०५ कन्यालक्षणानि

कन्यालक्षणानि

“अनन्यपूर्विकां कान्ताम्” इत्यादिना कानिचित् कन्यालक्षणान्य् उक्तानि । अधुना लक्षणान्तराण्य् उच्यन्ते । तत्र मनुः ।

अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् ।
तनुलोमकेशदशनां मृद्वङ्गीं उद्वहेत् स्त्रियम् ॥

शातातपो ऽपि ।

हंसस्वनां मेधवर्णां मधुपिङ्गललोचनां ।
तादृशीं वरयेत् कन्यां गृहस्थः सुखम् एधते ॥

आपस्तम्बो ऽपि - “बन्धुशीललक्षणसंपन्नाम् अरोगाम् उपयच्छेत” इति । लक्षणसंपन्नाम् इत्य् अनेन विपरीतां नोद्वहेद् इत्य् आह । अत एव मनुः ।

नोद्वहेत् कपिलां कन्यां नधिकाङ्गीं न रोगिणीम् ।
नालोमिकां नातिलोमां न वाचाटां न पिङ्गलाम् ॥

वाचाटां बहुभाषिणीम् । पिङ्गलां पिङ्गलाक्षीम् । यमो ऽपि ।

ह्रस्वा दीर्घा क्ष्शा स्थूला पिङ्गाक्षी गौरपाण्डुरा ।
न पूज्या न च सेव्यास् ता नाशमृत्युकराः स्त्रियः ॥

विष्णुपुराणे ऽपि ।

न स्मश्रुव्यञ्जनवर्ती न चैव पुरुषाकृतिम् ।
न घर्घरस्वरां क्षामां न च काकस्वनां तथा ॥
नातिबद्धेक्षणां तद्वद् वृत्ताक्षीं नोद्वहेद् बुधः ।
यस्याश् च रोअशे जङ्घे गुल्फौ यस्यास् तथोन्नतौ ॥
गण्डयोः कूपकौ यस्या हसन्त्य् आस्तां न चोद्वहेत् ।
नातिरूक्षच्छविं पाण्डुकरजाम् अरुणेक्षणाम् ॥
आपीनहस्तपादां च न कन्याम् उद्वहेद् बुधः ।
न वामनां नातिदीर्घां नोद्वहेत् संहतभ्रुवम् ॥
न चातिच्छिद्रदशनां न करालमुखीं नरः ॥ इति ।

अथ नामतो वर्ज्याः । यथाह मनुः ।

नर्क्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम् ।
न पक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम् ॥

ऋक्षं नक्षत्रम् । अन्त्या म्लेच्छा । भीषणं भयानकम् । आपस्तम्बो ऽपि -

नक्षत्रनाम नदीनामा वृक्षनामाश् च गर्हिताः ।
सर्वाश् च रेफलकारोष्मान्ता वरणे परिवर्जयेत् ॥

यमो ऽपि ।

देवनाम्नीं नदीनाम्नीं शैलगन्धर्वनामिकाम् ।
ऋक्षवृक्षलतानाम्नीं दारार्थे परिवर्जयेत् ॥

तथा पुनर् भूर् अप्य् अविवाह्या । यद् आह काश्यपः ।

सप्त पौनर्भवाः कन्या वर्जनीयाः कुलाधमाः ।
वाचा दत्ता मनोदत्ता कृतकौतुकमङ्गला ॥
उदकस्पर्शिता या च या च पाणिगृहीतका ।
अग्निं परिगता या च पुनर्भूप्रसवा च या ॥
इत्य् एताः काश्यपेनोक्ता दहन्तिकुलम् अग्निवत् ।
प्ररोहत्य् अग्निना दग्धः पादपः सुचिराद् अपि ॥
न पौनर्भावादग्धं कुलं क्वापि प्ररोहति ।

पौनर्भवाः पुनर्भुव इत्य् अर्थः । तथा च बोधायनः - “वाग्दत्ता मनोदत्ता अग्निं परिगता सप्तमं पदं नीता भुक्ता गृहितगर्भा प्रसूता चेति सप्तविधा पुनर्भूः । तां गृहीत्वा न प्रजां न धर्मं वा विन्देत्” इति । वाग्दत्ता पुनःसंस्कारकर्मणि पुनर्भूर् भवति । अतस् तां गृहीत्वा परिणीय प्रजां धर्मं च न विन्देन् न भजेद् इत्य् अर्थः । अत एव नारदः ।

