४० विवाहभेदाः

अथ विवाहभेदाः

तत्र मनुः ।

अष्टाव् इमान् समासेन स्त्रीविवाहान् निबोधत ।
ब्राह्मो दैवस् तथैवार्षः प्राजापत्यस् तथासुरः ॥
गान्धर्वो राक्षसश् चैव पैशाचश् चाष्टमो ऽधमः ॥ इति ।

तत्र याज्ञवल्क्यः ।

ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृता ।

यस्मिन्न् उक्तलक्षणं वरं स्वगृहम् आनीय तस्मै यथाशक्त्य् अलंकृता कन्या दीयते (?) स ब्राह्मओ विवाह इत्य् अर्थः । मनुर् अपि ।

आच्छाद्य चार्हयित्वा च श्रुतशीलवते स्वयम् ।
आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः ॥

अर्हयित्वा अलंकारादिभिः पूजयित्वेत्य् अर्थः । अस्यां जातस् तु दश पित्रादीन् दश पुत्रादींश् चात्मानं पापान् मोचयति । तथा च गौतमः - “दश पूर्वान् दशापरान् आत्मानं च ब्राह्मीपुत्रः पुनाति” इति । स यदि सद्वृत्त इति शेषः । तथा च मनुः ।

दश पूर्वापरान् वर्गान् आत्मानं चैकविंशकम् ।
ब्राह्मीपुत्रः सुकृतकृन् मोचयत्य् एनसः पितॄन् ॥

गौतमो ऽपि - “पुनन्ति साधवः पुत्राः” इति । दैवार्षयोर् अपि लक्षणम् आह याज्ञवल्क्यः ।

यज्ञस्य ऋत्विजे दैव आदायार्षस् तु गोद्वयम् ।

यज्ञे प्रारब्धे यस्मिन्न् अलंकृत्य ऋत्विज कन्या दीयते स दैवो विवाहः । तथा च मनुः ।

यज्ञे तु वितते सम्यग् ऋत्विजे कर्म कुर्वते ।
अलंकृत्य सुतादानं दैवं धर्मं प्रचक्षते ॥

यत्र पुनर् गोद्वयम् आदाय कन्या दीयते स आर्षो विवाहः । गोद्वयग्रहणं प्रदर्शनार्थम् । अत एव मनुः ।

एकं गोमिथुनं द्वे व वराद् आदाय धर्मतः ।
कन्याप्रदानं विधिवद् आर्षो धर्मः स उच्यते ॥

मिथुनं वृषभो धेनुश् च । अनयोः फलम् आह याज्ञवल्क्यः ।

चतुर्दश प्रथमजः पुनात्य् उत्तरजश् च षट् (?) ।

प्रथमजो दैवोत्पन्नः सप्तपूर्वान् सप्तापरान् पुनातीति । उत्तरज आर्षोत्पन्नः । स पुनस् त्रींस् त्रीन् । तथा च मनुः ।

दैवोढजः सुतश् चैव सप्त सप्त परावरान् ।
आर्षोढजः सुतस् त्रींस् त्रीन् षट् षट् कायोढजः सुतः ॥

कायः प्राजापत्यः । तत्स्वरूपम् अपि स एवाह ।

सहोभौ चरतां धर्मम् इति वाचानुभाष्य तु ।
कन्याप्रदानम् अभ्यर्च्य प्राजापत्यो विधिः स्मृतः ॥ इति ।

तथासुरादिचतुष्टयम् आह याज्ञवल्क्यः ।

आसुरो द्रविणादानाद् गान्धर्वः सम्यान् मिथः ।
राक्षसो युद्धहरणात् पैशाचः कन्यकाच् छलात् ॥

वराद् द्रविणम् आदाय यत् पित्रादिभिर् दानरहितं कन्यार्पणं स आसुरो विवाहः । तथा च मनुः ।

ज्ञातये द्रविणं दत्वा कन्ययै चैव शक्तितः ।
कन्याप्रदानं स्वाच्छन्द्याद् आसुरो धर्म उच्यते ॥

