०३ सापिण्ड्य-सगोत्रत्व-निवृत्तिः

ननु च माता दानसमकालम् एव पितृसापिण्ड्यं तद्गोत्रं च हित्वा पतिसापिण्ड्यं तद्गोत्रं च प्रतिपद्यते । तत् कथम् “असपिण्डा च या मातुः” इति । तद् उक्तम् ।

एकत्वं सा गता भर्तुः पिण्डे गोत्रे च सूतके । इति ।

पतिसपिण्डैर् एव पत्न्याः सापिण्ड्यं न स्वपित्रादिभिर् इत्य् अभिप्रायः । सत्यम् । नास्ति मातुः स्वपित्रादिबिः सह सापिण्ड्यं यदि तस्यास् त्यागपूर्वको विवाहः स्यात् । त्यागे हि स्वत्वनिवृत्तिवत्सापिण्ड्यसगोत्रत्वयोर् अपि निवृत्तिः । अनेनैवाभिप्रायेणोक्तम् ।

एकत्वं सा गता भर्तुः पिण्डे गोत्रे च सूतके । इति ।

अत एव दत्तपुत्रादेस् त्यागेनैव पितृगोरादिनिवृत्तिः सिद्धा । अन्यथा “असगोत्रा च या पितुः” इत्य् अत्र पितृग्रहणम् अनर्थक्ं स्यात् । उक्ता च गोत्रादिनिवृत्तिर् मनुना ।

गोत्ररिक्थे जनयितुर् न हर्द् दत्तिमः सुतः ।
गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा ॥ इति ।

एवं च पुत्रिकाया विवाहो नैव प्रदानपूर्वक इति न तत्र सापिण्ड्यसगोत्रत्वयोर् निवृत्तिः (?) । अत एव वसिष्ठो ऽप्य् अप्रत्तानाम् त्रिपूरुषं सापिण्ड्यम् आह - “अप्रत्तानां स्त्रीणां त्रिपूरुषं सापिण्ड्यम्” इति । न च पुत्रिकाविवाहे ऽपि तस्याः प्रदानम् अस्तीति शङ्कानीयम् (?) । प्रदाने तु गोत्रादिनिवृत्तिवत् पुत्रिकात्वस्यापि निवृत्तिस् तन्निवृत्तौ च तत्कार्यकर्तृत्वं न स्यात् । श्रूयते च तस्याः पुत्रकार्यकरत्वम् - “अभ्रातेव पुंस एति प्रतीची” इति । एतद् अपि निरुक्ते व्याख्यातम् - “अभ्रातृकेव पुंसः पितॄन् एत्य् अभिमुखी सन्तानकर्मणि पिण्डदानाय नयति” इति । अतश् च पुत्रिकायाः प्रदानाभावेन स्वपितृसापिण्ड्यं सगोत्रत्वं च सिद्धम् । अत एव लोगाक्षिः -

मातामहस्य गोत्रेण मातुः पिण्डोदकक्रियां ।
कुर्वीत पुत्रिकापुत्र एवम् आह प्रजापतिः ॥

एवम् आसुरादिविवाहेष्व् अपि सगोत्रत्वादेर् अनिवृत्तिः, तत्रापि प्रदानाभावात् । अत एव मार्कण्डेयः ।

ब्राह्मादिषु विवाहेषु या तूढा कन्यका भवेत् ।
भर्तृगोत्रेण कर्तव्यास् तस्याः पिण्डोदकक्रियाः ॥
आसुरादिविवाहेषु पितृगोत्रेण धर्मतः ।

मातुः पितृगोत्रेणेत्य् अर्थः । एवं च पुत्रिकाकरणादौ मातुः स्वपित्रादिसापिण्ड्यसद्भावाद् युक्तम् उक्तम् - (?) “असपिण्डा च या मातुः” इति । ननु च पुत्रस्यापि मातृसपिण्डत्वाद्या मातुः सपिण्डा सा पुत्रस्यापीति किम् अर्थं मातृग्रहणम् । उच्यते । यदा तु पुत्रिकासुतस्यैव मातृमातामहाभ्यां परित्यागः तदा तत्सापिण्ड्यनिवृत्त्या तत्सपिण्डाया विवाहप्राप्तौ तन् मा भूद् इत्य् मातृग्रहणम् । एवं दत्तपुत्रादेस् त्यागेनैव पितृगोत्रनिवृत्त्या तत्सगोत्राया विवाहप्राप्तौ तन् मा प्रसांक्षीद् इति । पितृग्रहणम् इति सर्वम् अनवद्यम् । मातृसगोत्राम् अपि केचिन् नेच्छन्ति । तद् आह व्यासः ।

सगोत्रां मातुर् अप्य् एके नेच्छन्त्य् उद्वाहकर्मणि ।

एतद् अपि पुत्रिकाकरणाविषयं मातुः पतिगोत्रत्वेन गोत्रान्तराभावात् । न च भूतपूर्वगत्या मातृसगोत्राप्रतिषेध इति वाच्यम्, वर्तमाने संभवति भूतपूर्वगत्याश्रयणस्यान्याय्यत्वात् । एवं च या परिणेतुर् मातुश् च न सपिण्डा भवति या च परिणेतुः पितुश् चासगोत्रा सा विवाह्येति सिद्धम् ।