कन्यैवाक्षतयोनिर् या पाणिग्रहणदूषिता ।
पुनर्भूः प्रथमा प्रोक्ता पुनःसंस्कारकर्मणि ॥

पाणिग्रहणदूषितेति वाग्दत्तादेर् उपलक्षणर्थम् । याज्ञवल्क्यो ऽपि ।

अक्षता च क्षता चैव पुनर्भूः संस्क्र्ता पुनः । इति ।

अक्षता वाग्दत्तादिका । क्षता तु भुक्तादिका । अत्र यद्य् अप्य् उक्तानि बाह्यलक्षणानि कथंचिज् ज्ञातुं शक्यानि, तथाप्य् आभ्यन्तराणां दुर्विज्ञेयत्वात् तज्ज्ञानम् आश्वलायनोक्तविधिना कार्यम् । अत एवाश्वलायनो ऽपि दुर्विज्ञेयानि लक्षणानीत्य् आह ।

अष्टौ पिण्डान् कृत्वा ऋतम् अग्रे प्रथमं जज्ञे ऋते सत्यं प्रतितिष्ठितम् । यद् इयं कुमार्यभिजाता तद् इदम् इह प्रतिपद्यताम् । यत् सत्यं तद् दृश्यताम् । इति पिण्डान् अभिमन्त्र्य कुमारीं ब्रूयाद् एषाम् एकम् गृहाणेति । क्षेत्राच् चेद् उभयतः सस्याद् गृह्णीयात्, अन्नवत्य् अस्याः प्रजा भविष्यतीति विद्यात् । गोष्ठात् पशुमती । वेदपुरीषाद् ब्रह्मचर्यस्विनीति अविनाशिनो हृदात् सर्वसंपन्ना । देवनात् कितवी । यदि (?) चतुष्पथाद् विप्रव्राजिनी । ईरिणाद् अध्न्या स्यात् । श्मशानात् पतिघ्नी । इति

विविधं व्रजतीति विप्रव्राजिनी स्वैरिणीत्य् अर्थः । एवम् उक्तलक्षणयोगिन्याम् अविशेषेण विवाहप्राप्तौ क्वचित् कुलतो ऽपवादम् आह यमः ।

चतुर्दश कुलानीमान्य् अविवाह्यानि निर्दिशेत् ।
अनार्षेयं ब्राह्मणानाम् ऋत्विजां च विवर्जयेत् ॥
अत्युच्चमतिह्रस्वं च अतिवर्णं च वर्जयेत् ।
हीनाङ्गम् अतिरिक्ताङ्गम् आमयाविकुलानि च ॥
श्वित्रिकुष्ठिकुलादीनां कुर्याद् विपरिवर्जनम् ।
सदा कामकुलं वर्ज्यं लोमशानां च यत् कुलम् ॥
अपस्मारिकुलं यच् च यच् च पाण्डुकुलं भवेत् । इति ।

अनार्षेयम् अविज्ञातप्रवरम् । अत्युच्चमतिदीर्घा यस्मिन् कुल तद् अत्युच्चम् । अतिह्रस्वम् अतिकुब्जा यस्मिन् । अतिशयितो वर्णो यस्मिन् तद् अतिवर्णम् । एतच् च रोगिकुलवर्जनं तद् रोमसङ्क्रान्तिभयात् । अत एव याज्ञवल्क्यः ।

स्फीताद् अपि न सञ्चारिरोगदोषसमन्वितात् । इति ।

स्फीतात् समृद्धाद् इत्य् अर्थः । दोषाः पातित्यम् । मनुर् अपि ।

महान्त्य् अपि समृद्धानि गोऽजाविधनधान्यतः ।
स्त्रीसंबन्धे दशैतानि कुलानि परिवर्जयेत् ॥
हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम् ।
शय्यामयाव्यपस्मारिश्वित्रिकुष्ठिकुलानि च ॥ इति ।

हीनक्रियं यागाद्यनुष्ठानरहितम् । निष्पुरुषं पुरुषशून्यम् । निश्छन्दो वेदहीनम् । रोमशं बहुरोमशम् । अर्शसं व्याधिविशेषोपेतम् । एवम् इतराण्य् अपि द्रष्टव्यानि । एतच् च हीनक्रियादिवर्जनं तथाविधापत्यपरिहारार्थम् । श्रूयते च तथाविधापत्योत्पत्तिः पुराणे ।

