०७ कन्यादानकालाः

अथ कन्यादानकालाः

तत्र संवर्तः ।

अष्टमे तु भवेद् गौरी नवमे नग्निका भवेत् ।
दशमे कन्यका प्रोक्ता द्वादशे वृषली स्मृता ॥

वृषली रजस्वला,

बन्ध्या तु वृषऌई ज्ञेया वृषली च मृतप्रजा ।
अपरा वृषली ज्ञेया कुमारी या रजस्वला ॥

इति देवलस्मरणात् । एतच् च प्रायिकाभिप्रायम्, न पुनर् द्वादश एव रजस्वला भवतीति, कासांचिद् अर्वाग् अपि रजोदर्शनसंभवात् । अत एव यमः ।

अष्टवर्षा भवेद् गौरी नववर्षा तु रोहिणी ।
दसवर्षा भवेत् कन्या अत ऊर्ध्वं रजस्वला ॥

यत् पुनर् आपस्तम्बेनोक्तम्,

अष्टवर्षा भवेद् गौरी दशवर्षा तु कन्यका ।
प्राप्ते तु द्वादशे वर्षे रजः स्त्रीणां प्रवर्तते ॥

इति, यद् अपि यमेनोक्तम्,

संप्राप्ते द्वादशे वर्षे रजः स्त्रीणां प्रवर्तते ।

इति, यद् अपि यमेन,

संप्राप्त द्वादशे वर्षे यः कन्यां न प्रयच्छति ।
मासि मासि रजस् तस्याः पिता पिबति शोणितम् ॥

इति, तद् अपि प्रायिकाभिप्रायम्, कासांचित् तत्रापि रजोदर्शनासंभवात् । अत एव मनुः ।

त्रिंशद्वर्षो वहेत् कन्यां हृद्यां द्वादशवार्षिकीम् ।
त्र्यष्टवर्षो ऽष्टवर्षां वा धर्मे सीदति सत्वरः ॥ इति ।

सत्वरो ऽल्पवया इत्य् अर्थः । एवं च यावद् रजोदर्शनं न भवति तावत् कन्योद्वाहो न विरुद्ध इत्य् उक्तं भवति । अत एव यमः ।

तावद् उद्वाहयेत् कन्यां यावन् नर्तुमती भवेत् । इति ।

गौतमो ऽपि - “प्रदानं प्राग् ऋतोर् अप्रयच्छन् दोषी प्राग् वासःप्रतिपत्तेर् इत्य् एके” इति । संवर्तो ऽपि ।

रोमकाले तु संप्राप्ते सोमो भुङ्क्ते तु कन्यकाम् ।
रजःकाले तु गन्धर्वो वह्निस् तु कुचदर्शने ॥
तस्माद् उद्वाहयेत् कन्यां यावन् नर्तुमती भवेत् । इति \

वसिष्ठो ऽपि ।

प्रयच्छन् नग्निकां कन्याम् ऋतुकालभयात् पिता ।
ऋतुमत्यां हि तिष्ठन्त्यां दोषः पितरम् ऋच्छति ॥ इति ।

नग्निका च पुराणे दर्शिता ।

यावन् न लज्जयाङ्गानि (?) कन्या पुरुषसंनिधौ ।
यो ऽन्यादीन्य् अवगूहेत (?) तावद् भवति नग्निका ॥ इति ।

संग्रहारो ऽपि ।

यावच् चेलं न गृह्णाति यावत् क्रीडति पांसुभिः \
यावद् दोषं न जानाति तावद् भवति नग्निका ॥

अमरस् तु यावद् ऋतुदर्शनं नग्निकेत्य् आह - “नग्निकानागतार्तवा” इति । तथा वरस्यापि परिणयनकालम् आह मनुः ।

त्रिंशद्वर्षो वहेत् कन्यां हृद्यां द्वादशवार्षिकीम् ।
त्र्यष्टवर्षो ऽष्टवर्षां वा धर्मे सीदति सत्वरः ॥ इति ।

बृहस्पतिर् अपि ।

त्रिंशद्वर्षो दशाब्दां तु भार्यां विन्देत नग्निकां ।
एकविंशतिवर्षो वा सप्तवर्षाम् अवाप्नुयात् ॥

विष्णुपुराणे ऽपि ।

वर्षैर् एकगुणैर् भार्याम् उद्वहेत् त्रिगुणः स्वयम् । इति ।

इति स्मृतिचन्द्रिकायां कन्यादानकालाः