भार्यया च सहभोजनम्, पर्युषितभोजनम् उच्छिष्टभोजनं पितृष्वसृमातुलदुहितृपरिणयनम् इति । तथोत्तरतः पञ्च ऊर्णाविक्रयः शीधुपानम् उभयतोदाद्भिर् व्यवहारः आयुधीयकं समुद्रयानम् इति इतर इतरस्मिन् कुर्वन् दुष्यति । इतर इतरस्मिन् । तत्र तत्र देसप्रामाण्यम् एव स्यात्” इति । अयम् अर्थः - इतरो दाक्षिणात्यः इतरस्मिन् उत्तरदेशे मतुलसंबन्धादिकं कुर्वन् दुष्यति, न स्वदेशे तथेतरः उदीच्यः इतरस्मिन् दक्षिणदेशे शीधुपानादिकं कुर्वन् दुष्यति । न स्वदेशे । कुतः, देशप्रामाण्यात्, देशनिबन्धनाद् आचारप्रामाण्यस्येत्य् अर्थः । अत एव देवलः ।

यस्मिन् देशे य आचारो न्यायदृष्टस् तु कल्पितः ।
तस्मिन्न् एव स कर्तव्यो देशाचारः स्मृतो भृगोः ॥ इति ।

न चैवं सत्य् उदीच्यानां स्वदेशे परदेशे वा मातुलसंबन्धाद्यविरुद्धम् इति शङ्कनीयम् । यद् आह आपस्तम्बः ।

येषां परम्पराप्राप्ताः पूर्वजैर् अप्य् अनुष्ठिताः ।
त एव तैर् न दुष्येयुर् आचारैर् नेतरिः पुनः ॥

येषां पितृपितामहादिपरम्पराप्राप्ताः पूर्वजैश् च त्रैविद्यवृद्धैर् अनुष्ठिताः आचाराः सन्ति त एव तैर् आचारैर् अनुष्ठीयमानैर् न दुष्येयुः, नेतरैः । न ह्य् उदीच्यानां तथाविधा आचाराः सन्ति (यथा) दाक्षिणात्यानाम् । अस्तस् तैर् एव स्वदेशे कार्याणि नान्यैर् इति सिद्धम् । देसव्यवस्थया प्रामाण्यम् उक्तं वार्तिककारैः ।

सर्वेषाम् एवमादीनां प्रतिदेशं व्यवस्थया।
आपस्तम्बेन संस्क्र्त्य दुष्टादुष्टत्वम् आश्रितम् ॥ इति ।

यत् तु बोधायनेन “देशप्रामाण्यम्” इत्य् एवमन्तम् उक्त्वोक्तम्, “मिथ्यैतद् इत् गौतमः । उभयं चैव नाद्रियेत सिष्टागमविरोधदर्शनात् शिष्टस्मृतिविरोधदर्शनाच् च” इति, तन् न पूर्वोक्तनिराकरणार्थं गौतमग्रहणात् । किं तु शिष्टस्मृतिविरोधदर्शनाद् गौतमस्य मातृसपिण्डापरिणयनम् अभिप्रेतम् इति दर्शयितुम् । एवं च तद् उक्तम् अन्यैः - “स्याद् एवं यद्य् अनन्तरम् एव मिथ्यैतद् इति न ब्रूयात्” इति, तद् अप्य् अपास्तम् । तेन श्रुतेः स्मृतेर् आचाराच् च सिद्धं मातुलदुहितृपैतृष्वसेयीपरिणयनम् इति सर्वम् अनवद्यम् ॥

इति स्मृतिचन्द्रिकायां मातुलदुहितृपरिणयनसमर्थनम्