मातुलान् भजते पुत्रः कन्यका भजते पितॄन् ।

याज्ञवल्क्यो ऽपि ।

यथाशीला भजेन् माता तथाशीला भवेत् सुता । इति ।

अत एव च मनुः सद्भिर् एव सह संबन्धम् आचरेद् इत्य् आह ।

उत्तमैर् उत्तमैर् नित्यं संबन्धान् आचरेत् सह ।
निनीषुः कुलम् उत्कर्षम् अधमान् अधमांस् त्यजेत् ॥

याज्ञवल्क्यो ऽपि ।

दशपुरुषविख्याताच् छ्रोत्रियाणां महाकुलात् ।

मातृतः पितृतः पञ्च विख्याताः पुरुषा यस्मिन् कुल तद् दशपूरुषविख्यातं कुलम्, तस्मान् महाकुलात् पुत्रपश्वादिसमृद्धात् कन्याम् उद्वहेद् इत्य् अर्थः । सा च सवर्णैव ग्राह्या । यद् आह व्यासः ।

स्नात्वा समुद्वहेत् कन्यां सवर्णां लक्षणान्विताम् । इति ।

एतत् प्रथमपरिणयनविषयम् । अत एव मनुः ।

सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि । इति ।

अनेन सवर्नापरिणयनोत्तरकालम् असवर्णापरिणयनम् अविरुद्धम् इत्य् आह । अत एव याज्ञवल्क्यः ।

तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम् ।
ब्राह्मणक्षत्रियविशां भार्याः स्वाः शूद्रजन्मनः ॥

वर्णक्रमाद् ब्राह्मणस्य क्षत्रिया वैश्या शूद्रा चेति तिस्रो भार्याः । क्षत्रियस्य वैश्या शूद्रा चेति द्वे । वैश्यस्यैका शूद्रेति । सवर्णा पुनः सर्वेषां मुख्या स्थितैव । न च ब्राह्मणस्य ब्राह्मणी क्षत्रिया वैश्या चेति तिस्रो भार्या इति व्याख्यानं शङ्कनीयम्, तथात्वे “स्वाः शूद्रजन्मनः” इत्य् अविविक्षितार्थं स्याद् वैश्यस्यापि तथात्वेनाविशेषात् । अतः पूर्वोक्तैव ज्यायसी । अत एव मनुः ।

शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते ।
ते च स्वा चैव राज्ञः स्युस् ताश् च स्वा चाग्रजन्मनः ॥ इति ।

एतत् तु कामतः प्रवृत्तविषयम् । यद् आह स एव ।

कामतस् तु प्रवृत्तानाम् इमाः स्युः क्रमशो ऽवराः । इति ।

अवरा जघन्या इत्य् अर्थः । अनेन धर्मार्थं सवर्णापरिणयनम् इत्य् उक्तं भवति । अत एव विष्णुः ।

द्विजस्य भार्या शूद्रा तु धर्मार्थं न भवेत् क्वचित् ।
रत्यर्थम् एव सा तस्य रागान्धस्य प्रकीर्तिता ॥ इति ।

सा धर्मार्थं न भवेद् धर्मकार्येषु नानुप्रविशेद् इत्य् अर्थः । अत एव मनुः ।

दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु ।
नाश्नन्ति पितृदेवास् तं न च स्वर्गं स गच्छति ॥

तत्प्रधानानि तदायत्तानीत्य् अर्थः । यत् तु तेनैवोक्तम्,

न ब्राह्मणक्षत्रिययोर् आपद्य् अपि हि तिष्ठतोः ।
कस्मिंश्चिद् अपि वृत्तान्ते शूद्रभार्योपदिश्यते ॥

इति, तद् अग्रत एव शूद्रापरिणयनविषयम्, “इमाः स्युः क्रमशो ऽवराः” इति तेनैव क्रमविधानात् । उक्तं च याज्ञवल्क्येन" तिस्रो वर्णानुपूर्व्येण" इति । “आपद्य् अपि तिष्ठतोः” सवर्णाम् अलभमानयोर् अपीत्य् अर्थः । एतच् चानयोर् अत्यन्तनिषेधार्थम्, न पुनर् वैश्यस्य प्राप्त्यर्थम् । यतः स एवाह ।