आप्रदानम् आदानं स्वीकारः । स्वाच्छन्द्यात् स्वेच्छात इत्य् अर्थः । गान्धर्वस् तु कन्यावरयोर् इच्छयान्योन्यसंयोगः । तथा च मनुः ।

इच्छयान्योन्यसंयोगः कन्यायाश् च वरस्य च ।
गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसंभवः ॥

मैथुन्यो मैथुनाय हित इत्य् अर्थः । राक्षसस् तु युद्धेन कन्याहरणम् । तथा च मनुः ।

हत्वा छित्वा च भित्वा च क्रोशन्तीं रुदतीं गृहात् ।
प्रसह्य कन्याहरणं राक्षसो विधिर् उच्यते ॥

प्रसह्य बलात्कारेणेत्य् अर्थः । पैशाचः पुनः कन्यकाछलाद् भवति । छलनं छलः । छद्मना स्वापाद्यवस्थासु कन्याहरणं पैशाच इत्य् अर्थः । तथा च शौनकः - “सुप्तानां प्रमत्तानां वापहारे पैशाचः” इति । तेष्व् आसुरादिषु सन्ततिदोषान् आह मनुः ।

ब्राह्मादिषु विवाहेषु चतुर्ष्व् एवानुपूर्वशः ।
ब्रह्मवर्चस्विनः (?) पुत्रा जायन्ते शिष्टसंमताः ॥
रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः ।
पर्याप्तभोगा धर्मिष्टा जीवन्ति च शतं समाः ॥
इतरेषु तु शिष्टेषु नृशंसानृतवादिनः ।
जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः ॥

नृशंसो हिंस्रः । ब्रह्मद्विषो वेदद्विषः । न चासुरादिविवाहेषु सप्तपदातिक्रमणाद्यभवेन पतित्वभार्यात्वयोर् अनुपपत्तिर् इति शङ्कनीयम्, तत्रापि स्वीकारानन्तरम् एव संस्कारविधानात् । तथा च देवलः ।

गान्धर्वादिविवाहेषु पुनर् विवाहिको विधिः ।
कर्तव्यश् च त्रिभिर् वर्णैः समयेनाग्निसाक्षिकः ॥

गृह्यपरिशिष्टे ऽपि ।

गान्धर्वासुरपैशाचविवाहा राक्षसस् च यः ।
पूर्वं परिश्रयस् तेषां पश्चाद् धोमो विधीयते ॥

परिशयः स्वीकारः । अत एव वसिष्ठो ऽपि न बलाद् अपहारमात्रेण भार्यात्वम् आह ।

बलाच् चेत् प्रहृता कन्या मन्त्रैर् यदि न संस्कृता ।
अन्यस्मै विधिवद् देया यथा कन्या तथैव सा ॥

अत्र वर्णव्यवस्थया विवाहनियमम् आह मनुः ।

षड् आनुपूर्व्या विप्रस्य क्षत्रस्य चतुरो ऽपरान् ।
विट्छूद्रयोस् तु तान् एव विद्याद् धर्म्यान् अराक्षसान् ॥

ब्राह्मादीन् गान्धर्वान्तान् ब्राह्मणस्य धर्म्यान् धर्माद् अनपेतान् विजानीयात् । अपरान् आसुरादीन् पैशचान् तान् क्षत्रियस्य । वैश्यशूद्रयोर् अपि तान् एव राक्षसवर्जितान् । एतेष्व् अपि प्रशस्तान् आह स एव ।

चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः ।
राक्षसं क्षत्रियस्यैकम् आसुरं वैश्यशूद्रयोः ॥

स्मृत्यन्तरे ऽपि ।

चत्वारो ब्राह्मणस्यायाः शस्ता गान्धर्वराक्षसौ ।
राज्ञस् तथासुरो वैश्ये शूद्रे चान्त्यस् तु गर्हितः ॥

गर्हितो न कस्यापि प्रशस्त इत्य् अर्थः । अत एव यमः ।

अपकृष्टो विवाहानां पैशाचः कथितो ऽष्टमः । इति ।

अत एवान्यविवाहालाभ एव पैशाचम् आह व्यासः ।

सर्वोपायैर् असाध्या स्यात् सुकन्या पुरुषस्य या ।
चौर्येणापि विवाहेन सा विवाह्या रहःस्थिता ॥ इति ।

केचिद् आर्षम् अपि प्रशस्तं नेच्छन्ति, तत्रापि शुल्कग्रहणात् । तथा च मनुः ।

आर्षे गोमिथुनं शुल्कं केचिद् आहुर् मृषैव तत् ।
अल्पो ऽपि वा महान् वापि विक्र्यस् तावद् एव सः ॥ इति ।

मृषा मिथ्या । नैतद् धर्माय, यतस् तावन्मात्रेणाप्य् असौ विक्र्य इत्य् अर्थः । देवलस् तु न गोमिथुनं शुल्कम् इत्य् आह ।

एवं विवाहाश् चत्वारो धर्म्याः श्रेयःप्रदायकाः ।
अशुल्का ब्राह्मणाद्यर्हास् ततो यान्ति द्वयोः कुलम् ॥ इति ।

एवं च ब्राह्मणस्य आसुरगान्धर्वौ प्रशस्तविवाहालाभे वेदितव्यौ । एवं क्षत्रियादेर् अपि द्रष्टव्यम् । यतु तु काश्यपेनोक्तम्,

क्रीता द्रव्येण या नारी न सा पत्न्य् अभिधीयते ।
न सा दैवे न पित्र्ये च दासीं तां कश्यपो ऽब्रवीत् ॥

इति, तत् प्रशस्तविवाहसंभवविषयम् । यद् अप्य् अत्र प्रशस्तविवाहाभिप्रायेण मनुनोक्तम्,

दुर्विवाहैः क्रियालोपैः वेदानध्ययनेन च ।
कुलान्य् अकुलतां यान्ति ब्राह्मण्यातिक्रमेण च ॥

इति, तद् अपि पूर्वोक्तेन समानविषयम् । तथा शुल्कादाने ऽपि स एव दोषम् आह् ।

न कन्ययाः पिता विद्वान् गृह्णीयाच् छुल्कम् अण्व् अपि ।
गृह्णन् शुल्कं हि लोभेन स्यान् नरो ऽपत्यविक्रयी ॥
नानुशुश्रुम जात्व् एतत् पूर्वेष्व् अपि हि जन्मसु ।
शुल्कसंज्ञेन मूल्येन छन्नं दुहितृविक्रयम् ॥

यमो ऽपि ।

यो मनुष्यो मनुष्यस्य विक्रयाद् धनम् इच्छति ।
तस्य मूत्रं पुरीषं च स परत्रोपजीवति ॥
कन्याविक्रयिणो मूर्खा इह किल्बिषकारिणः ।
पतन्ति नरके घोरे दहत्या सप्तमं कुलम् ॥ इति ।

एतद् आत्मर्थं धनग्रहणे वेदितव्यम् । कन्यार्थे तु न दोष इत्य् आह मनुः ।

यासां नददते शुल्कं ज्ञातयो न स विक्रयः ।
अर्हणं तत् कुमारीणाम् आनृशंस्यं च केवलम् ॥ इति ।

यच् छुल्कं कन्यार्थं तत् कुमारीणां केवलम् अर्हणं पूजनम् इत्य् अर्थः । आनृशंस्यम् अपापित्वम् । अत्र यज्ञपार्श्वः ।

विवाहे वितते तन्त्रे होमकाल उपस्थिते ।
कन्याया ऋतुर् आगच्छेत् कथं कुर्वन्ति याज्ञिकाः ॥
स्नापयित्वा तु तां कन्याम् अर्चयित्वा यथाविधि ।
युञ्जान आहुतिं हुत्वा ततस् तन्त्रं प्रवर्तयेत् ॥ इति ।

इति श्रीसकलविद्याविशारदकेशवादित्यभट्टोपाध्यायसूनु-

याज्ञिकवेदणभट्टोपाध्यावविरचितायाम्

स्मृतिचन्द्रिकायां विवाहप्रकरणम्

समाप्तः संस्करकाण्डः