हीनजातिस्त्रियं मोहाद् उद्वहन्तो द्विजातयः ।
कुलान्य् एव नयन्त्य् आशु ससन्तानानि शूद्रताम् ॥ इति ।

पैठीनसिस् तु सवर्णालाभे क्षत्रियादिविवाहम् आह - “अलाभे कन्यायाः स्नातकव्रतं चरेद् अपि वा क्षत्रियायां पुत्रान् उत्पादयेद् वैश्यायां शूद्रायां वेत्य् अन्ये” इति । यद् अपि च याज्ञवल्क्येनोक्तम्,

यद् उच्यते द्विजातीनां शूद्राद् दारोपसंग्रहः ।
न तन् मम मतं यस्मात् तत्रात्मा जायते स्वयम् ॥

इति, तद् अपि मानवेन समानार्थम् । न चैवं सति “तत्रात्मा जायते स्वयम्” इति हेतुत्वेनानुगुणम् इति वाच्यम्, तेनापि “तिस्रो वर्णानुपूर्व्येण” इत् शूद्रापरिणयनस्योक्तत्वात् । किं च हेतुत्वानुसारेण कदाचिद् अपि शूद्राविवाहानङ्गीकारे क्षत्रियादिविवाहो ऽपि न स्यात्, तत्राप्य् आत्मन एवोत्पत्तिः । अतो नायं हेतुः किं त्व् अयम् अर्थवाद इति मन्तव्यम् । यत् पुनर् यमेनोक्तम्,

ब्राह्मणो वृषलीं गत्वा त्र्यहं भवति सूतकी ।
अथास्यां गर्भम् आधत्ते ब्राह्मण्याद् एव हीयते ॥

इति, यद् अपि मनुना,

शूद्रां शयनम् आरोप्य ब्राह्मणो यात्य् अधोगतिम् ।
जनयित्वा सुतं तस्यां ब्राह्मण्याद् एव हीयते ॥

इति, तेनापि व्युत्क्रमेणोद्वाहकर्म गमनं तस्याम् एव सुतोत्पत्तिर् निषिध्यते, न पुनस् तत्र सुतोत्पत्तिमात्रम् । तथात्वे तु,

चतुस्त्रिद्वैयकभागिनो (?) वर्णतो ब्राह्मणात्मजाः ।

इति विभागवचनं न स्यात् । अत एव मनुर् अपि केवलशूद्रापत्यतया दोषम् आह ।

शिल्पेन व्यवहारेण शूद्राप्त्यैश् च केवलैः ।
गोभिर् अश्वैश् च यानैश् च कृष्या राजोपसेवया ॥
अयाज्ययाजनैश् चैव नास्तिक्येन च कर्मणाम् ।
कुलान्य् आशु विनश्यन्ति यानि हीनानि मन्त्रतः ॥ इति ।

गोभिर् आश्वैर् विक्रीयमाणैर् इत्य् अर्थः । तथा मतान्तराण्य् अपि स एवाह ।

शूद्रावेदी पतत्य् अत्रेर् उतथ्यतनयस्य च ।
शौनकस्य सुतोत्पत्त्या तदपत्यतया भृगोः ॥

अस्यार्थः - शूद्रावेदी विप्रः पतति । अत्र अत्रेर् उतथ्यतनयस्य गौतमस्य च मतम् उक्तम् । अतस् तयोर् मते शूद्राविवाहो नास्ति । शौनकस्य न विवाहमात्रात् पातित्यम्, किं तु सुतोत्पत्त्या । अतस् तस्य मते शूद्राम् ऋतौ नोपेयात् । भृगोस् तु न तत्र सुतोत्पत्त्यापि पतनम्, किं तु तदपत्यतया तान्य् एव शूद्रायाम् उत्पन्नान्य् एव अपत्यानि यस्यासौ तदपत्यः, तस्य भावस् तदपत्यता, तयेत्य् अर्थः । अतस् तस्य मते ब्राह्मण्याम् अप्रसूतायां शूद्राम् ऋतौ नोपेयद् इति । तथा वसिष्ठो ऽपि शूद्रापरिणयननिषेधम् आह - “शूद्राम् अप्य् एके मन्त्रवर्जम् । तद् उ तथा न कुर्यात् । अंहोभिर् ध्रुवः कुलापकर्षः प्रत्युतास्वर्ग्यः” इति ।

इति स्मृतिचन्द्रिकायां कन्यालक्षणानि